नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 51, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः । ३७ तां चालोक्य चिन्तितवानस्मि विस्मितमनाः ॥ क ॥ किं लक्ष्मीः स्वयमागता मुररिपोर्देवस्य वक्षःस्थला- त्कोपात्पत्युरुतावतारमकरोद्देवी भवानी भुवि । श्यामाम्भोजसदृक्षपक्ष्मलचलन्नेत्रामिमां पश्यतो धातस्तात करोषि किं न वदने चक्षुःसहस्रं मम ॥ ५६ ॥ अपिच । इन्दोः सौन्दर्यमास्यं कलयति कमलस्पर्धिनी नेत्रपत्रे कालिन्द्याः कुन्तलाली तुलयति विभवं भव्यभङ्गैस्तरङ्गैः । तस्याः किं श्लाघ्यतेऽन्यत्सुभगगुणनिधेः काप्यपूर्वैव यस्याः पुष्पेषोर्वैजयन्ती जयति युवजनोन्मादिनी यौवनश्रीः ॥ ५७ ॥ अपिच । आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः । एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो यँस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयम् ॥ ५८ ॥ सापि यथा त्वमिदानीं मामिह पृच्छसि तथार्धपथमिलितं कांचिदु- दीचीनमध्वगं दक्षिणस्यां दिशि प्रस्थितमादरेण पृच्छन्ती मुहूर्तभिव तत्रैव विश्रमितुमारभत ॥ ख ॥ श्रुतश्चायं मयापि तेन तस्याः पुरः कस्यचिदुँदीच्यनरपतेः श्लाघ्य- मानस्य कैथावशेषालापः ॥ ग ॥ तस्मिन्स्मितमुखे यूनि यूपदीर्घभुँजद्वये । ते धन्या न्यपतन्येषां कंदर्पसदृशे दृशः ॥ ५९ ॥ किं बहुना । सा त्वं मन्मथमञ्जरी स च युवा भृङ्गस्त्वैवोचितः श्लाघ्यं तद्ववतोः किमन्यदपरं किं त्वेतदाशास्महे । आकार इति ॥ उरगप्रभोर्वासुकेर्यथा जिह्वासहस्रद्वयं वर्तते तथा यस्यैतावत्यो जिह्वा भवेयुः स एव वर्णयितुं क्षमो भवेत् । यदा ‘जिह्वासहस्रं मुखे’ इति पाठः । तदा सहस्रशब्दोऽनन्तबहुत्ववचनः ॥ ५८ ॥ ख ॥ सा त्वमिति ॥ अत्राप्रत्यक्षमपि बुद्धिकल्पितं नलं प्रत्यक्षभिव मन्यमानो १ 'यस्य स्यादुरगप्रभोरिव मुखे जिह्वासहस्रद्वयम्'; 'यस्यास्मिन्नुरगप्रभोरिव भवे- ज्जिह्वासहस्रं मुखे'। २ 'उदीचीनं नरपतेः'। ३ 'कथाशेषालापः'। ४ 'भुजद्वया'।