निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
DevanagariHindipublished1,282 पृष्ठ
पृष्ठ 404, कुल 1282 में से
संदर्भ में पढ़ेंपृष्ठ 404
हिन्दी निरुक्त । ३७ [निरुक्तम्-] द्विश उत्तराणि नामानि । प्रपित्वे } इति आसन्नस्य [ नामनी ] [ पदार्थः ] अभीके } 'प्रपित्वे' प्राप्ते 'अभीके' अभ्यक्ते । “आपित्वे नः प्रपित्वे तूय मागहि” [ ऋ० सं० ५, ७, ३, ३ ] “अभीके चिदु लोककृत्” [ ऋ० सं० ८, ७, २१, १ ] इत्यपि निगमौ भवतः । दभ्रम् } इति अल्पस्य [नामनी] { 'दभ्रं' दभ्नोतेः । सुदम्भं भवति । अर्भकम् } { 'अर्भकम्'अवहतं भवति । “उपोप मे परामृश मा मे दभ्राणि मन्यथाः” [ ऋ० सं० २, १, ११, ७ ] “नमो महद्भ्यो नमो अर्भकेभ्यः” [ ऋ० सं० १, २, २४, ३ ] इत्यपि निगमौ भवतः । तिरः } -इति प्राप्तस्य { 'तिरः' तीर्णं भवति । सतः } { 'सतः' संसृतं भवति । “तिरश्चिदर्यया परिवर्त्ति याति सदान्वा” [ ऋ० सं० ४, ४, १६, २ ]