नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 60, कुल 258 में से
संदर्भ में पढ़ें४४ नलचम्पूः । राजते राजतेनायं सानुना सानुनायकः । यस्मिन्निशम्य गायन्तं किंनरं किं न रंस्यते ॥ ८ ॥ इतश्चास्य जनयति जलबुद्धिं बाललीलामृगाणा- मयमिह पटुकान्तिः स्फाटिको भित्तिभागः । इह हरितमणीनामुल्लसन्तो मयूखाः सरसनवतृणालीलोभमुत्पादयन्ति ॥ ९ ॥ इयं च गौरवं गौरवंशस्य पर्वतः पर्वतस्थले । भ्रमरी भ्रमरीणस्य कुरुतेऽकुरुतेन ते ॥ १० ॥ अपिच । इह कवलितकन्दं कंदरे कन्दलिन्यां भुवि विरचितकेलि क्रीडति क्रोडयूथम् । इह सरसिजगर्भभ्रान्तभृङ्गं कुरङ्गाः सरसि सरलयन्तः कन्धरां कं धयन्ति ॥ ११ ॥ इह पुनरनिशं निशम्य भिन्न- द्रुममुकुलानि कुलानि षट्पदानाम् । श्रुतिसुखकरणं रणन्ति वीणां तदनुगुणां गुंणयन्ति किंनरेन्द्राः ॥ १२ ॥ इतश्च क्रीडाचलस्थलकमलदीर्घिकातीरतरुतलमनुसरतु देवः ॥क॥ राजत इति ॥ अयं सानुनायको गिरी रजतनिर्मितेन सानुना तटेन राजते । यस्मिन्गायन्तं किंनरं निशम्य श्रुत्वा न किं रंस्यते । रंस्यत एव ॥ ८ ॥ गौरेति ॥ गौरो वंशोऽन्वयो यस्य तस्य ते । पर्वतस्थले गिरिस्थले । पर्वतो गच्छतः । अतएव श्रमेण देहवैकल्येन भ्रमिसंज्ञेन खिन्नस्य सतोऽकुत्सितरुतेन भ्रमरी भृङ्गी गौरवं प्रतिपत्तिविशेषं कुरुते ॥ १० ॥ इहेति ॥ कं जलम् । धयन्ति पिबन्ति ॥ ११ ॥ इहेति ॥ रणन्तीति शत्रन्तं षट्पदकुलविशेषणम् । तस्य भृङ्गरणितस्यानुगु- णामनुगामिनीम् ॥ १२ ॥ १ 'कंधराः'. २ 'क्वणयन्ति'; 'गणयन्ति'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA