भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 915, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 915

हिन्दी निरुक्त ( १४७ ) ८ अ० २ पा० २ खं० देवान्यजसि जातवेदः । आ च वह मित्र मह- श्चिकित्वान्त्वं दूतः कविरसि प्रचेताः॥” [ऋ०सं० ८,६८,१ ] ॥ “समिद्धो अद्य” मनुष्यस्य मनुष्यस्य गृहे “देवो देवान्-यजसि जातवेदः, आ च वह मित्र मह- श्चिकित्वान्”-चेतनावान् , “त्वं दूतः कविरसि प्रचेताः”-प्रवृद्धचेताः ॥ यज्ञेध्मः-इति कात्थक्यः । अग्निः-इति शाकपूणिः ॥ ‘तनूनपात्’ आज्यम्-इति कात्थक्यः । ‘नपात्’ इति अनन्तरायाः प्रजाया नामधेयम् । निर्णततमा भवति । गौः अत्र ‘तनूः’ उच्यते । तता अस्यां भोगाः । तस्याः पयो जायते । पयसः आज्यं जायते । अग्निः- इति शाकपूणिः । आपः अत्र ‘तन्वः’ उच्यन्ते । तता अन्तरिक्षे । ताभ्यः ओषधि-वनस्पतयो जायन्ते । ओषधि वनस्पतिभ्यः एष जायते ॥ तस्य-एषा भवति ॥ २ (५) ॥ अर्थः-“समिद्धो अद्य” इस ऋचा का भार्गव जम-