निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 207, कुल 1282 में से
संदर्भ में पढ़ें२ अ० २ पा० १ खं०। द्वितीय पादः । अथ निघण्टु प्रथमाध्यायः ॥ १ ॥ [निघ०-] गौः (१) । ग्मा (२) । ज्मा (३) । क्ष्मा (४) । क्षा (५) । क्षमा (६) । क्षोणिः (७) । क्षितिः (८) । अवनिः (६) । उर्वी (१०) । पृथ्वी (११) । मही (१२) । रिपः (१३) । अदितिः (१४) । इला (१५) । निर्ऋतिः (१६) । भूः (१७) । भूमिः (१८) । पूषा (१६) । गातुः (२०) । गोत्रा (२१) । इति- एकविंशतिः पृथिवीनामधेयानि ॥ १ ॥ ( खं० १ ) अथ-अतः-अनुक्रमिष्यामः । ‘गौः’-इति पृथिव्या नामधेयम् । यद् दूरं गता भवति । यत् च अस्यां भूतानि गच्छन्ति । गतेर्वा ‘औ’कारो नामकरणः । अथापि-पशुनाम इह भवति-एतस्मात्-एव । अथापि-अस्यां ताद्धितेन कृत्स्नवत्-निगमा भ- वन्ति । [ यथा-] “गोभिः श्रीणीत मत्सरम्” [ऋ० सं०; ७, १, ३, ४ ] इति पयसः । ‘मत्सरः’ सोमः, मन्दतेः-तृप्तिकर्म्मणः । ‘मत्सरः’-इति लोभनाम । अभिमत्तः एनेन धनं भवति । ‘पयः’ पिबतेर्वा;