न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 106, कुल 608 में से
संदर्भ में पढ़ें७२ - व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्याया ष्यतीति चेन्न । निमित्तस्यादर्शनाद् दृष्टस्य चानिमित्तत्वात् । एतेन सूक्ष्मजातीया- दिति निरस्तम् । अवह्नेरपि तत्सौक्ष्म्याद् धूमोत्पत्त्यापत्तेः । कार्य्यजातिभेदाभे- दयोः समवायिभेदाभेदावेव तन्त्रं, न निमित्तासमवायिनी इति चेन्न । तयोरका- रणत्वप्रसङ्गात् । न हि सति भावमात्रं तत्, किन्तु सत्येव भावः । न च जाति- बोधनी । वेति विकल्पं हृदि निधायाह — निमित्तस्य-इति । यस्मिन् सत्येव यद् भवति तत् तस्य निमित्तं, इह तु न तथाविधनिमित्तं दृश्यते, ये तु दृश्यन्ते तृणादयो, न ते निमित्तं, तद्व्यतिरे- केऽपि कार्य्यव्यतिरेकाभावात् ; अन्वयमात्रेण शक्तिकल्पनायां रासभादिष्वपि प्रसङ्गः । तेन च ये निमित्ततया दृष्टास्तेषु शक्तिकल्पनमिति नायं समाधिरिति । नन्वस्ति तृणादिष्वपि दृश्यमानस्थूल जातिभेदेषु सूक्ष्मा काचिदेका जातिः, ततः कार्य्यजातिनियम इत्याशङ्कयाह-एतेन इति-कार्य्यका- रणनिवृत्तिभ्यां कारणकार्य्यनिवृत्त्यनुमानभङ्गप्रसङ्गेनेति । यद्यस्ति जातिः किमिति नोपलभ्यते इत्य- त्रोक्तं—सूक्ष्मजातीयात्-इति । अतिदिष्टमेव हेतुं स्पष्टयति-अवह्नेः इति । धूमप्रयोजक- सूक्ष्मजातिमतोऽप्यवह्नेरिति शङ्कते—कार्य्य-इति । निमित्तासमवायिनीभिन्नाभिन्नेइति शेषः । तृणा- दीनां तु निमित्तकारणत्वात् तद्वैजात्येऽपि न कश्चिद् दोष इति भावः । न-इति । यदि निमित्तासमवा- यिभेदेऽपि तज्जातीयमेव कार्य्यमनुवर्त्तते ततस्तयोरकारणत्वमेव स्यादिति । नन्वस्तु कार्यान्वयादेव तयोः कारणत्वमिति तत्राह—न हि-इति । तत्कारणत्वं नान्वयमात्रं किन्तु सत्येव कारणे कार्य्य- भावः, व्यतिरेकोऽप्यङ्गमित्यर्थः । किञ्च, समवायिभेदेऽपि अतज्जातीयकार्य्यदर्शनान्न तद्भेदाभेदौ कार्य्यभेदाभेदयोर्निदानमित्याह—न च-इति । ननु मा भूत् कार्य्यमात्रभेदस्य समवायिभेदो निव- न्धनं, किन्तु द्रव्यस्य सतः कार्य्यस्य प्रकारोऽयं यत् समवायिमात्रभेदेन भेद इति । अतो न गुण प्रकाशः । दोष इत्यर्थः । निमित्तस्येति । तृणादिषु कारणतावच्छेदकरूपस्यादर्शनात् । न च शक्तिरेव तथा । अन्योन्याश्रयात् । कारणत्वग्रहे तत्कल्पनम् , अन्यथा रासभेऽपि तदापत्तेः, तत्कल्पनेन च कारणत्वग्रहः । तस्यान्वयव्यतिरेकावच्छेद्यत्वात् , दृष्टस्य च तृणत्वादेः, अनिमित्तत्वात् कार- णतानवच्छेदकत्वादित्यर्थः । तृणादिषु व्यभिचारमग्निकुर्वन्द्द्रूपत्वादीन्द्रियजातिविशेषाद् ये परि- हरन्ति, तेऽप्यत एव निरस्ता इत्याह । एतेनेति । ननु तृणादयोऽग्नौ निमित्तकारणानि । न च तत्साजात्यवैजात्याभ्यां कार्यसाजात्यवैजात्ये, किन्तु समवायिनस्तथात्वात् । तच्चात्रास्त्येवेति शङ्कते । कार्येति । तथापि तृणादेर्व्यभिचारेण कारणत्वं न स्यादिति परिहरति । तयोरिति । न हीति । व्यभिचारिणोऽपि कारणत्वापातादिति भावः । किन्त्विति । तृणादौ चैकैकाभावेऽप्यग्ने- र्भावात् कारणत्वं न स्यादित्यर्थः । न च समवायिकारणसाजात्यादिकमपि कार्यस्य तथात्वे तन्त्रम् । तदभावेऽपि कार्यवैजात्यदर्शनादित्याह । न चेति । प्रकाशिका रत्न । अत एव मूले कारणव्यावृत्त्या चेति । तथापि तृणादेरिति । यद्यपि व्यक्त्यपेक्षयैव नियमोऽस्त्विति पूर्वपक्षोपक्रमात् , व्यभिचारेऽपि व्यक्त्योः कार्यकारणभावोऽविरुद्ध एव । तथापि रासभादेरपि व्यक्त्यपेक्षया नियमसत्त्वात् कारणत्वं स्यादिति भयेन जात्यपेक्षयैव कारणत्वं वाच्य- टिप्पणी । तु कार्य्यानुपलब्धेरेकस्या। लिङ्गत्वं विवक्षितम् ग्रन्थविरोधात् । अनुपलब्धिः कारणाभावोपलब्धिः, न तु कारणोपलब्ध्यभावः । ग्रन्थे तल्लिङ्गकानुमानभङ्गस्याप्रदर्शनात् । अत एव कारणव्यावृत्त्येति मूले व्यावृत्तिरभावः । अवसीयेतानुमीयेतेत्यर्थः । तथा च कारणाभावस्य लिङ्गत्वं मूलप्राप्तमिति भावः