भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 605, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 605

हिन्दी निरुक्त ( १८६ ) ५ अ० ४ पा० ४ खं० जोषवाकं वदतः पञ्चहोषिणा न देवा भसथश्चन ॥” [ऋ० सं० ४, ८, २५, ४ ] य इन्द्राग्नी सुतेषु वां सोमेषु स्तौति तस्य अश्नीथः । अथ यः अयं जोषवाकं वदति विजल्पः प्रार्जितहोषिणौ न देवौ तस्य अश्नीथः ॥ ‘कृत्तिः’ कृन्ततेः । यशोवा । अन्नंवा ॥ “महीव कृत्तिः शरणात इन्द्र” (ऋ० सं० ६,६, १३, ६ ) । सुमहत्त इन्द्र शरणम् अन्तरिक्षे कृत्तिरिव-इति ॥ इयमपि इतरा कृत्तिः, एतस्मादेव सूत्रमयी । उपमार्थे वा । ❊ “कृत्तिवासाः पिनाकहस्तोऽवततधन्वा” इत्यपि निगमो भवति ॥ ‘श्वघ्नी’ कितवोभवति । स्वं हन्ति, स्वं पुनः आश्रितं भवति ॥ “कृतं न श्वघ्नी विचिनोति देवने ॥” ( ऋ० सं० ७, ८, २४, ५ ) कृतमिव श्वघ्नी विचिनोति देवने ॥ ❊ “अवततधन्वा पिनाकहस्तः कृत्तिवासाः” इति पा- ठान्तरं तच्च संहितापाठसंमतम् ।

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य) · पृष्ठ 605, कुल 1282 में से · BharatKosha