निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 405, कुल 1282 में से
संदर्भ में पढ़ें३८ ३ अ० ४ पा० ३ खं० । “पात्रेव भिन्दन् सत एति रक्षसः ।” [ ऋ० सं० ५, ७, ६, १ ] इत्यपि निगमौ भवतः । त्वः } इति अर्द्धस्य } ‘त्वः’ अपततः । नेमः } ‘नेमः’ अपनीतः । ‘अर्द्धं हरते वि॑िपरी॑तात् । हारयतेर्वा स्यात् । उद्धृतं भवति । ऋध्नोतेर्वा स्यात् । ऋद्धतमो विभागः । ”पीयातित्वो अनु त्वो गृणाति” [ ऋ० सं० २, २, १६, २ ] “नेमे देवा नेमेऽसुराः” [ ब्राह्मणम् ] वाजपेये मैत्रायणीयानाम् । इत्यपि निगमौ भवतः । ऋक्षाः } इति नक्षत्राणाम् । } ‘नक्षत्राणि’ नक्षतेर्गतिकर्मणः । स्तृभिः } “नेमानि नक्षत्राणि” इति च ब्राह्मणम् । ‘ऋक्षाः’ उदीर्णानीव ख्यायन्ते । ‘स्तृभिः स्तीर्णाऽीव ख्यायन्ते । “अमीय ऋक्षा निहिता स उच्चा ।” [ ऋ० स० १, २, १४, ५ ] “पश्यन्तो द्यामिव स्तृभिः । [ ऋ० सं० ३, ४, ६, ३ ]