नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 92, कुल 258 में से
संदर्भ में पढ़ें७४ नलचम्पूः। 'अद्य मे सुबहोः कालाच्छ्लाघनीयमभूदिदम् । त्वत्पादपद्मसंस्पर्शसंपन्नानुग्रहं गृहम् ॥ १२ ॥ यतः संमस्तमुनिमनुजवृन्दारकवृन्दवन्दनीयपादारविन्दाः, परमा- नन्दपरिस्पन्दभाजः पांसूनिव पार्थिवान्, तृणमिव त्रैणम्, निधन- मिव धनम्, रोगानिव भोगान्, राजयक्ष्माणमिव लक्ष्मीम्, आक- लयन्तः सकलसंसारसुखविमुखाः कस्य भवादृशा भवनमवतरन्ति ॥ ॥ क ॥ तदहमद्यानवद्यस्य भगवन्नभूवं भूम्नो यशोराशेर्भाजनम्, आरूढः पदं श्लाघार्हम्, आगतो गुणिषु गौरवम्, उपलब्धवान्धन्यताम्, संपन्नः पुण्यवतामग्रणीः, जातो जनस्य वन्दनीयः ॥ ख ॥ तदित्थमनेकप्रकारोपकारिणां किं ब्रवीमि, किंकरोऽस्मीति पौन- रुक्त्यं सर्वस्वामिनाम् । केनार्थित्वमित्यनुचितादरो निःस्पृहाणाम् । इदं मे सर्वस्वमात्मीक्रियतामिति स्वल्पोपचारः स्वाधीनाष्टगुणैश्वर्या- णां भवताम् । तथापि प्रणयेन भक्त्या च मुखरितः किंचिद्विज्ञापया- मि ॥ ग ॥ 'इदं राज्यमियं लक्ष्मीरिमेदारा इमे गृहाः । एते वयं विधेया वः कथ्यतां यदिहेप्सितम्' ॥ १३ ॥ मुनिरप्यवनीशस्य विनयमनभिनन्द्य स्निग्धमुग्धस्मितसुधाधवलिता- धरपल्लवमब्रवीत्—'उचितमेतद्भवतादृशां वक्तुं कर्तुं वा ॥ घ ॥ उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ १४ ॥ अपिच । यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया । चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ १५ ॥ अपिच । उपेति ॥ इन्दुः केन शिशिरीकृतः । स्वभावादेव शिशिर इत्यर्थः ॥ १४ ॥ यथेति ॥ वाचीत्येकत्वेऽपि जात्या बहुलप्रतीतिः ॥ १५ ॥ १ 'प्रशस्त'. २ 'मनुजबृन्दवृन्दारक'. ३ 'स्निग्धस्मित'. ४ 'पल्लवस्तमब्रवीत्'. ५ 'उपकर्तुं च'. ६ 'क्रियाः'.