निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 816, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ४५ ) ७ अ० ३ पा० २ खं० ( खं० २ ) (निरु०-) “पूषा त्वेतश्च्यावयतु प्रविद्वाननष्ट पशु भुवनस्य गोपाः । सत्वैतेभ्यः परिददत् पितृभ्योऽ- ग्निद्देवेभ्यः सुविदत्रियेभ्यः ॥” [ऋ०सं०७,३,२३,३] पूषा त्वा इतः प्रच्यावयतु, विद्वान् अनष्टपशुः भुवनस्य गोपाः इति एष हि सर्वेषां भूतानाम् गोपायिता आदित्यः “सत्वैतेभ्यः परिददत् पि- तृभ्यः”-इति सांशयिकस्तृतीयः पादः । ‘पूषा’ पुरस्तात्, तस्य अन्वादेशः-इति एकम्। ‘अग्निः’ उपरिष्टात्, तस्य प्रकीर्त्तना-इति अपरम् “अग्निद्देवेभ्यः सुविदत्रियेभ्यः” । सुविदत्रं धनं भवति । विन्दतेर्वा एकोपसर्गात् । दयतेर्वास्याद् द्व्युपसर्गात् ॥ २ (९) ॥ अर्थः-“पूषात्वेतः” इस ऋचा का देवश्रवस् यामायन (यम का पुत्र) ऋषि, त्रिष्टुप् छन्दः, और शव (मुर्दे) के कान में प्रमीत (प्रेत) के अनुमन्त्रण में विनियोग है । उस प्रेत से कहा जाता है- ‘पूषा’ भगवान् आदित्य (मार्गों का अधिपति) ‘त्वा’ तुझे ‘इतः’ (मनुष्यलोकात्) इस मनुष्य लोक से (विशेष मार्ग के द्वारा) ‘प्रच्यावयतु’ हटावे या ले जावे, ‘विद्वान्’ जो आदित्य देव विद्वान् है-उसका ज्ञान किसी विषय में रुकता नहीं है-