निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 706, कुल 1282 में से
संदर्भ में पढ़ेंयह भी निगम है । यहां शब्द की समानता और अर्थ की उपपत्तिका कारण ‘उरायाः’ पद का ‘उरु-कुर्वाणः’ (बहुत करता हुआ) विपरिणाम होता है ॥ १ ॥ ( खं २ ) निघ०-स्तियानाम् ॥ ७७ ॥ स्तिपाः ॥ ७८ ॥ जबारु ॥७६॥ जरूथम् ॥८०॥ कुलिशः ॥ ८१ ॥ तुञ्जः ॥ ८२ ॥ निरु०-‘स्तियाः आपो भवन्ति । स्त्यायनात् । “वृषा सिन्धूनां वृषभःस्तियानाम् ।” (ऋ० सं० ४, ७, २०, १ ) इत्यपि निगमो भवति ॥ ‘स्तिपाः’ स्तियापालनः । उपस्थितान् पाल- यति इति वा । “स नःस्तिपा उत भवा तनूपाः” । (ऋ० सं० ८, २, १९, ४ ) । इत्यपि निगमो भवति ॥ ‘जबारु’ जवमानरोहि । जरमाणरोहि । गरमाणरोहि इति वा । “अग्ने रूप आरुपिंतं जबारु ” । ( ऋ० सं० ३, ५, २, २ ] । इत्यपि निगमो भवति ॥ ‘जरूथं’ गरूथम् । गृणातेः । ‘जरूथं’ हन्यक्षिराये पुरन्धिम् ” । ( ऋ० सं० ५, २, १२, ६ ) । इत्यपि निगमो भवति ॥