न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 105, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ७१ सर्वस्मात् सर्वजातीयमेकजातीयं वा स्यात् । कथं तर्हि तृणारणिमणिभ्यो भव- न्नाशुशुक्षणिरेकजातीयः ? । एकशक्तिमत्त्वादिति चेन्न । यदि हि विजातीयेष्वप्ये- कजातीयकार्यकारणशक्तिः समवेयाद्, न कार्यात् कारणविशेषः क्वाप्यनुमीयेत । कारणव्यावृत्त्या च न तज्जातीयस्यैव कार्य्यस्य व्यावृत्तिरवसीयेत । तदभावेऽपि तज्जातीयशक्तिमतोऽन्यस्मादपि तदुत्पत्तिसम्भवात् । यावद्दर्शनं व्यवस्था भवि- बोधनी । व्यमित्यस्य यस्य कस्यचित् कारणस्य स्वभावस्तदापि तत्कारणस्वभावप्रयुक्तजातीयत्वं सर्वेषां तत्कार्याणां भवेत् । तत्र यदि यस्य कस्यचित् कारणस्यानेकजातीयजनकत्वं स्वभावस्तदा सर्व- स्यापि तत्कार्यस्य प्रत्येकं सर्वजातीयत्वं भवेत् । अथैकजातीयत्वं तर्हि सर्वस्याप्येकजातीयत्वं भवेदिति । यद्वा, पूर्वं यतः कुतश्चिद्भवतस्तज्जातीयत्वस्वभाव इति भवनोंद्देशेन तज्जा- तीयस्य भावविधिमाशङ्क्य 'यतः कुतश्चिद् भवतोऽनेकजातीयस्वभावत्वं विधीयते, एक- जातीयस्वभावत्वं वा । पूर्वेणैकस्यैव सर्वजातीयत्वं भवेत्, यतः कुतश्चिद् भवनाविशेषात् ; उत्तरत्र सर्वस्याप्येकजातीयत्वं भवेत्, तत एव हेतोरिति परिहृतम् । पश्चात्तु तज्जातीयस्य यतः कुतश्चिद्भवनं स्वभाव इति तज्जातीयोद्देशेन यतः कुतश्चिद् भवनविधिमाशङ्क्य तज्जातीयस्य सर्वस्यापि यतः कुतश्चिद् भवनस्वभावत्वं वा स्यात्, नियतजातेः कस्यचिदेव वा, पूर्वत्र सर्वस्माद् यतः कुतश्चिद् भवदेकमेव सर्वजातीयं भवेद्, उत्तरत्र सर्वस्मादपि यतः कुतश्चिद् भवदनेकमकजातीयं भवेदिति परिहार इति । अत्र व्याख्याद्वये ग्रन्थार्थ- योरौचित्यविशेषोऽवहितानां सुगम इति । न च नित्यजातिनियमतद्धेत्वनपेक्षत्वं कार्यजातिनियम- स्य वाच्यम् । हेत्वनपेक्षव्यक्तिप्रयुक्तत्वात् तस्येति कारणवैजात्यवादी स्वाभिप्रायमुद्घाटयति- कथं तर्हि-इति । पूर्वपक्षस्थ एव विजातीयेषु कारणेष्वेकशक्तित्वमाशङ्क्य कार्यानुपलब्धिलिङ्ग- भङ्गप्रसङ्गेन निराकरोति-एकशक्तिमत्त्वात्-इति । अनुमानद्वयभङ्गेऽपि हेतुस्तदभावेऽपि त ज्जातीयेति लिङ्गद्वयं समाधित्सुः शङ्कते-यावद्दर्शनम्-इति । कार्यदर्शनानुसारिणी शक्ति- कल्पना विजातीयेष्वपि यथाकार्यदर्शनं व्यवतिष्ठते । ततश्च कार्यात् क्लृप्तशक्तिकमेवान्यतमदनुमी- यते । समस्ततद्व्यतिरेके च कार्यव्यतिरेक इति भावः । तत्र निमित्ते वा शक्तिः कल्प्यते दृष्टे- प्रकाशः । स्यात् घटजातीयजननी स्यात् । एवं धूमादिजातीयजनकत्वमप्यापाद्यम् । घटान्यकार्यसामग्री यदि घटप्रयोजकयावद्धर्मवती स्याद् घटजातीयजनिका स्यादिति क्रमेणापादनीयम् । ननु यद्ये- कजातीयकारणनियमात् कार्यजातिनियमस्तर्हि भिन्नजातीयेभ्यः कारणेभ्यो नाभिन्नजातीयं कार्यं जायेतेत्याह । कथमिति । अत्र मीमांसकमुत्तरयति । एकेति । कार्यानुपलब्धिलिङ्गकानुमानद्वय- भङ्गप्रसङ्गेन तन्निराकरोति । यदि हीति । यावदिति । यत्र क्लृप्तकारणभावं विनाऽप्यन्यस्मा- देकजातीयं दृश्यते तत्र विजातीयेष्वेककार्यानुकूला शक्तिः कल्प्यते, न त्वन्यत्रापि । ततो नोक्त- प्रकाशिका । कार्यानुपलब्धीति । कार्यलिङ्कमनुपलव्धिलिङ्गकञ्चेत्यर्थः । अनुपलब्धिश्च कारणाभावोपलब्धि- मकरन्दः । अनुपलब्धिलिङ्गकम् = अभावलिङ्गकम् । अत एव मूलं-कारणव्यावृत्त्या चेति । टिप्पणी । ध्यत्किञ्चिद्वाजात्यापत्तिरेवोचिता स्यात् । अनिष्टांशेऽविशेषस्योभत्र तुल्यत्वात् इति निपुणतरं विभाव्यम् । कार्यानुपलब्धिलिङ्गकेति । कार्य्यलिङ्गवमनुपलब्धिलिङ्गञ्चेत्यर्थः । न