भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 89, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 89

तृतीय उच्छ्वासः । ७१ टिकाक्षमालिकां बिभ्राणः, कुशंकौपीनवासाः, करकलितकुशकाण्ड- कमण्डलुमण्डलैः, तरुभिरिव विविधशाखैर्विभृतजटावल्कलैश्च, पर्वतै रिव समेखलैः संरुद्राक्षमालैश्च, नक्षत्रैरिव समग्रकृत्तिकाश्लेषैः सज्‍येष्ठाषाढैश्च, ससंमदैर्पि नमदाकारमाकलयद्भिः, अक्रीडैरपि चक्रीडापरैः, रोमशैरपि विप्रवालकैः मुनिभिः परिवृतः, सेवितपुरा- णपुरुषोऽप्यजनार्दनप्रियः, प्रसन्नशंकरोऽप्यनाश्रितभवः, प्रबुद्धोऽप्यव- न्दीकृतजनः, श्रमणोऽप्यजिनपरिग्रहः, ग्रहगण इव नवधात्मको लोकानाम्, धनुर्धर इव नालीकसंधः, हंस इव नदाम्भस्थौनकप्रियः, पन्नग इव नाकुलीनः, सरस्वतीसंनिवासस्य मुखमन्दिरस्य वन्दनमा- लयेव प्रथमोद्भेदभासिन्या दंष्ट्रिकारोमराजिरेखया श्यामलितोत्तरोष्ठ- पृष्ठः, कलिकालकलङ्कंशङ्काशरणागतैस्त्रिभिः पुण्ययुगैरिव सुसूत्रीभूय देहलग्नैः, त्रिपुष्करस्नानावसरविलग्नसरसविसकाण्डंकुण्डलैख भ- क्त्याराधितत्रिपुरुषरचितरक्षासूक्ष्मरेखानुकारिभिः सितयज्ञोपवीतत- न्तुभिर्भूषितदेहः, शमी विद्रुमाभाधरश्च, प्रजापो विप्रजापश्च, सुतपाः तदेव तरूणां सहजं मुनीनां चोहार्यम् । मेखला मौञ्जी नगान्तदेशश्च । रुद्राक्षज- पमालान्वितैः । पक्षे रुद्राक्षा अक्षाश्च तरुविशेषाः । मृगकृत्तिकाया मृगत्वचः श्लेषैः सहितैः ज्येष्ठाषाढेन प्रशस्यव्रतदण्डेन सहितैः । पक्षे मृगो मृगशिरः कृत्तिका अश्लेषा ज्येष्ठा आषाढाश्च नक्षत्राणि । ससंमदैस्तृष्णाख्यातसानन्दैः । तथा मदस्य गर्वस्याकारं नाकालयद्भिः । अपिर्विरोधे । स तु तुल्यार्थव्याख्यया । क्रीडा विषयासक्तिः । तथा चक्रिणो विष्णोरीडा स्तुतिस्तत्परैः । विरोधे तु चः पृथक् । भूमरोमयुक्तैः । विप्राणां बालकैर्डिम्भैः । विरोधे विशेषेण प्रगतकेशैः । पुराणपुरुषा वृद्धाः । जनानामर्दनं पीडा । प्रपन्नानाश्रितानां शंकरः सुखंकरः । भवः संसारः । प्रबुद्धो विद्वान् । वन्दीकृतो हठेन गृहीतः । श्रमणस्तपस्वी । अजिनं मृगादित्वक् । विरोधे तु पुराणपुरुषो जनार्दनश्च विष्णुः । शंकरो भवश्च शिवः । प्रबुद्धः सुगतः । वन्दा वन्दका बौद्धव्रतस्थाः । श्रमणः क्षपणः । जि- नोऽर्हन् । परिग्रहः सर्वत्र नेति भिन्नम् । वधो हिंसा । अलीकसंधो मिथ्याप्र- तिज्ञः । दम्भवेदिनो दाम्भा मायिकाः । अकुलीनो नाभिजातः ग्रहगणस्तु नवसं- ख्यस्वरूपः । धन्वी च नालीके शरे संधानं यस्य । हंसस्तु नदस्याम्भ एव स्थानकं तत्प्रियः । नाकुर्वल्मीकस्तत्र लीनः । भक्त्याराधितत्रिपुरुषैरिति । त्रयः पुरुषा यत्रेति समुदायिन एव समुदाय इति दर्शने बहुवचनम् । व्यतिरिक्तसमु- दायपक्षस्तु नेहाश्रित इति सेवितहरिहरब्रह्मभी रक्षार्थं रचितरेखातुल्यैर्यज्ञोपवीतत- १ 'कौपीन'. २ 'सरुद्राक्षमालैश्च'. ३ 'सुश्रमगोऽपि'. ४ 'स्थानप्रियः'. ५ 'शङ्कया शरणा०'. ६ 'कुण्डलैख'.

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास) · पृष्ठ 89, कुल 258 में से · BharatKosha