नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 75, कुल 258 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः । ५७ र्णम् । एकत्र वृद्धमिव कुजराजितम् । एकत्र चित्रविद्ययेव प्रव- र्धमानसकलशिशुशोभितया विन्यस्तस्वस्तिकया सर्वतोभद्रभूषणया भवनमालयालंकृतम् । एकत्र नाटकैरिव पताकाङ्कसंधिसंगतैः, दुष्टकिरातैरिव दृष्टकूटकर्मभिः, शस्त्रैरिव सुधारैः, विचित्रैरपि संचित्रैः, सं तुलैरप्यतुलैर्देवकुलैः संकुलम् । विशालमपि शाला- संपन्नम्, चतुश्चरणसंयुक्तमपि चरणरहितम्, विट्संभृतमपि शुचि- मार्गम्, सर्वत्र चत्वराधिकमपि स्थिरप्रकृति, मज्जन्महाराष्ट्रकुटुम्बिनी- मुखमण्डलविधीयमानोत्फुल्लकैमलशोभायास्तुङ्गतुङ्गरङ्गत्वरङ्गाङ्कतरुणार्जुनरा- जीवराजमानराजहंसविराजितवारेर्वरदायास्तीरे रमणीयकरसकुण्डं कुण्डिनं नाम नगरम् ॥ क ॥ यस्य नातिदूरे दर्शनदूरीकृतदुरितोपप्लवाप्लवनजनितपातकभङ्गां ग- ङ्गामुपहसन्ती स्वर्गमार्गाश्रयणनिश्रेणी पुण्यपयाः पयोष्णी वहति ॥ख॥ र्णम् । कुजैस्तरुभी राजितम् । पक्षे कुत्सितजरया जितम् । एकत्र । गृहश्रेण्या भूषितम् । प्रवर्धमानैः । सकलैः कलावद्भिः । शिशुभिर्डिम्भैः शोभितया । तथा विन्यस्ताः स्वस्तिका मौक्तिकादिक्षोदरचिताश्चतुष्का यस्याम् । सर्वत इति भिन्नम् । भद्राणि वास्तुशास्त्रख्यातानि भूषणं यस्याम् । यदिवा स्वस्तिकवर्धमानौ गृहावयवविशेषौ । पक्षे शिशुः सकलः स्वस्तिको वर्धमानः सर्वतोभद्र इत्याख्यानि पञ्च पत्राणि । एकत्र देवकुलैः संकुलम् । पताका ध्वजवासः सैवाङ्गो येषाम् । तथा संधिषु संगतानि । अविभाव्यसंधीनीत्यर्थः । नाटकेषु तु मुख्यनायकोपरि उपनायकचरितं पताका । अङ्कः प्रबन्धविभागः । मुख-प्रतिमुख-गर्भ-अवमर्श- निर्वहणाख्याः पञ्च संघयः । कूटं शिखरं कपटं च । सुधां लेपविशेषमियूति प्राप्नुवन्ति । पक्षे शोभना धारा येषाम् । विचित्रैरनेकप्रकारैः । न विगतचित्रैः । न तुला साम्यं येषाम् । तथा तुलया धारणस्तम्भेन सह । उभयत्रापि विरोधे । विशालं विस्तीर्णम् । व्यपेतशालम् । शाला गजाद्यालयः । चत्वारश्चरणा ऋग्वेदा- दयः । अपिचेति विरोधे । तदा रणेन युद्धेन रहितम् । विड्भिर्वैद्यैः संवृतम् । न विष्ठाभिः । चत्वरं चतुष्पथम् । प्रकृतिरमात्यादिः । विरोधस्तु चत्वरेति चकारस्य समुच्चयार्थस्य पूर्वपदेन योगे ॥ क ॥ यस्येति ॥ यस्य (पुरस्य) । नातिदूरे (निकटे) । गङ्गा स्नातपुण्यहेतुः । पयोष्णी तु दर्शनादपीत्यस्या विशेषः ॥ ख ॥ १ 'सुचित्रैः'. २ 'अतुलैरपि सतुलैः'. ३ 'कमलखण्ड'. ४ 'रामणीयक'.