भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 93, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 93

विवेकः सह संपत्त्या विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥ १६ ॥ तदेतत्समस्तमस्ति त्वयि दीर्घायुषि, श्रूयतामिदानीं प्रस्तुतम् । अनवरतसुरासुरचक्रचूडामणीकृतचरणरजसश्चन्द्रचूडामणेर्देवस्यादेशे- नागता वयम् । अवाप्स्यसि सकलजलधिजलकल्लोलमालालंकार- भाजो भुवो भर्तुरुचितमतिमान्यं धन्यमसामान्यं कन्यारत्नम्' इति ॥ क ॥ एवमुक्तवति तस्मिंस्तपस्विनि पुत्रार्थिनी कंन्यालाभं मन्यमाना विप्रियं प्रियंगुमञ्जरी जरन्मञ्जीररवजर्जरविलक्षाक्षरया गिरा कुर्वा- णैव क्रोधपरिस्पन्दं निन्दास्तुतिधर्मेण नर्मलीलाकलहमकरोत् ॥ ख ॥ 'नयशोभाजन, कृतकुटीककुशाग्रग्राहिन्नवेदनोद्गारं कृतवानसि क्वापि । सर्वदानादेयेषु प्रतिकूलवर्तिषु जलेषु रतिं कुर्वाणः पाठीनहिं- सको धीवर इवोपलक्ष्यसे । कुरङ्गेषु प्रीतिं बध्नासि । कदम्बैः कुरव- विवेक इति ॥ प्रश्रयः प्रणयः ॥ १६ ॥ एवमिति ॥ क्रोधस्य परिस्पन्दं चेष्टां कुर्वाणेव ॥ क ॥ नयेति ॥ यशोभाजनेत्यामन्त्र्यस्य नञ्योगः । तथा कृतानि कृत्रिमाणि, नतु वेदवदपौरुषेयाणि । कुत्सितटीकानि कुशाग्राणि गृह्णासीत्येवंशीीलः । यस्मादवेदो वेदपाठरहितः । इदमपि द्वयमामन्त्र्यम् । क्वापि न उद्गारमुच्चारणं कृतवानसि । वक्तुमपि न वेत्सीत्यर्थः । स्तुतिपक्षे नयश्च शोभा च ते जनयसि । यद्गृहमाग- तोऽसि तस्येति शेषः । तथा कृता कौ पृथिव्यां टीका गमनं येन । स्वर्गाणाप्य- स्मदनुजिघृक्षयेति शेषः । कुशो दर्भ एवाग्रं गृह्णास्यवश्यम् । एतेनादृश्यशत्रू- णामपि विघातोक्तिः । वेदना दुःखं तदर्थमुद्गारमुच्चारणं क्वापि नाकरोः । एतेन प्रियंवदलोक्तिः । निन्दायां अनादेयेष्वश्रद्धेयेषु जडेषु रतिं विदधद्धिंसको धीवर इवावबुध्यसे । धीरोऽपि किल नादेयपयःसु कूलं कच्छं प्रति वर्तमानेषु रतिं कुरुते । पाठीनाहारत्वात् । पक्षे सर्वकालमेव नदीभवेषु कूलं कूलं प्रति वर्तमानेषु वारिषु रागमासक्तिं कुर्वाणः पाठवान् 'न हिंसाशीलो' धिया बुद्ध्या वर एवाव- गम्यसे । एतेन तीर्थस्थास्त्वदयालुज्ञानी च । कुत्सितो रङ्गो वासना येषां तेषु विषयेषु प्रीतिमान् । पक्षे कुरङ्गा मृगास्तेषु प्रीतः । कदम्बैः कुमातृकैः । कुत्सिता अम्बाः कदम्बाः ताश्च दुश्चेष्टितैः कुर्वन्ति आचक्षते वा इति णिजन्तादचि सिद्धम् । बहु- व्रीहौ तु कोः कद् भवति । कुत्सितो रवो येषां तैः । कुत्सितमलीकं कदलीकम् । १ 'सतां मतम्'. २ 'तदिदं सर्वमस्ति दीर्घायुषि त्वयि'. ३ 'जलनिधि'. ४ 'कन्या- लाभमलाभं मन्यमाना'; 'कन्यालाभं विप्रियं मन्यमानाः'. ५ 'जर्जरिताक्षरविलक्षया'. ६ 'वाची'.