भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 73, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 73

भवति । जरिता गरिता । दक्षिणा मघोनो = मघवती । ‘मघम्’ इति धन नामधेयम् । मंहतेर्दानकर्मणः । ‘दक्षिणा’ दक्षतेः समर्द्धयति कर्मणः । व्यृद्धं समर्द्ध- यति,-इति । अपिवा प्रदक्षिणा गमनात् । दिशमभि प्रेत्य,-दिक् । हस्तप्रकृतिः । दक्षिणोहस्तो दक्षतेरुत्साह कर्मणः, दाशतेर्वा स्याद्दानकर्मणः । हस्तो हन्तेः । प्राशु ईं नने । देहि स्तोतृभ्यः कामान् माऽस्मानविदोंहो, माऽस्मानतिहायदाः । भगो नो अस्तु । बृहद् वदेम स्वे वेदने । भगो भजतेः । ‘बृहत्’ इति महतो नामधेयम् । परिवृढं भवति । वीरवन्तः, कल्याणवीरा वा । वीरः = वीरयति अमित्रान् । वेतेर्वा स्याद् गति-कर्मणः । वीरयते र्वा । ‘सीम्’ इति परिग्रहार्थीयो वा पदपूरणो वा । “प्रसीमादित्यो असृजत्” । प्रासृजत्-इतिवा । प्रासृजत् सर्वतः,-इति वा । “विसीमेतः सुरुचो वेन आवः इति च । व्यवृणोत् सर्वतः आदित्यः । सुरुचः आदित्यरश्मयः सुरोचनात् । अपि वा ‘सीम’ [ सीमा ] इत्ये- तदर्थकसमुपदस्माद्दृश्येत पञ्चमीकर्माणम् । सीम्नः, सीमतः, सीमातः मर्यादतः । सीमा मर्यादा । विसौ- व्यतिदेशौ-इति । ‘त्व’ इति विनिग्रहार्थीयं सर्वनाम, अनुदात्तम् । अर्द्धनाम-इत्येके ॥ २ ॥ १०