निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 814, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (४३) ७ अ० ३ पा० १ खं० तृतीयः पादः। (खं० १) (निरु०-) तिस्रएव देवता इत्युक्तं पुरस्तात् । तासां भक्तिसाहचर्यं व्याख्यास्यामः ॥ अथ एतानि अग्निभक्तीनि-अयं लोकः, प्रातः सवनं, वसन्तो, गायत्री, त्रिवृत्स्तोमो, रथन्तरं साम, ये च देवगणाः समाम्नाताः प्रथमे स्थाने, अग्नायी, पृथिवी, इला,-इति स्त्रियः । अथ अस्य कर्म-वहनं च हविषाम्, आवाहनं च देवतानां, यच्च किंचिद् दार्ष्टिविषयिकम् अग्नि कर्मैव तत्। अथ अस्य संस्ताविका देवाः-इन्द्रः, सोमो, वरुणः, पर्जन्यः, ऋतवः । आग्नावैष्णवं च हविः, नतु- ऋक् संस्ताविकी दशतयीषु विद्यते । अथापि आ- ग्नापौष्णं हविः, नतु संस्तवः, तत्र एतां विभक्ति- स्तुतिम् ऋचम् उदाहरन्ति- ॥ १ (८) ॥ अर्थ :-तीन ही देवता हैं, यह पहिले कहा गया है। उन देवताओं के भक्ति साहचर्य (जो २ उनका भाग है, और उनके साथ रहता है) को व्याख्यान करेंगे; “अथ०” यहां से ये अग्नि के भाग हैं,-अग्नि की निज की वस्तुएं हैं. इन से अग्नि का नित्य संबन्ध है- जहां ये