भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 99, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 99

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ६५ प्रागभावो ह्युत्तरकालावधिरनादिः, एवं भावोऽपि घटादिः स्यात् । अनुप- लभ्यमानप्राक्कोटिकघटादिविषयं नेदमनिष्टमिति चेन्न । तावन्मात्रावधिस्वभा- बोधनी । तत्र प्रवाहो नादिमानित्येतद् विवृण्वन्नस्योत्तरैकावधित्वेऽभिसंहितं प्रसङ्गमाह-प्रागभाव- इति । एवमुत्तरैकावधिर्भावोऽनादिः स्यादिति । चार्वाकस्तु नेदमनिष्टप्रसञ्जनमित्याह-अनु- पलभ्यमान-इति । सिद्धान्ती त्वनिष्टतामापादयति-न-तावन्मात्र इति । उत्तरैकावधिस्व- भावत्वे कारणस्यानादित्वेन तस्मिन्नहनि कार्योत्पत्तिवत् पूर्वेद्युरपि तमेव भावमवधिं कृत्वा तदु- त्तरस्य कार्यस्य सत्त्वप्रसङ्गः, तमन्तरेणापेक्षणीयाभावात्तस्य च तदानीमपि सत्त्वात् । एवं पूर्वेद्यु- रपि सत्त्वप्रसङ्गात् कार्यस्य तदेव सदातनत्वमायातं यन्निरवधिपक्ष आपादितम् । प्रागभावे तु प्राक्कोटिकल्पनायां भावोन्मज्जनप्रसक्तिर्बाधिका, साधिका च न काचिद्युक्तिरिति भावः । नन्व- ‘नादित्वेऽपि कारणस्य यस्मिन्नहनि कार्यं दृश्यते तस्मिन्नेवाह्नि भवनं कार्यस्य स्वभाव इत्याह- प्रकाशः । प्रागभावो हीति । यद्यद्दृष्टप्राक्कोटितयैव भावरूपमपि कार्यं पूर्वावधिशून्यं स्यादिति शेषः । अत्रेष्टापत्तिमाह । अनुपलभ्यमानेति । यत्र प्राक्कोटिः सामग्री नोपलभ्यते, तत्रा- नादित्वमिष्टमेवेत्यर्थः । तावन्मात्रेति । अदृष्टपूर्वकोटित्वेनानादिभावमात्रावधिस्वभावत्वे यथा तत्र दिवसे तस्य सत्त्वं तथा गतदिवसेऽपि तदित्यनादिभावोत्तरस्य तत्कार्यस्य सत्त्वप्रसङ्गः । एवं तत्पूर्वपूर्वदिनवृत्त्यपि तत्कार्यं स्यादित्यर्थः । तथाचाऽऽगन्तुकादेव तस्मात् कार्यस्य कादाचि- प्रकाशिका । ननूत्तरैकावधित्वमापादकं परानभ्युपगतमत आपादकं पूरयति । यद्यदृष्टेति । भाव- रूपमपीति । सामग्रीरूपमित्यर्थः । तेन तावन्मात्रावधीत्यादिमूलसङ्गतिः । अनादिभा- वान्तरस्येत्यत्रापि भावपदं सामग्रीपरम् । एवं भावोऽपि घटादिरित्यत्र मूले भावपदं साम- मकरन्दः । वत् तदुत्तरैकाऽवधित्वं परानभ्युपगतमेवेति कथमापादनमित्यत आह । यद्यदृष्टेति । तथाच तद्भावेवेत्यादिना तदभ्युपगतमिति भावः । अदृष्टपूर्वकोटित्वेनेति । नन्वेष्टापत्तिः । अदृ- ष्टपूर्वको टिकेऽनादित्वाम्युपगन्तारं प्रत्येवापादनात् । न च पूर्वदिने सत्त्वापादनेन प्रत्यक्षत्वापादन- टिप्पणी । क्षीरादुक्तदोषतादवस्थ्यात्, विजातीत्यादि ग्रन्थस्तु प्रत्येकस्यैव निषेधप्रदर्शको नवाऽपि प्रत्येकेनैव सम्बन्धात् , तत्र तस्य विजातिश्च एकशक्तिश्च विजात्येकशक्ती ते विद्येते अस्य इति विजात्येक- शक्तिमानिति द्वन्द्वान्ते मतुपा सम्बन्धादिति । तर्हि तृणादावित्या दाविति । जात्यपेक्षया नियम इत्यर्थः । तत्त्वे नियतत्वे इति । अवधेर्नियतत्वत इत्यत्र नियतशब्दोपस्थानात्तच्छब्देनात्र तत्प्रतिपादने नासङ्गतिः । प्रागभावो हीतीति । प्रागभावेत्यादिदृष्टान्तविधयोक्तम् । तथा च यद्यद्दृष्टेत्यादिशून्यं स्यात्तदा यथा प्रागभावो ह्युत्तरैकावधिरनादिस्तथा तत् स्यादनादिः स्यादित्यर्थः । आपा- दकस्यासत्त्वात् सामान्यत उत्तरैकावधित्वस्य परेणानभ्युपगतत्वादापादकं पूरयति यदीत्या- दि । भावरूपमपीति । सामग्रीरूपमित्यर्थः, तेन तावन्मात्रावधीत्यादि मूलसङ्गतिः । सर्वत्र भावपदं सामग्रीपरम्, मूले घटादिपदमपि सामग्रीपरमेवेति । अथवा अस्तु तत्र तथा उपलभ्यमानप्राक्कोटिकघटादेरिति तावन्मात्रेत्यतः पूर्वं पूरणीयम् । घटादिपदं यथाश्रुत- तात्पर्यकमेवेति । तथाच तत्रानादित्वस्येष्टत्वसम्भवेऽपि अत्रोभयोरनिष्टत्वान्नासङ्गतिः । ९ न्या० कु०