न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 104, कुल 608 में से
संदर्भ में पढ़ें७० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ . [ ६ कारिकान्याख्याया वा स्यात् । एवं तज्जातीयेन यतःकुतश्चिद्भवितव्यमित्यस्य स्वभावः ? तदापि बोधनी । द्वितीयकल्पमाशङ्क्य दूषयति—एवम्—इति । नियतजातीयेन कार्येण यतः कुतश्चिद् भवित- प्रकाशः । द्वितीये कारणपक्षंकं तर्कद्वयमाह । एवमिति । घटसामग्री यदि पटप्रयोजक्यावद्रूपवती टिप्पणी । न दोष इति वाच्यम् । संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणत्वेऽपि कुत्रचित् संयोगव्यक्त घटरूपद्रव्यघटिता कुत्रचित् पटादिरूपद्रव्यघटिता सेति न संयोगसामग्र्या निरुक्तैकजातीय- त्वसम्भव इति संयोगादिव्यक्तीनामैकजात्यं न स्यात् । अत एव व्यक्तिपक्षेऽप्येकजातीयसा- मग्र्या जातिनियामकत्वसम्भवेन व्यर्थमेव जातिपक्षादरणमिति निरस्तम् । अपि तु कारणजा- त्यानियमः पौर्वापर्य्यभावनियमः । तथाहि तत्तत्कार्याणामेकजातीयतानियामकं सामग्रीविशिष्टस- मग्रीजन्यत्वम् । वैशिष्ट्यञ्च स्वघटकतानवच्छेदकधर्मावच्छिन्नाघटितत्व-स्वघटकतावच्छेदकं- यद् यत्तद्धर्मावच्छिन्नघटितत्वोभयसम्बन्धेन । तथाच संयोगादिस्थलेऽपि घटपटादेः सामग्र्य द्रव्यत्वेनैकरूपेण प्रवेशान्नेकजातीयत्वनियमभङ्गः । व्यक्तिपक्षे तत्तद्व्यक्तित्वेन घटादेः सामग्रीघ- टकत्वात् सामग्रीविशिष्टत्वासम्भवान्न जातिनियमः । न्यूनाधिकसामग्रीप्रभवकार्याणामेकजातीय- त्ववारणाय सम्बन्धद्वयनिवेशनम् । अत्र घटकतावच्छेदकतावच्छिन्नेत्यादिरूपंवृत्तित्वस्यैव वा निवेशः । अत्र घटपटादीनामेकजातीयत्वापादने सामग्रीविशिष्टेत्यत्र कस्याश्चिदपि सामग्र्या ग्रहीतु मशक्यत्वादिति न तेषामेकजातीयत्वसम्भवः । अथवा तत्तज्जातिनियामकं तत्तज्जात्यवच्छिन्न- कार्य्यतानिरूपितकारणतावच्छेदकधर्मावच्छिन्नघटितसामग्रीजन्यत्वमिति न कोऽपि दोषः । अथ विभिन्नजातीयजायमानत्वविशिष्टैकजातीयत्वरूपापादकस्याप्रसिद्धेः पराभ्युपगतत्वेन तत्त्वेऽपि जा तित्त्वपर्य्याप्त्यवच्छेदककूटत्वावच्छिन्नत्वरूपसर्वजातीयत्वस्य परेणापि सर्वत्रानभ्युपगमात्तदभाववति घटादावेव तस्य वृत्तित्वेनापाद्यव्याप्यत्वविरहेणापादकत्वासिद्धेर्मूलस्य सर्वजातीयत्वापादनं विशे- षापादकेन विशिष्याह—अयं घट इत्यादिना । आपाद्यापादकयोर्विशेष्यत्वे सर्वत्वेन पक्षत्वेन सर्वस्मिन् पटत्वादयोऽपि तेषामभावा इति प्रतीतेः सर्वकार्य्यत्वावच्छिन्ने आपाद्यव्यतिरेकनिश्चयां स्यैवाभावादित्यतो विशिष्यैतद्घटत्वादिना पक्षोल्लेखः । अथ योग्यानुपलम्भसहकृता प्रत्यक्षेण निर्णीतापाद्यव्यतिरेकजाया आपत्तेरसम्भावितसंशयताया महदनिष्टरूपत्वात् प्रथमैकमानवादिंनप्रत्येव तदापत्तेः । सावकाशत्वाच्च अध्यक्षवाचिनेदम्पदेन घटितं तथाविधापत्तिस्वरूपबोधकं शब्दप्रयोगं प्रथममेव कुरुते । अयं घटे इत्यादिना । एतेन घटत्वावच्छेदेन पक्षत्वसम्भव एतत्पदं व्यर्थमिति निर- स्तम् । एवं तत्र प्रत्यक्षापाद्यव्यतिरेकात्मना लिङ्गेन सिद्धे आपादकव्यतिरेकेऽन्यत्रापत्तौ व्यति- रेकदृष्टान्तविधया आपादकाभावसाधनेऽन्वयितया च तत्प्रसिद्धिः सुलभेति व्यतिरेकदृष्टान्ताधिकस्याग्रे वक्ष्यमाणत्वादत अध्यक्षघटत्वेन प्रथमं पक्षोल्लेख इत्यपि बोध्यम् । पटजनक्यावजन्यत्वं पटविशि- ष्टसामग्रीजन्यत्वम्, तेनातीतानागतपटजनकस्य तदव्यवहितपूर्वत्वविरहेऽपि न क्षतिः । अथ घटो यदि घटभिन्नजनकयावज्जन्यः स्याद् घटवृत्तिजातिमान्स्यादित्यनुगतरूपेण सकलजातेरापत्तिसम्भ विशिष्य सर्वजातीयत्वापादनं सन्दर्भंविरुद्धमिति चेन्न । आपाद्याभावेनापादकाभावसाधने सामा- न्याभावस्य विशेषाभावकूटनियतत्वेन तत्र विशेषतर्कतुल्यफलत्वेऽपि यथा वन्हित्वेन वन्हेः सिद्धा- वपि न सकलवह्निसिद्धिः, तथा सामान्यरूपेणापत्तौ सत्यामपि न सर्वजातेरापत्तिः । सर्वस्यापादकवि- रहेऽपि तथाविधतर्कोत्थानसम्भवादित्यस्याः सर्वजातीयत्वरूपत्वापत्तिविरहेणमां परित्यक्तवान् । न चोभयोस्तुल्यफलत्वे कल्पनालादयमवादित्वमेव वक्तुमुचिता अनिष्टप्रसञ्जनस्य तुल्यत्वेन तथावि-