नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 72, कुल 258 में से
संदर्भ में पढ़ें५४ नलचम्पूः । अस्ति विस्तीर्णमेदिनीमण्डलमण्डनायमानो नगनगरपुरविहारारा- मरमणीयः सीतासहायसंचरितरघुपतिपादपद्मपवित्रारण्यः पुण्यतर- तरङ्गगङ्गागोदावरीवारिवारितदुरितदावानलप्रसरः मन्दर इव बलि- राजजनितपरिवर्तनः, कैलास इव महेश्वरलोककृतवसतिः, मेरुरिव सुवर्णप्रकृतिकमनीयो, यदुवंश इव दृष्टशूरपुरुषावतारः, सोमान्वय इव बुधप्रधानः वेदपाठ इवानेकैः सवनैरुपेतः पर्वते पर्वते स्थाणुभिः, पुरे पुरे पुराणपुरुषैः, जले जले कमलोद्भवैः पदे पदे देवकुलैः वने वने वरुणैः, स्थाने स्थाने नन्दनोद्यानैः, अर्गलः स्वर्गस्य, तापीप्रायो- ऽप्यनुतापी जनस्य, विन्ध्याद्रिसुद्रितायां दिशि देशानामुत्तरोऽपि दक्षिणो देशः ॥ क ॥ यत्र । शास्त्रे शस्त्रे च वेदे वैद्ये च भरते भारते च कल्पे शिल्पे च प्रधानो, धनी, धन्यो, धान्यवान्, विदग्धो वाचि, मुग्धो मुखे, स्निग्धो मनसि, वसति निरन्तरमशोको लोकः ॥ ख ॥ यंत्र क्रुद्धधूर्जटिललाटलोचनानलज्वालाकवलनाकुलः, त्रासादपा- ङ्गालोकनमात्रनिर्जितपरमेश्वरमनसां विलासिनीनामुच्चकुचकुम्भयोः अस्तीति ॥ देशानामुत्तरो मुख्यो दक्षिणदेशोऽस्ति । अपिर्विरोधे । उत्तर- शब्दस्य दिग्देशार्थत्वात् । बलिना बलवता, राज्ञा भीमक्षणेन जनितं परि समन्ताद्वर्तनं परिपालनं यस्य । पक्षे बलिराजो दैत्यः । परिवर्तनं भ्रमणम् । महानीश्वरोऽतिसमृद्धः शिवश्च । सुष्ठु वर्णा द्विजातयः । प्रकृतयोऽमात्याद्याः । पक्षे सुवर्णप्रकृत्या स्वर्णस्वभावेन काम्यः । शूरो विक्रमी वसुदेवपिता च । बुधो विद्वान्ग्रहविशेषश्च । स इति भिन्नम् । वनैः काननैः । पक्षे सवनैर्य- जैर्युक्तः ॥ स्थाणुः कीलः स्थिरपदार्थश्च । पुराणपुरुषो वृद्धो विष्णुश्च । कमलोद्भवैः कमलोत्पत्तिभिर्ब्रह्मभिश्च । कुलं गृहं वृन्दं च । वरुणो वृक्षो जलं वा । पक्षे प्रचेताः सूर्यो वा । नन्दन इति क्रियावचन इन्द्रवनसंज्ञा च । तैस्तै- र्बहुलविशिष्टैर्देवोऽर्गलोऽधिकः । स्वर्गे ह्येकैक एव स्थाणुप्रभृतिः । अस्मिंस्तु बहव इत्यर्थः । तापी नदी प्रायेण यत्र । विरोधे तु तापयत्यवश्यमिति तापी ॥ क ॥ यत्रेति ॥ कल्पे शिल्पे चेति । कल्पो यज्ञकर्मणामुपदेशकः । प्रधान इति । प्रकृष्टं धानं धारणं यस्य । शस्त्रास्त्रादीनि प्रकर्षेण धारयतीत्यर्थः । एवं सर्वत्र वाच्यलिङ्गता । मुख्यार्थस्य हि प्रधानशब्दस्याविष्टनपुंसकलिङ्गत्वम् ॥ ख ॥ यत्रेति ॥ देशे विलासिनीनां कुचादिष्ववयवेषु खोपकरणानि शृङ्गारादीनि स्थापयित्वा त्रासान्निलीनो मन्मथः । यतः । किंविशिष्टानां तासाम् । निर्जितं परमे- १ 'पवित्रारामः'. २ 'पुरुषैः'. ३ 'अनुतापी'. ४ 'यत्र च'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA