निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 357, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ५३ [ नि० ] "अभिददेकमेको अस्मि निष्षाडभीद्वा किमु त्रयः किरन्ति । खले न पर्षान् प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥” [ ऋ० सं० ८, १, ६, २ ] अभिभवामि-इदमेकमेकोऽस्मि । निष्षड्मातः सपत्नान् अभिभवामि द्वौ । किं मा त्रयः कुर्वन्ति । 'एकः' इता संख्या । 'द्वौ' द्रुततरा संख्या । 'त्रयः' तीर्णतमा संख्या । 'चत्वारः' चलिततमा संख्या । 'अष्टौ' अश्नोतेः । 'नव' न वननीया । नावाप्ता वा । 'दश' दप्ता दृष्टार्था वा । 'विंशतिः' द्विदशतः । 'शतं' दश दशतः । 'सहस्रं' सहस्वत् 'अयुतं' 'नियुतं' 'प्रयुतं' तत्तदभ्यस्तम् । अर्बुदो मेघो भवति । उदकम्-‘अम्बु’ । ‘तद्दोऽम्बुदः’ । अम्बु मद् भाति इति वा । अम्बु मद् भवति इति वा । स यथा महान् बहुर्भवति वर्षं स्तदिबार्बुदम् "खले न पर्षान् प्रतिहन्मि भूरि ।" खल इव पर्षान् प्रतिहन्मि भूरि । 'खल' इति संग्राम नाम । खजतेर्वा । स्खलतेर्वा । अयमपि इतरः खल एतस्मादेव । समास्कन्नो भवति । “किं मा निन्दन्ति शत्रवोऽनिन्द्राः ।" ये कृन्द्रं ७