निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
DevanagariHindipublished1,282 पृष्ठ
पृष्ठ 1229, कुल 1282 में से
संदर्भ में पढ़ेंपृष्ठ 1229
अथद्वादशोऽध्यायः ॥ प्रथमः पादः । [ खं० १ ] निघ०- अश्विनौ ॥१॥ उष्राः ॥ २ ॥ सूर्या ॥ ३ ॥ वृषाकपायी ॥ ४ ॥ संर- ण्यूः ॥५॥ निरु०- ॐ॥ अथातो द्युस्थाना देवताः । तासाम् अश्विनौ प्रथमागामिनौ भवतः 'अश्विनौ' यद् व्यश्नुवाते सर्वम्, रसेन अन्यः ज्योतिषा अन्यः । “अश्वैः अश्विनौ”- इति और्णवाभः । तत् कौ अश्विनौ ? “द्यावापृथिव्यौ”- इत्येके । “अहोरात्रौ”- इत्येके । “सूर्याचन्द्रमसौ”- इत्येके “राजानौ पुण्यकृतौ”- इति ऐतिहासिकाः । तयोःकालः ऊर्द्धवम् अर्द्धरात्रात् प्रकाशीभावस्य अनुविष्टम्भम् अनु तमोभागो हि मध्यमः,ज्योति- र्भागः आदित्यः । तयो एषा भवति ॥१॥