भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 76, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 76

५८ नलचम्पूः । यस्य च पश्चिमदेशे१ प्रणतसुरासुरमौलिनीलमणिमरीचिचञ्चरीक- चक्रचुम्बितचरणाम्भोजस्य भोजकटकृपजन्मनो जरापातितययातेः प्रचण्ड२दण्डदाण्डिक्यदण्डनाडम्बरितगण्डपाषाणविदलितवैदर्भमण्डल- स्य भगवतो भार्गवस्याश्रमः ॥ क ॥ यत्र च विपन्नाः सन्ति साधवो नै३ तु तरवः, विजृम्भमाणकमला- नि सरांसि न जनमनांसि, कुवलयालंकाराः क्रीडादीर्घिका न सीम- न्तिन्यः, विपदाक्रान्तानि सरित्कूलानि न कुलानि ॥ ख ॥ किं बहुना । देशानां दक्षिणो देशस्तत्र वैदर्भमण्डलम् । तत्रापि वरदातीरमण्डलं कुण्डिनं पुरम् ॥ २८ ॥ तत्रास्ति समस्तरिपुपक्षक्षोददक्षदक्षिणक्षोणीपालमौलिमाणिक्यनि- कषनिर्मलितचरणनखदर्पणश्चतुरु४दधिपुलिनचक्रवालवालुकासंख्यसं- ख्यविख्यातकीर्तनीयकीर्तिसुधाधवलितवसुन्धरावलयो निजभुजपञ्ज- रान्तरनिरुद्धशारिकायमाणरणरङ्गाङ्गणार्जितोर्जितजयश्रीः, यौवनम- दमत्तकान्तकुन्तलविलासिनीनयननीलोत्पलदलमालार्च्यमानलावण्य- यस्य चेति ॥ भार्गवः शुक्रः । भोजकटकृपेति अधिष्ठाननाम । तत्र जन्मा- स्येति । तथा च श्रुतिः—'शुक्रो भोजकटेऽभवत्' । कृपादिप्रसिद्ध्या हि अधिष्ठान- नामानि दृश्यन्ते । तथा च मरुदेशे शिवकूपः किरातकूपो जाङ्गलकूप इत्याद्यधिष्ठान- नामानि । वृषपर्वदैत्यसुतां शर्मिष्ठां शुक्रसुतां देवयानीं च ययातिर्नृपतिरुपयेमे । ततोऽसौ शर्मिष्ठाप्रीत्या देवयानीमवजानन् 'तवाङ्गे जरा पततु' इति शुक्रेण शप्तः । तथा दाण्डक्यो नाम भोजकटदेशाधिपः शुक्रसुतामरजः संज्ञां क्षत्रियः किल हठा- द्द्विजकन्यां परिणीतवान् । इति परिभूतंमन्येन शुक्रेण मन्युना पातालशैलगण्डवृष्टिना स वैदर्भमण्डलो हतः ॥ क ॥ यत्रेति ॥ विपद्भायन्त इति विपन्नाः सन्तः न वृक्षा विपर्णाः । एवं विकसत्क- मलानि । न तु कुत्सितो विजृम्भमाणः प्रसरन्मलः पापं येष्विति । यद्विश्वः—'मलं किट्टे पुरीषे च पापे च कृपणे मलः' । कुवलं सरोजं कुत्सितवलयं च । वीनां पदै- राक्रान्तानि कूलानि । कुलानि तु न विपदा विपत्त्या ॥ ख ॥ तत्रेति ॥ तत्र कुण्डिने रिपुपक्षक्षोदप्रवीणानामप्यनुकूलानां राज्ञां मौलिमणिनि- कषनिर्माजितनखादर्शः । तथा चतुरुदधिद्वीपपुञ्जवालुकावदसंख्यसंख्येच्चनेकरणेषु विख्यातकीर्त्यैव सुधया शुभ्रितभूमण्डलः । तथा जयश्रीः सारिकोपमा यस्य । एवं- विधो भीमो नाम राजास्ति ॥ कुन्तलस्य देशविशेषस्य विलासिन्यः । लावण्यमेव १ 'प्रदेशे'. २ 'प्रचण्डदाण्डिक्य'. ३ 'न तरवः'. ४ उदधिवेलापुलिन'

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास) · पृष्ठ 76, कुल 258 में से · BharatKosha