न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 103, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ६६ कुतश्चिद् भवन्नेव तज्जातीयस्वभावः स्यात्, सर्वस्य सर्वजातीयत्वमेकजातीयत्वं बोधनी । स्यापि पटजातीयत्वं घटस्य पटस्व च घटाद्येकजातीयत्वं हेतोस्तत्त्र कार्यत्वस्याविशेषादिति । प्रकाशः । सजातीयमेव जनयति ? आद्ये कार्यपक्षके तर्कद्वयमाह । सर्वस्येति । अयं घटो यदि पटजनकयावज्जन्यः स्यात् पटजातीयः स्यात् । एवं यदि यावद्धूमजनकजन्यः स्याद् धूमजातीयः स्यात् । एवमन्यजातीयत्वमप्यापाद्यम् । घटादावपि तत्तज्जातीयत्वमापाद्यमिति सर्वजातीयत्वापादनार्थः । घटभिन्नं कार्यं यदि यावद्धटजनकजन्यं स्याद् घटजातीयं स्यादि- त्येकजातीयत्वापादनार्थः । प्रकाशिका । यमिति । सर्वजातीयत्वमप्रसिद्धमित्यन्यथा तर्कमाह । अयं घट इति । यद्यपि व्यक्त्य- पेक्षयापि नियमे पटजनकयावज्जन्यत्वं घटे परानभ्युपगतमेव, तथापि व्यक्त्यपेक्षया नियमे पूर्ववृत्तित्वमात्रं प्रयोजकमिति तथानियमस्वीकारे घटेऽपि पटजनकयावज्जन्यत्वं स्वीकरणीयमेवेत्यभिप्रायेणेदमुक्तम् । वैयधिकरण्यनिरासायाह । घटभिन्नमिति । मकरन्दः । माह । अयमिति । यद्यपि व्यक्त्यपेक्षया नियमेऽपि पटजनकतद्व्यक्तिजन्यत्वस्य घटेऽनभ्युप- गमादिदमयुक्तम् । तथापि पूर्ववर्तित्वव्यक्तित्वेनैव तथात्वे घटपूर्ववर्तिपटजनकवेमादिव्यक्तैरपि घट- जनकत्वाभ्युपगमादिदमिति ध्येयम् । चैयधिकरण्यादाह । घटभिन्नमिति । टिप्पणी । तर्कद्वयमाह सर्वस्येतीति । अत्र स्वर्गकामो यजेदित्यादिवाक्यतः स्वर्गं प्रति यागस्य कारणत्वे नि र्णीते तस्याव्यवहितपूर्ववर्तित्वनियामकः स्वजन्यादृष्टरूपः सम्बन्धः कल्प्यते, अन्यथा कारणत्वा- नुपपत्तेरित्यदृष्टस्य व्यापाररूपस्य कारणत्वमुपपद्यते, कार्य्यमात्रस्य कर्तृजन्यत्वदर्शनेन तयोर्नि- यमग्रहे क्षित्यादौकर्तृजन्यत्वानुमानेऽस्मदादेस्तदसम्भवेनेश्वरः सिद्धयति। तदुभयमपिन सम्भवति सर्वत्रैव स्थिरकारणे सन्ततौ सत्यपि कार्य्यविलम्बदर्शनात् काचिदपूर्वव्यक्तिः कल्प्या यत्सत्त्वेन का- र्य्यविलम्ब इति लाघवात् तत्कार्य्यव्यक्तौ सैव कारणमिति यागस्याप्यतथात्वेनाकारणतया तत्कारण तानिर्वाहकमदृष्टं न सिद्ध्यति सत्त्वे यागादेः कार्य्यविलम्बदर्शनात् । एवं सत्त्वेऽपि कुलालादेः कार्य्यवि- लम्बदर्शनेन पूर्वव्यक्तेरवश्यकल्प्यतया तस्यैव कारणत्वात् कर्तुःकुलालादेरकारणतया कार्य्यत्वकर्तृत्व जन्यत्वयोर्व्यभिचारेणानुमानस्याप्रयोजकतया न क्षित्यादिकर्तृत्वेनापीश्वरसिद्धिरित्यभिप्रायो यद्यपि- तथापीत्यादिपूर्वपक्षकृतां तत्र नायं दोषः संभवति । तथापि तत्र तथाविध एव पटाद्यागन्तुककारणमा- दाय नियतजातीयताभङ्गः स्यादेव स्वभावनियमोऽपि निमामकं विनाऽसम्भाव्य एवेति सामान्यतो व्यक्तिपक्षखण्डनकृतो मूलकृते। न न्यूनतावकाशः । अत्र प्रवृत्तिनिवृत्तिव्याघातादिकमपि दोषत्वे- नावधारणीयम् सर्वमित्याद्ययं दोषस्तु तद्व्यक्तिपक्षं वद्धधा विकल्प्य शिष्यबुद्धिगैशद्यायेति विभा- व्यम् ॥०॥ कार्य्यनियतजातीयत्व इत्यादि । अथकारणजातिनियमो न कारणस्यैकजातीयत्वं तथा हि वह्निविशेषजातीयकारणजन्यत्वस्य धूमदाहादौ सत्त्वेन तयोरेकजातीयत्वं स्यात् । तत्त- त्कार्य्यजनकयावत्कारणकजातीयत्वस्यैवाभावात् । न च तद्घटस्य यज्जातीयं कारणमपरघटस्यापि तत्तज्जातीयमेवेति तद्वृत्तिजातिशून्यत्वरूपस्यैकजातीयत्वस्य सकलघटप्रयोजकयावत्कारणात्मकसा- मग्याः सत्त्वेनैकजातीयसामग्र्या एवैकजातीयत्वनियामकत्वम्, तत्र कारणपदं सामग्रीपरमिति