निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 258, कुल 1282 में से
संदर्भ में पढ़ें६२ २ अ० ४ पा० २ ख०। आदित्यप्रवादाः। आदित्येन आदित्य-इति नाम्ना प्रवादः प्रकर्षेण वादः स्तवनं यासु, ताः आदित्यप्रवादाः। जिन स्तुतियोंमे आदित्य नामसे विशेष कर स्तुति या कथन हो वे स्तुतियें आदित्य- प्रवाद होती हैं ॥ १ ॥ (खण्ड २) (निरु०) 'स्वः'—आदित्यो भवति । सु-अरणः, सु-ईरणः। स्वृतो रसान् । स्वृतो भासं ज्योति- षाम्। स्वृतो भाषा-इति वा। एतेन द्यौ व्याख्याता । 'पृश्निः' आदित्यो भवति । प्राश्नुते- एनं वर्णः-इति नैरुक्ताः । संस्पृष्टा रसान् । संस्पृष्टा भासं ज्योतिषाम् । संस्पृष्टो भासा-इति वा । अथ द्यौः-संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिञ्च । 'नाकः' आदित्यो भवति । नेता भासाम् । ज्योतिषां प्रणयः। अथ द्यौः-'कम्'-इति सुखनाम, तत् प्रतिषिद्धं प्रतिषिध्येत । “न वा अमुं लोकं जग्मुषे किञ्च नाकम्” । न वा अमुं लोकं जग्मुषे किञ्चन-असुखम्, पुण्यकृतो हि-एव तत्र गच्छन्ति। 'गौः' आदित्यो भवति । गमयति रसान् । गच्छति-अन्तरिक्षे । अथ “द्यौ”-यत्-पृथिव्या अधि दूरं गता भवति । यच्च-अस्यां ज्योतींषि गच्छन्ति । 'विष्टप्' आदित्यो