भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 71, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 71

द्वितीय उच्छ्वासः । ५३ 'राजन्राजीवपत्राक्ष क्षिप्रं हंसो विमुच्यताम् । भविष्यत्येष ते दूतो दमयन्त्याः प्रलोभने' ॥ २३ ॥ राजा तुं तस्याः सोष्मवलातैलपूरेणेवाङ्गममुत्पुलकयता, कर्णान्तरम- वतीर्णेन, दमयन्तीति नाम्ना कोमलतैत्तिरिपिच्छस्पर्शसुखमिवानुभव- न्मनाङ्किमीलिताक्षश्चिन्तयांचकार ॥ क ॥ 'आह्लादयन्ति सौख्याम्भः शातकुम्भीयकुम्भिकाः । काञ्चीकलापसँश्रीकाः श्रोणीबिम्बाः श्रुता अपि ॥ २४ ॥ तँत्केयं दमयन्ती, कश्चायमाश्चर्यभूतो विहंगः, का चेयं नभोभार- ती, सर्वमेतद्विस्तरेण वेदितव्यम्' इत्यवधारयन्नेकस्यामुत्फुल्लपल्लवितल- तामण्डपच्छायायामुन्निद्रकुसुममकरन्दशीकरासारशिशिरे शिलातले निषद्य तं हंसमवादीत् ॥ ख ॥ 'भद्र, साप्तपदीनं सख्यम्, उँत्पन्नकतिपयप्रियालापा प्रीतिः, प्रयो- जननिरपेक्षं दाक्षिण्यम्, अकारणप्रगुणं वात्सल्यम्, अनिमित्तसुन्दरो मैत्रीभावः सतां लक्षणम् ॥ ग ॥ अँस्ति च तत्सर्वं भवन्मूर्तावती निःशङ्कमभिधीयसे । कथय केयं दमयन्ती, कस्य सुँता, कीदृग्रूपम्, कुत्र सा वसति, कँश्च भवानस्माक- मुपकर्तुमिच्छति, का चेयं दिँव्यवाणी' इत्येवमुक्तः सँ कथयितुमा- रेभे ॥ घ ॥ 'शृङ्गाररसशृङ्गार तस्याः सौन्दर्यवीरुधः । कर्णमारोप्यतां देव वार्ताविस्मयपल्लवः ॥ २५ ॥ राजा त्विति ॥ बला गन्धद्रव्यविशेषस्तस्य तैलम् ॥ क ॥ आह्लादेति ॥ सौख्यजलसौवर्णकलश्यः । आसतां दृष्टाः स्पृष्टा वा । श्रुता अप्याह्लादयन्ति । यतः सौख्यस्य सर्वात्मना आधारभूताः ॥ २४ ॥ भद्रेति ॥ सप्त पदानि गम्यन्त उच्यन्ते वा यत्र सख्ये तत्साप्तपदीनम् । मैत्र्याः प्रीतेर्भावोऽभिप्रायः ॥ ग ॥ शृङ्गारेति ॥ रसेन सिच्यमाना वीरुद्धर्धते । शृङ्गारोऽपि कर्णकण्ठे निहितेन पल्लवेन शोभत इत्युभयसमागमौचित्यात् । सौन्दर्येण वीरुदिव सौकुमार्यात् । वार्तया विस्मयो वार्ताविस्मयः स एव पल्लवः ॥ २५ ॥ १ 'तु तेन तस्याः'. २ 'तित्तिर'. ३ 'सश्रीक'. ४ 'तत्का नाम सा दमयन्ती'. ५ 'उपपन्नकतिपय'. ६ 'अस्ति तत्सर्वम्'. ७ 'तनया'. ८ 'कश्चभवान्कस्मादस्माकम्'. ९ 'दिव्या वाणी'. १० 'सोऽथ कथयितुम्'.

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास) · पृष्ठ 71, कुल 258 में से · BharatKosha