भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 289, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 289

नभन्यः (१५) । वध्वः (१६) । हिरण्यवर्णाः (१७) । रोहितः (१८) । सस्रुतः (१९) । अर्णाः (२०) । सिन्धवः (२१) । कुल्या (२२) । वर्य्यः (२३) । उर्व्यः (२४) । इरावत्यः (२५) । पार्वत्यः (२६) । स्रवन्त्यः (२७) । अर्जस्वत्यः (२८) । पयस्वत्यः (२९) । सरस्वत्यः (३०) । तरस्वत्यः (३१) । हरस्वत्यः (३२) । रोधस्वत्यः (३३) । भास्वत्यः (३४) । अजिराः (३५) । मातरः (३६) । नद्यः (३७) । इति सप्तत्रिंशत् नदीनामानि ॥ १३ ॥ (खण्ड २) [ निरु० ] “इ॒यं शुष्मे॑भि र्बिस॒खा इ॑वा रुज॒- त्सानु॑ गि॒रीणां त॑वि॒षेभि॑ रू॒र्मिभिः॑ । पा॒रा॒वत॒घ्नी मव॑से सु॒वृ॒क्तिभिः सर॑स्वती॒ मा वि॑वासेमधी॒तिभिः॑ ॥ “इयं” शुष्मैः शोषकैः । 'शुष्मम्'-[ऋ० स० ४, ८, ३०, २] इति बलनाम, शोषयति इति सतः । 'बिसम्' विस्यतेर्भेदनकर्मणः । वृद्धिकर्मणो वा । “सानु” समु- च्छ्रितं भवति । समुन्नद्धम्-इति वा । महद्भिः “ऊ- र्मिभिः” “पारावतघ्नीम्” पारावारघातिनीम् । 'पारं' परं भवति । 'अवारम्' अवरम् । अवनाय सुप्रवृ- त्ताभिः स्तुतिभिः “सरस्वतीम्” कर्मभिः परिचरेम ॥