भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 100, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 100

६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकान्याख्यायां वत्वे तदहर्वत् पूर्वैरद्युरपि तमवधीकृत्य तदुत्तरस्य सत्त्वप्रसङ्गात्, अपेक्षणी- यान्तराभावात् । एवं पूर्वपूर्वमपि । भावे, तदेव सदातनत्वम् । तदहरेवानेन भ- बोधनी । तदहरेव-इति । प्रकाशः । क्तत्वं निर्वहतीति भावः । तदहर्वदिति, समासान्तविधेरनित्यत्वात् समाधेयम् । तदवधिस्व- भावत्वे यत्र दिनेऽयमध्यक्षस्तत्रैवानेनोत्पत्तव्यमित्येषोऽपि तस्य स्वभाव इति शङ्कते । तदहरे- वेति । अत्राहःपदेन कालमात्रमभिप्रेतम् । तदनादित्वे तावन्मात्रावधेर्घटादेरप्यनादित्वप्रसङ्गादि- त्यनाद्यनित्यप्रवाहसिद्धये तथाविध एव कालोपाधिर्वाच्यः, तथाच तस्याप्यनादिरूपादृष्टावधि- प्रकाशिका । श्नीपरमेव । एवमग्रिममूलेऽपि । तावन्मात्रावधेर्घटादेरिति । यद्यप्यहोऽवधित्वं पूर्वपक्षिणा नोक्तं किन्तु कार्यस्य तन्नियतोत्पत्तिस्वभावकत्वम् । तथापि निरवधित्वे तदेवानुपपन्नमिति तस्यैवाव- धित्वं वाच्यं तथासति दूषणमिदमिति भावः । अदृष्टावधीति । अदृष्टप्राक्कोटिकावधीत्यर्थः । घटसामग्रीवद्दिनसामग्र्या अप्यदृष्टप्राक्कोटिकत्वेनानादित्वेन तदुत्तरस्य दिनस्यानादित्वप्रसङ्ग मकरन्दः । मभिमतमिति वाच्यम् । तथापि तस्योत्तैरेकाऽवधित्वाभ्युपगमेन पूर्वावधिशून्यतयानादिभावमा- त्रावधिस्वभावत्वं इत्यसङ्गतापातादिति चेन्मैवम् । दृष्टप्राकोटिकघटाभिप्रायेणैव प्रकृतापादनात् । नचादृष्टपूर्वकोटित्वेनेत्यसिद्धम् । अदृष्टपूर्वकोटित्वेनानादिर्यो भावः सामग्रीरूपस्तावन्मात्रावधिस्वभा- वत्व इत्यर्थात् । तथाच नादृष्टप्राक्कोटितयैवानादित्वम् । अन्यथा कस्याश्चिद् घटसामग्र्या अपि तथात्वेनानादितया तदुत्तरस्य घटस्यानादित्वं स्यादिति भावः । अदृष्टावधीति । अदृष्ट- टिप्पणी । समाधेयमिति । अस्तु घटादिप्राकोटिकत्वेनोपलब्धा सामग्री सापेक्षाऽपेक्षणीयस्य नापेक्षान्तर- मित्याकाङ्क्षायां मूले । एवमिति । तदेव पूर्वैरित्यादि प्रतिपाद्यसत्त्वमेवेत्यर्थः । तथाच तन्नि- बन्धनं प्रागभावाप्रतियोगित्वरूपमनादित्वमेव तत्र सदातनत्वमिति भावः । तदवधिस्वभाव- त्व इति । अदृष्टप्राक्कोटिकत्वेनानादिभावमात्रावधिस्वभावत्व इत्यर्थः । तस्य स्वभाव इती- ति । तथा च दर्शनं विनाऽवधेरस्वीकारेऽपि प्रागसत्त्वघटितकादाचित्कत्वस्य निर्वाहादेवेति भा- वः । कालमात्रमभिप्रेतं तदनादित्व इति । कालत्वरूपसामान्यधर्मेण प्रागुक्तस्वभाव- घटककालस्यानादिकालसाधारणतया तस्य स्वभावघटककालस्यानादित्व इति भावार्थः । ताव- न्मात्रावधेरिति । यद्यप्यहोरवधित्वं पूर्वपक्षिणा नोक्तं किन्तु तन्नियतकालोत्पत्तिकत्वमिति तावन्मात्रावधेरित्यसङ्गतम्, तत्पदस्यानुपदोक्तपरामर्शत्वस्यैव व्युत्पन्नतया तत्पदेन कालस्यैव बोधनात् । तथापि निरवधित्वे तदेवानुपपन्नमिति तस्यैवावधित्वं वाच्यमित्यभिप्रेतम् । अत्रादृष्टावधि स्वभावत्व इत्यस्यावधित्वप्राक्कोटिकावधित्व इत्यर्थः । तदुत्तरमित्यत्र तत्पदञ्चालोपाधिपर- मिति कश्चित् । वस्तुतः, तावन्मात्रस्वभावत्व इत्यस्यैकदेशस्य विभक्तिसहकारेण तदर्थस्यानुवा- दोऽयम् । अत एव तदवधिस्वभावत्व इत्यनुपदमेवोक्तम् । अत्रादृष्टप्राक्कोटिकावधिमत्त्व इत्यर्थः । तत्पदंतथाविधावधिपरम् । तथा च द्वितीयस्वभावघटककालस्यानादित्वेऽदृष्टप्राक्कोटिकत्वेनानादि भावेतराविधिशून्यस्यानादित्वं दुष्परिहरणीयमेव स्यादिति भावः ॥०॥ अनाद्यनित्यप्रवाहेति । नचानादित्वस्य ध्वंसव्याप्यप्रागभावप्रतियोगित्वरूपस्यैव वाच्यतया अनित्यपदं व्यर्थमिति वाच्यम् । तादृशानादित्वतात्पर्यग्राहकमेव तदिति न वैय्यर्थ्यम् ॥०॥ सामानाधिकरण्यमुपपादय-