भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 258, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 258

६२ २ अ० ४ पा० २ ख०। आदित्यप्रवादाः। आदित्येन आदित्य-इति नाम्ना प्रवादः प्रकर्षेण वादः स्तवनं यासु, ताः आदित्यप्रवादाः। जिन स्तुतियोंमे आदित्य नामसे विशेष कर स्तुति या कथन हो वे स्तुतियें आदित्य- प्रवाद होती हैं ॥ १ ॥ (खण्ड २) (निरु०) 'स्वः'—आदित्यो भवति । सु-अरणः, सु-ईरणः। स्वृतो रसान् । स्वृतो भासं ज्योति- षाम्। स्वृतो भाषा-इति वा। एतेन द्यौ व्याख्याता । 'पृश्निः' आदित्यो भवति । प्राश्नुते- एनं वर्णः-इति नैरुक्ताः । संस्पृष्टा रसान् । संस्पृष्टा भासं ज्योतिषाम् । संस्पृष्टो भासा-इति वा । अथ द्यौः-संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिञ्च । 'नाकः' आदित्यो भवति । नेता भासाम् । ज्योतिषां प्रणयः। अथ द्यौः-'कम्'-इति सुखनाम, तत् प्रतिषिद्धं प्रतिषिध्येत । “न वा अमुं लोकं जग्मुषे किञ्च नाकम्” । न वा अमुं लोकं जग्मुषे किञ्चन-असुखम्, पुण्यकृतो हि-एव तत्र गच्छन्ति। 'गौः' आदित्यो भवति । गमयति रसान् । गच्छति-अन्तरिक्षे । अथ “द्यौ”-यत्-पृथिव्या अधि दूरं गता भवति । यच्च-अस्यां ज्योतींषि गच्छन्ति । 'विष्टप्' आदित्यो