निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 456, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३७ ) ४ अ० १ पा० ६ ख० व्यदन्ति । स्वाङ्गाभिधानं वा स्यात्,-‘शिशनानि व्यदन्ति,-इति । सन्तपन्ति मा आध्यः कँहमाः स्तोतारं ते शतक्रतो! (वित्तं मे अस्य रोदसी ।) जानीतं मे अस्य द्यावापृथिव्यौ-इति । त्रितं कूपे अवहितम् एतत् सूक्तं प्रतिबभौ । तत्र ब्रह्म इतिहासमिश्रम् ऋङ्मिश्रं गाथामिश्रं भवति । ‘त्रितः’ तीर्णतमो मेधया बभूव । अपिवा संख्यानामैव अभिप्रेतं स्यात्,-एकतो, द्वितः त्रितः इति त्रयो बभूवुः॥६॥ अनुवादः । मन्त्रार्थः व निरुक्तार्थः- ‘शतक्रतोः’ हे इन्द्र' ‘मा’ मुझे ‘सपत्नीः’-‘इव’ सौतियों (सौकों) के समान ‘पर्शवः’ कूप की १ अत्र शाट्यायनिन इतिहासमाचक्षते-एकतो द्वितस्त्रित इति पुरा त्रय ऋषयो बभूवुः, ते कदाचिन्मरुभूमावरण्ये वर्त्त- मानाः पिपासया सन्तप्तगात्राःसन्तः एकं कूपमविन्दन् तत्र त्रिताख्य एको जलपानाय कूपं प्राविशत् स्वयं पीत्वा इतरयोश्च कूपादुदकमुद्धृत्य मादात् तौ उदकं पीत्वा त्रितंकूपे पातयित्वा तदीयं धनं सर्वमपहृत्य कूपंच रथचक्रेण पिधाय प्रास्थिषाताम्। ततः कूपे पतितः स त्रितः कूपात् उत्तरीतुम् अशक्नुवन् सर्वे देवा मामुद्धरन्तु -इति मनसा सस्मार ततस्तेषां स्तावकमिदं सूक्तं ददर्श । ( साय० भा० )