भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 101, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 101

प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ६७ वितव्यमित्यस्य स्वभाव इति चेन्न । तस्याप्यह्नः पूर्वन्यायेन पूर्वमपि सत्त्वप्रस- ङ्गात् । तस्मात् तस्यापि तत्पूर्वकत्वमेवं तत्पूर्वस्यापीत्यनादित्वमेव ज्यायो, न त्वपूर्वानुत्पादे कस्यचिदपूर्वस्य सम्भव इति । तथापि व्यक्त्यपेक्षया नियमोऽ- स्तु, न जात्यपेक्षयेति चेन्न । नियतजातीयस्वभावतान्याघातात् । यदि हि यतः- बोधनी । निराकरोति-न-इति । अहर्नामावच्छेदकोपाधिभिन्नः कालः, तस्याप्युपाधेर्यदि पूर्वन्यायेना- नुपलभ्यमानप्राक्कोटिकारणत्वसम्भवेन पूर्वमपि सत्त्वादहोऽपि सत्त्वमेव स्यात्, ततश्च तदहर्भावस्वभावत्वेऽपि सदातनत्वप्रसङ्गो दुस्तर इति भावः । उपसंहरति-तस्मात्-इति । यस्मात् कार्यस्य परिदृश्यमानकादाचित्कत्वव्याघातप्रसङ्गः, तस्मात् । तस्यानुपलभ्यमानप्राक्को- टेरपि कारणरूपस्य पूर्वावध्यपेक्षितवम् । एवं तस्य तस्यापीत्यनादित्वं कारणप्रवाहस्य युक्तम् । न त्वपूर्वस्य पूर्वमविद्यमानस्य कारणस्योत्पत्त्यनभ्युपगमे कादाचित्कस्य कार्यस्य सम्भव इति । पश्चिमे व्याख्याने तु-न तावन्मात्र-इति । उत्तरैकावधिस्वभावत्वे कार्यस्य तदहर्वत् पूर्वे- द्युरपि तदेकावधिस्वभावत्वाविशेषादुत्तरेद्युर्जायमानस्य कार्यस्य सत्त्वं स्यात् । तच्च नोपलभ्यत इति । तस्मात् तस्यापि-इति । अनुपलभ्यमानपूर्वावधेरपि कार्यस्येति । सुगममन्यत् । न वि- जात्येकशक्तिमानित्येतदवधारयितुं शङ्कते-व्यक्त्यपेक्षया-इति । जात्यपेक्षया कार- णनियमस्य भङ्गे व्यक्त्यपेक्षया नियमभङ्गः सुकर इति गूढोऽभिसन्धिः । न-इति । कारणस्य जातिनियमाभावे कार्यजातिनियमो हेत्वभावेन व्याहन्येतेति । विजातीयेभ्योऽपि भवतः कार्यस्य जातिनियमः स्वभावादेव भविष्यतीत्याशङ्का तत्र कार्यस्यैष स्वभावो यद् भिन्नजातीयेभ्योऽपि भवतः प्रतिनियतजातीयत्वमिति, उत कारणस्य यदसत्यप्येकजातीयत्वे नियतजातीयकार्यजन- कत्वमिति विकल्पं मनसि कृत्वा प्रथमे दूषणमाह-यदि यतः कुतश्चित्-इति । घटजातीय- प्रकाशः । स्वभावत्वे तदुत्तरस्यापि दिनस्यानादित्वप्रसङ्गो घटस्यैवेति परिहरति । तस्यापीति । वस्तुतस्तु, उत्पत्तिगर्भकादाचित्कत्वानुरोधादवधिस्वीकारः । न चोत्तरेण उत्पत्तिर्नियम्यत इत्यवधेः प्राच्यत्व- नियतत्वसिद्धौ कारणत्वं सिद्धम् । तथाचोत्पत्तिर्यदि किञ्चिदुत्तरत्वनियता न स्यादनादिः स्यादिति निगर्वः । न त्वपूर्वेति । आगन्तुककारणघटितसामग्र्यजन्यं कार्यं नियतकालोत्पत्तिकं न स्या- दित्यर्थः । तथापीति । जात्यपेक्षया कारणत्वे निरस्ते व्यक्त्यपेक्षया व्यभिचारेण तत्सुनिरस- मिति पूर्वोक्त एवाभिसन्धिः । नियतेति । कार्यनियतजातीयत्वे कारणजातिनियमस्य हेतुत्वादित्यर्थः । प्रकाशिका । इति भावः । सामानाधिकरण्यमुपपादयन्नाह । आगन्तुकेति । पूर्वोक्त एवेति । कार्य- टिप्पणी ङ्गाह । आगन्तुकेति । नियतकालोत्पत्तिकं न स्यादित्यर्थ इति । अथैतावता प्रयासेनापि यत्रैव प्राक्कोटिकत्वेनोपलब्धा सामग्री तत्रैव कार्यकारणधारा सिद्धा यत्र तु तन्न तत्रानादित्वस्य तेषामिष्ट तया न क्षित्यादिकर्त्ता कश्चिदीश्वरः सिद्ध्यतीति चेन्न । एकत्राय्यप्रत्यक्षसार्थवस्तु कल्पनेऽदृष्टवादस्य- तव निरस्ततया यत्र घटादौ प्राक्कोटिरनुपलब्धैव तत्रापि सावयवत्वमध्यमपरिमाणवत्त्वादिनानुमानेऽदृष्ट- स्यापि प्राक्कोटेः कल्पनं सम्भवतीति क्षित्यादावपि कर्तृजन्यत्वसिद्धिरतद्दृष्टान्तेन स्यादित्यस्य ग्रन्थस्य निगर्वः ॥०॥ व्यभिचारेण तत्सुनिरसमिति । सिद्ध्यतु तावत् कारणत्वमुभयवादिसिद्धं व्यक्तैरेव जात्यपेक्षयालमित्यास्तिकविरुद्धवादितया खण्डनमेव विकल्पस्यैककोटिः। व्यभिचारोऽत्र रासभादिसाधारण्यम् ॥०॥ पूर्वोक्त एवाभिसन्धिरिति । अकस्माद् भवतीत्यादिकारणत्वासि- द्धिरेव पर्यवसितेति भावः ।