निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 644, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २७६ ) ६ अध्याये शब्द अर्थ मन्म मनः । ( मननीयमर्थजातम् ) ( खं० ७ ) स्थूरः समाश्रितमात्रो महान्भवति । ( खं० ८ ) अणुः अनुस्थवीयांसम् । उपसर्गो लुप्तनामरूपो यथा सम्प्रति । कुरुङ्गः राजाबभूव । कुरुगमनाद्वाकुलगमनाद्वा । कुरुः कृन्ततेः । क्रूरम् कृत्त्यप्स्य भवति । कुलम् कुष्णातेः । विपुषितम्भवति । पञ्चमः पादः । स्तवे स्तूयते । ( खं० १ ) मन्द्रजिह्वम् मन्दनजिह्वम् । मोदनजिह्वमितिवा । अर्कैः अर्चनीयैः । ( स्तोमैः ) सामि स्यतेः । ( समाप्तम् ) सुदानवः कल्याणदानाः । ( खं० १ ) भूर्णिम् भ्रमणशीलम् । ( खं० २ ) याचिषत् याचिष्यते । ( खं० २ ) मनामहे मन्यामहे । ( खं० ३ ) अरायासः अधनाः । ( खं० ३ ) वृकः लाङ्गलं भवति । विकर्तनात् । ( खं० ४ ) लाङ्गलम् लङ्गतेः । लाङ्गूलवद्वा । लाङ्गूलम् लगतेर्लङ्गुतेर्लम्बतेर्वा । आर्य्यः ईश्वरपुत्रः । अहर्दृशः सूर्यदृशः । ये इमानि अहानि पश्यन्ति न पराणि (नास्तिका) ( खं० ४ )