नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 65, कुल 258 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः । ४९ नीरञ्जनपदे तिष्ठन्विश्वसंसारसङ्गतः । हंसः किं बध्यते क्वापि यस्य नालम्बनं प्रियम् ॥ १९ ॥ अन्यच्च । राजन्, जलपक्षिणो मुनय इव ये मीनाहारं वाञ्छन्ति, बहुधावन- व्यसनिनः बिसाधाराः । तद्द्लमाग्रेहेण १ ॥ क ॥ राजा तु तेन तस्याः श्लेषश्लाघिना श्लोकोक्तिरसेनाह्लाद्यमानो नर्मा- लापलीलया तां बभाषे ॥ ख ॥ देव इति चोपच्छन्दयितुं संबोध्य मुमोचयिषुः पतिं, हंसी नृपमाह । मुक्ताहारो मौक्तिकहारस्तद्वत्परिच्छदौ पक्षती यस्य शुभ्रत्वात् । स तथोक्तः । कस्य जलस्यान्ते वर्तमानमगं द्रुमं यः सेवते। मोक्षस्य मोचनस्य योग्योऽपि स हंसो वार्त्तस्त्वया भवता किं किमर्थं बध्यते इत्येकोऽर्थः । अथवा एकान्त इति समस्तं विजनार्थम् । अथ च हंस आत्मा पुरुषः स मोक्षयोग्योऽपि निर्वाणार्होऽपि किं बध्यते । न बध्यत एवेत्यर्थः । कया । लया । लशब्दः सर्वादिगणेऽन्यार्थः । अतः पुरुषापेक्षयान्यया प्रकृत्येत्यर्थः । कस्मान्न बध्यत इत्याह—कान्ते कमनीये परमानन्दरूपे ए कृष्णे ल्यकाहारपरि- वारः सन्योगमध्यात्मं यः सेवते ॥ अत्र पक्षे अ इत्यस्माद्विष्णुवाचकात्सप्तम्येकव- चने ए इति रूपम् । यदि वा समोक्षयोग्योऽपीति समः समदर्शनः । अक्षयोग्यो- ऽपि इन्द्रियसंबद्धोऽपि ॥ १८ ॥ नीरेति ॥ जनानां पदे स्थाने पुरग्रामादावतिष्ठन्यः सरस इदं सारसम् । तथा श्वसन्तीति श्वासाः प्राणिनः, वयः पक्षिणः श्वासा यत्र तथाभूतं नीरं जलम्, गतः स हंसः किं क्वापि बध्यते, न बध्यत एव । यस्य नलस्येदं नालं तृणसंबन्धि, वनं काननं प्रियम् । अथवा नीरञ्जनपदे नीरागपदे तिष्ठन्हंस आत्मा किं क्वापि बध्यते, न बध्यत एव । यस्य विश्वेभ्यः संसारसङ्गेभ्य आलम्बनमासक्तिर्न प्रियम् । विश्वसंसार- सङ्गत इति तसिलन्तम् ॥ १९ ॥ राजन्निति ॥ मीनो मत्स्यः । बह्विति भिन्नम् । बिसं पद्मिनीकन्द आधारो जीवनं येषाम् ॥ मुनिपक्षे अमी इति नेति च पदद्वयम् । बहुधा, अनेकधा वनव्यस- निनो वनस्थाः । तथा व्यपेतः साधारः साधारणतिथिपर्वोत्सवादियेभ्यः । लोकोत्तरवृ- त्तत्वात् । ‘बिसादनाः' इति पाठे तु बिसमदनं येषाम् । पक्षे विगतं सादनं येभ्यः । अपीडाकरा इत्यर्थः ॥ क ॥ राजेति ॥ श्लेषश्लाघिना श्लेषप्रकाशनशीलेन । एतेन एकान्त इत्यादिवचसां श्लिष्टार्थत्वमभिहितम् ॥ ख ॥ १ 'आग्रहेणेति', २ 'श्लोकोक्तिद्वयेन'. ५