नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 73, कुल 258 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः। ५५ शृङ्गारसर्वस्वम्, अधरपल्लवेषु मधु, भ्रूभङ्गेषु धनुः, कटाक्षेषु पुष्पबा- णान्निधाय निलीनोऽङ्गेषु जघनस्थलस्थापितरतिर्मकरकेतनः ॥ क ॥ यासां तारुण्यमेव सर्वाङ्गेषु शोभार्थमाभरणम्, उत्तुङ्गस्तनमण्डल- लावण्यमेव मुखकमलावलोकनाय दर्पणः, तारतरनयनकान्तिरेव मुखमण्डलमण्डनाय चन्दनललाटिका, भ्रूभङ्गा एव विभ्रमाय मृग- मदपत्रभङ्गाः, कटाक्षा एव युवजनजयाय परमास्त्राणि, बन्धूककुसु- म्रकान्तिदन्तच्छद एव लोकलोचनमनोमोहनाय माहेन्द्रमणिः, मुख- कमलपरिमलागतमधुकरमधुरझंकार एव विनोदाय वीणाध्वनिः॥ख॥ किं बहुना। ता एव निर्वृतिस्थानमहं मन्ये मृगेक्षणाः। मुक्तानामास्पदं येन तासामेव स्तनान्तरम् ॥ २६ ॥ मन्ये च। ताभिरेव विविधनिधुवननिधानकुम्भीभिः कुम्भोद्भवोऽपि भगवान्प्रलोभितो भविष्यति, येनाद्यापि न मुञ्चति दक्षिणां दिंश- मेव ॥ क ॥ अथवा। देशो भवेत्कस्य न वल्लभोऽसौ स्त्रीसंकुलः सुस्थितकामकोटिः। दग्धैककामं त्रिदिवं विहाय यस्मिन्कुमारोऽपि रतिं चकार ॥ २७ ॥ तस्यान्तर्भूतवैदर्भमण्डलस्यालंकारभूतमैनाकुलममरपति पुरप्रति- स्पर्धि परितःपरिखाप्रान्तरूढप्रौढहृद्योद्यानमालावलयितमदभ्रशुभ्राभ्रं- श्चराणां धनिनां मनो याभिः ॥ अथ च परमेश्वरो धूर्जटिः। सोऽपि ताभिर्निर्जित इत्युक्तिलेशः। एतेन शरणागतत्राणवैभवम् ॥ क ॥- यासामिति ॥ माहेन्द्रमिन्द्रजालम् । तत्रबलेनाविद्यमानवस्तुप्रकाशनमिति यावत् । तदर्थो मणिर्माहेन्द्रमणिः ॥ ख ॥ ता एवेति ॥ निर्वृतिर्मुक्तिः शर्म च। मुक्ता मुक्तात्मानो मौक्तिकानि च ॥ २६ ॥ देश इति ॥ कामकोटिर्देवी कंदर्पकोटयश्च । कुमारः कार्तिकेयो डिम्भश्च । रतिरास्थार्थैः । सुरतार्थेन च विरोधोद्भावना ॥ २७ ॥ तस्येति ॥ तस्य दक्षिणदेशस्यान्तर्भूतं वैदर्भं मण्डलं तदलंकारभूतम् । एवं विशेषणोपेतम् । निरुपद्रवम् । तुङ्गतरेषु रञ्जन्ति तरुणानि नवान्यर्जुनानि धवलानि १ 'पल्लवे'. २ 'दिशम्'. ३ 'अनाकृत'. ४ 'पुरप्रतिस्पर्धि'. ५ 'प्रान्तमारूढ'- ६ 'शारदाभ्र'.