न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 107, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ७३ नियमे समवायिकारणमात्रं निबन्धनमपि तु सामग्री । अन्यथा द्रव्यगुणकर्म- णामेकोपादानकत्वे विजातीयत्वं न स्यात् । न च कार्यद्रव्यस्यैषा रीतिरिति युक्तम् । आरब्धदुग्धैरेवावयवैर्दध्यारम्भदर्शनात् । बोधनी । दिभिर्व्यभिचार इत्यत्राह—न च कार्यद्रव्यस्य-इति । न च दुग्धमेव दध्यारभते न तदवयवा इति वाच्यम् । कार्यद्रव्यस्यानेकद्रव्यारभ्यत्वनियमाद् दधिकाले दुग्धानुवृत्त्यभावाच्च । न च दुग्धा- म्लद्रव्याभ्यामेवारम्भः, विजातीयानां सहारम्भानुपपत्तेः । तेन दुग्धावयवा अम्लसंयोगाद् विनष्ट- दुग्धकार्या दध्यारभन्त इति न समवायिभेदनिबन्धनः कार्यद्रव्यभेदोऽपीति । प्रकाशः । अपि त्विति । सामग्री वः तृणादिघटिता भिन्नेवेति भावः । अन्यथेति । न च समवायिनो द्रव्यस्याभेदेऽपि कारणतावच्छेदकधर्मभेदाद् द्रव्यादीनां जातिभेदः स्यात् । तथाहि द्रव्यजनने स्पर्शवत्त्वमवच्छेदकं, गुणकर्मजनने तु द्रव्यत्वमूर्तत्वे तथेति वाच्यम् । द्रव्यत्वेनैकेनैव रूपेण संयो- गविभागौ प्रति कारणत्वेऽपि तयोर्जातिभेदात् , कारणतावच्छेदकस्याकारणत्वाच्चेति भावः । न च कार्यमात्ररीतिरेषा, अपि तु द्रव्यस्य सतः, अतो न द्रव्यादिभिः समानोपादानैर्व्यभिचार इत्याह । न चेति । एवं सति समवाय्यभेदे कार्यद्रव्यं दधिदुग्धरूपं न भिद्येत क्षीरपरमाणव एवाम्लसंयो- गान्नष्टकार्यद्रव्या दध्यारभन्ते । अत एव, क्षीरं नष्टं दधि जातमिति लौकिकोऽयमनुभव इत्याह । आरब्धेति । नन्वतीन्द्रियेषु परमाणुषु दर्शनाभावाद् दध्यारम्भको योग्योऽवयवो वाच्यः । तत्र च क्षीरत्वं योग्यानुपलब्धिबाधितम् । प्रत्युतावयवावयविवृत्तिजातित्वेन पृथिवीत्ववद् दधित्त्वस्य परमाणुवृत्ति- त्वमनुमेयम् । न च तन्तुत्वेन व्यभिचारः, तस्य पटावयवे अंशववयविनि वृत्तेरिति वाच्यम् । प्रकाशिका । मिति स्वमतावष्टम्भेनेदमुक्तं कारणतावच्छेदकधर्मेति । अवच्छेदकभेदादेव च कार्यभेद इत्यर्थः । कारणतावच्छेदकस्येति लाघवात्, कारणभेदस्यैव कार्यभेदप्रयोजकत्वादिति भावः । क्षीरपरमा- णव एवेति । तादृशदुग्धध्वंसविशिष्टाः पाकजाम्लरससहकृताश्चेति शेषः । अत एवेति । क्षीरनाशदध्युत्पत्त्योः सामानाधिकरण्यानुभवान्नाशस्य च प्रतियोगिसमवायिवृत्तित्वादेकमधिकरणं क्षीरदध्नोरित्यर्थः । प्रत्युतेति । तथा च दधित्वाश्रयपरमाणोरेव दुग्धनाशे सति दध्यारम्भ इति नैकोपादानकत्वं तयो- रिति भावः । अवयवावयवीति । कार्यकारणवृत्तित्वमात्रोक्तौ रूपत्वादौ व्यभिचार इत्यवयवाव- यवीति । अत्रापि समवायिसमवेतवृत्तित्वादित्येवार्थो न तु कारणत्वघटितो व्यर्थविशेषणत्वादित्यव- धेयम् । जातिपदं च द्वित्वादौ व्यभिचारवारणाय । कार्यत्वे सतीति । द्वितीयस्य घटादौ व्यभिचार- वारकतया प्रथमस्यानवस्थावारकतया व्याप्तिग्राहकत्वमित्यवधेयम्। अनवस्थाभिया कस्यचन दध्नो मकरन्दः । कारणताऽवच्छेदकस्येति । कारणभेदस्यैव तद्भेदप्रयोजकत्वादिति भावः । प्रत्युतेति । तथाच तत्तत्परमाणुभिरेव तत्तदारम्भ इति नैकोपादानकत्वं तयोरिति भावः । अत्र च जातिपदं द्वित्वादौ व्यभिचारवारणाय । न च कार्यकारणोभयवृत्तित्वादित्येवास्तु कृतमवयवादिपर्यन्तेनेति वाच्यम् । रूपत्वादौ व्यभिचारात् । न चैवमपि समवायिकार्यवृत्तित्वादित्येवास्तु, तत्रैव तात्पर्यादित्याहुः । दधि ससमवायिकारणकं भावकार्यत्वादित्यनुमानं लाघवाख्यतर्कसहकृतं दुग्धारम्भकपरमाणु- मेव विषयीकरोति, अन्यथा गौरवात् । दुग्धं विनाऽपि कदाचिद् दध्यापत्तेश्चेत्याशयवानाह । १० न्या० कु०