भारतकोश
प्रेम-दर्शन: नारद भक्ति-सूत्र (देवर्षि नारद - भाईजी हनुमानप्रसाद पोद्दार सविस्तार हिन्दी भाष्य)

प्रेम-दर्शन: नारद भक्ति-सूत्र (देवर्षि नारद - भाईजी हनुमानप्रसाद पोद्दार सविस्तार हिन्दी भाष्य)

Prem Darshan: Narada Bhakti Sutra with Commentary by Hanuman Prasad Poddar

देवर्षि नारद (भाष्यकार: हनुमानप्रसाद पोद्दार) द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 7, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 7

॥ श्रीहरिः ॥ प्रार्थना और निवेदन नवजलधरवर्णं चम्पकोद्भासिकर्णं विकसितनलिनास्यं विस्फुरन्मन्दहास्यम्। कनकरुचिदुकूलं चारुबर्हावचूलं कमपि निखिलसारं नौमि गोपीकुमारम्॥ मुखजितशरदिन्दुः केलिलावण्यसिन्धुः करविनिहतकन्दुः वल्लवीप्राणबन्धुः। वपुरुपसृतरेणुः कक्षनिक्षिप्तवेणु- र्वचनवशगधेनुः पातु मां नन्दसूनुः॥ त्वां च वृन्दावनाधीश त्वां च वृन्दावनेश्वरि। काकुभिर्वन्दमानोऽयं मन्दः प्रार्थयते जनः॥ योग्यता मे न काचिद्वां कृपालाभाय यद्यपि। महाकृपालुमौलित्वात्तथापि कुरुतं कृपाम्॥ अयोग्ये सापराधेऽपि दृश्यन्ते कृपयाकुलाः। महाकृपालवो हन्त लोके लोकेशवन्दितौ॥ भक्तेर्वा करुणाहेतोर्लेशाभासोऽपि नास्ति मे। महालीलेश्वरतया तथाप्यत्र प्रसीदतम्॥ यदक्षम्यं नु युवयोः सकृद्भक्तिलवादपि। तदागः क्वापि नास्त्येव कृत्वाशां प्रार्थये ततः॥ एष पापी रुदन्नुच्चैरादाय रदनैस्तृणम्। हा नाथौ नाथति प्राणी सीदत्यत्र प्रसीदतम्॥