नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 74, कुल 258 में से
संदर्भ में पढ़ें५६ नलचम्पूः । लिहप्रासादशिखरशिखाभोगभ्रमरविरथतुरंगवेगम् एकत्रामिहोत्रमन्त्रप- वित्राहुतिहतसमस्तदिव्यान्तरिक्षभौमोत्पातसंघातैः, कृतमन्युभिरपि मन्युशून्यैः, उक्तसूक्तैरपि निरुक्तपरैः, सन्मार्गस्थैरपि गृहस्थैः, सकलत्रै- रपि ब्रह्मचारिभिः, अभ्यस्ततिथिभिरप्यतिथिकुशलैः, सामप्रयोगप्रधानै- रपि दण्डावलम्बिभिः, शतपथानुसारिभिरप्येकमागैँः ब्राह्मणैरध्यासि- तम्। एकत्र कुरुभिरिव द्रोणपुरःसरैः, प्रासादैरिव तुलाधारिभिः, नैया- यिकैरिवानुमेयानुमाननिपुणैः, वैशेषिकैरिव द्रव्यानुगुणकर्मविशेषप- ण्डितैः, वैयाकरणैरिव रूपसिद्धिप्रधानैः, रुद्रैरिवानकग्रन्थिवद्धकपर्दकैः, विपणिवणिग्जनैरधिष्ठितम् । एकत्र विटकौलदम्बदीक्षाभिरिव कुचरू- पलोभितलोकाभिः, कुकविकान्यपद्धतिभिरिव भग्नयतिगणवृत्ताभिः, निशाचरीभिरिव रजनीरागिणीभिः, सर्वतोमुखजघनचपलाभिरप्यना- र्याभिः, कर्णाटचेटीभिर्भरितम् । एकत्र बालकमिव कुलालाकी- यानि राजीवबानि तद्राजमाना ये राजहंसास्तैर्विराजितं वारि यस्यातस्या वरदा- यास्तीरे कुण्डिनं पुरं वर्तत इति शेषः । एकत्र ब्राह्मणैरध्यासितम् । कीदृग्भिः । आहुतिहतोपद्रवसंघैः । तथा कृतऋतुभिः । तथा कोपशून्यैः । निरुक्तं ग्रन्थविशेषो वचनाभावश्च । सन्मार्गः सदाचारः श्रेष्ठाध्वा च । सकलं सर्वं त्रायन्त इति सकलत्राः । ब्रह्म वेदं चरन्ति जानन्त्यवश्यम् । 'ब्रह्मचारिभिरपि सकलत्रैः' इति पाठे ब्रह्मचारिभिर्निषिद्धकामैः अतिथीनागन्तून्, कुशांश्च लान्ति स्वीकुर्वन्ति । साम वेदः सान्त्वं च । दण्ड आषाढो दमनं च । शतपथो यजुर्वेदभागः शत- संख्यः पन्थाश्च । एकमार्गैर्ऋजुभिः । सर्वत्रापिविरोधार्थे । स तु प्रतीयमानव्या- ख्यया । पुनरप्येकत्र । वणिग्भिरधिष्ठितम् । द्रोणो मानं कौरवगुरुश्च । सूत्रादिमानं गृहादीनां तिर्यग्धारणस्तम्भश्च तुला । अनुमेयं कणादि तस्या- नुमानमुद्देशज्ञानम् । पक्षे अनुमीयते तदनुमेयम् । अनुमीयतेऽनेन तदनु- मानम् । यथाऽयं वह्निमान्धूमवत्त्वादित्यत्र धूमोऽनुमानम् । वह्निरनुमेयः । द्रव्यस्य रूप्यकादेरनुगुणः संकलना तत्कर्मविशेषविज्ञाः । पक्षे द्रव्यानुगता गुणकर्मविशेषाः पदार्थाः । रूपं टङ्करूपकादिनाणकं शब्दश्च । कपर्दो वराटो जटाबन्धश्च । एकत्र । कर्णाटदासीभिर्भरितम् । कुचयो रूपेण लोभित- लोकाः । शाक्तदम्बदीक्षासु कुत्सितेन चरणा मांसादिनोपलोभितलोकाः । भग्न- मुनिवृन्दशीलाभिः । पक्षे भग्नयतिगणानि वृत्तानि यासु । यतिर्विरतिः । गणा मगणादयोऽष्टौ । वृत्तं पद्यम् ॥ रजनी हरिद्रा निशा च । रागो वर्णन्तरारोपण- मासक्तिश्च । कर्णाटे हि हरिद्रैवाङ्गरागः । मुखे जघने च चपलाः । आर्या साध्वी मात्रावृत्तमेदश्च । ततो नञ्योगः । अपिर्विरोधे । मुखजघनचपलाशब्द- स्यार्याख्याद्वयवाचित्वात् । एकत्र । कुलालैः कुम्भकारैः कुत्सितलालया चाकी- १ 'द्रव्यगुणकर्मसामान्यसमवायविशेषपण्डितैः'.