भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 399, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 399

४२ ३ अ० ४ पा० २ सं० । मेधाविनामानि उत्तराणि चतुर्विंशतिः । मेधा- वी कस्मात् ? मेधया तद्वान् भवति । 'मेधा' मतौ धीयते ॥ स्तोतृनामानि उत्तराणि त्रयोदश । यज्ञनामानि उत्तराणि पञ्चदश । 'यज्ञः' कस्मात् ? 'प्रख्यातं यजति कर्म'-इति नैरुक्ताः । याज्यो भवति-इति वा । यजुर्यत्नो भवति-इति वा। 'बहुकृष्णाजिनः'-इति औपमन्यवः । 'यजूंषि एनं नयन्ति'-इति वा । ऋत्विड् नामानि उत्तराणि अष्टौ । 'ऋत्विक्' कस्मात् ? ईरणः । 'ऋग्यष्टा भवति'-इति शाक- पूणिः । ऋतुयाजी भवति इति वा । याच्ञाकर्माणः उत्तरे धातवः सप्तदश । दानकर्माणः उत्तरे धातवो दश । अध्येषणाकर्माण उत्तरे धातवश्चत्वारः । स्वपिति, सस्ति-इति द्वौ स्वपितिकर्माणौ । कूपनामानि उत्तराणि चतुर्दश । 'कूपः' कस्मात् ? कुपानं भवति । कुप्यते वा । स्तेननामानि उत्तराणि चतुर्दशैव । 'स्तेनः' कस्मात् ? 'संस्त्यानमस्मिन् पापकम्'-इति नैरुक्ताः ।