नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 62, कुल 258 में से
संदर्भ में पढ़ें४६ . नलचम्पूः । सुरवारणेन्द्रविक्षोभितगगनमन्दाकिनीपतत्पौण्ड्ररडिण्डीरपिण्डपटला- नि विडम्बयन्तः, शकलोदितेन्दुमण्डलसहस्रसंछादितमिव गगनमा- पाद्यन्तो, मन्दरगिरिपरिक्षेपक्षुभितक्षीरवारिधिदूरसमुच्छलितदुग्ध- कल्लोललीलां दर्शयन्तः, शेषाहिफणचक्रवालधवलाः, प्रमुदितहराट्टहा- सलवा इव मूर्तिमन्तः पतन्तः, अमन्दमन्द्रकोलाहलभरितभुवनान्त- रालाः, सपदि धरातलमुत्फुल्लपाण्डुपङ्कजप्रकरप्रकारेण मण्डयन्तो निपेतुः कुतोऽपि पुण्डरीकपाण्डुपक्षपन्नराजयो राजहंसाः ॥ क ॥ तथाविधे च व्यतिकरे विस्मयविस्मृतनिमेषतया निर्वातनिश्चलनी- लोत्पलपलाशशोभायमानलोचनः कौतुकाकूततरलितमनाः सपरिजानो नरपतिरवलोकयन्निश्चल एवावतस्थे ॥ ख ॥ ते च धार्तराष्ट्रा अपि कृतपाण्डुपक्षपाताः, द्विजातयोऽपि सुराजिताः, केचिदुच्चचञ्चुपुटविघटितनिकटबालस्थलकमलकुद्मलाः सरसबिस- किसलयानि कवलयन्तः, केऽप्युन्नतसरलगलनालयो नलिनवनविमु- खाः खमालोकयन्तः, केचिदुत्क्षिप्तपक्षविक्षेपपवनकम्पितकन्दलाः स- लीलमुत्पतन्तः, केचिन्मदमधुरनिजनिनादनिर्जितशिञ्जाननूपुराः, पुरः पुरोस्य धावन्तो विचरितुमारभन्त ॥ ग ॥ राजापि परिधावितविहङ्गमग्रहणाग्रहसमग्रव्यग्रपरिग्रहः परिहासो- न्मीलदमलदन्तकान्तिस्तबकिताधरपल्लवो विहँसन्निव तेषामन्यतमम- नुच्चदुलचरणचारीचर्यया चारु संचरन्तमीषदुत्क्षिप्तपक्षैविलासवि- हसितविलासिनीलास्यलीलमुन्नमिताग्रग्रीवं जग्राह हेलया हंसम् ॥ घ ॥ तथेति ॥ शोभायमानलोचनेत्यत्र शोभाशब्दात्तद्वति वर्तमानादुपमानात्कर्तृवा- चकादाचारेऽर्थे क्यङ् । एवं विश्रमायमाणेत्यादयोऽपि व्याख्याताः ॥ ख ॥ ते चेति ॥ कृष्णैश्चरणाननैर्हंसा धार्तराष्ट्राः । कृतः पाण्डुपक्षाणां शुभ्रपक्षतीनां पातो न्यासो यैः । तथा द्विजातयः पक्षिणः सुष्ठु राजिताश्च । विरोधे धार्तराष्ट्राः कुरवः पाण्डुनृपः पक्षपातस्तद्वल्लभम् । द्विजातयो विप्राः । सुरया जिताः । गल- नालिः कण्ठकाण्डम् ॥ ग ॥ राजेति ॥ सलयश्चरणन्यासश्चारी ॥ घ ॥ १ 'पाण्डुडिण्डीर'. २ 'अमन्दमन्दर'. ३ 'अमन्दमदकलकोलाहल'. ४ 'एवाव- तिष्ठते स्म'. ५ 'बालशैवालस्थल'. ६ 'सरल'- ७ 'उन्नमित'. ८ 'अवलोकयन्तः'. ९ 'व्यग्रसमस्तपरिजनः'; 'समस्तव्यग्रपरिकरः'. १० 'विहसन्निव'. ११ 'पक्षविक्षेपवि- लास'