न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ६६ कुतश्चिद् भवन्नेव तज्जातीयस्वभावः स्यात्, सर्वस्य सर्वजातीयत्वमेकजातीयत्वं बोधनी । स्यापि पटजातीयत्वं घटस्य पटस्व च घटाद्येकजातीयत्वं हेतोस्तत्त्र कार्यत्वस्याविशेषादिति । प्रकाशः । सजातीयमेव जनयति ? आद्ये कार्यपक्षके तर्कद्वयमाह । सर्वस्येति । अयं घटो यदि पटजनकयावज्जन्यः स्यात् पटजातीयः स्यात् । एवं यदि यावद्धूमजनकजन्यः स्याद् धूमजातीयः स्यात् । एवमन्यजातीयत्वमप्यापाद्यम् । घटादावपि तत्तज्जातीयत्वमापाद्यमिति सर्वजातीयत्वापादनार्थः । घटभिन्नं कार्यं यदि यावद्धटजनकजन्यं स्याद् घटजातीयं स्यादि- त्येकजातीयत्वापादनार्थः । प्रकाशिका । यमिति । सर्वजातीयत्वमप्रसिद्धमित्यन्यथा तर्कमाह । अयं घट इति । यद्यपि व्यक्त्य- पेक्षयापि नियमे पटजनकयावज्जन्यत्वं घटे परानभ्युपगतमेव, तथापि व्यक्त्यपेक्षया नियमे पूर्ववृत्तित्वमात्रं प्रयोजकमिति तथानियमस्वीकारे घटेऽपि पटजनकयावज्जन्यत्वं स्वीकरणीयमेवेत्यभिप्रायेणेदमुक्तम् । वैयधिकरण्यनिरासायाह । घटभिन्नमिति । मकरन्दः । माह । अयमिति । यद्यपि व्यक्त्यपेक्षया नियमेऽपि पटजनकतद्व्यक्तिजन्यत्वस्य घटेऽनभ्युप- गमादिदमयुक्तम् । तथापि पूर्ववर्तित्वव्यक्तित्वेनैव तथात्वे घटपूर्ववर्तिपटजनकवेमादिव्यक्तैरपि घट- जनकत्वाभ्युपगमादिदमिति ध्येयम् । चैयधिकरण्यादाह । घटभिन्नमिति । टिप्पणी । तर्कद्वयमाह सर्वस्येतीति । अत्र स्वर्गकामो यजेदित्यादिवाक्यतः स्वर्गं प्रति यागस्य कारणत्वे नि र्णीते तस्याव्यवहितपूर्ववर्तित्वनियामकः स्वजन्यादृष्टरूपः सम्बन्धः कल्प्यते, अन्यथा कारणत्वा- नुपपत्तेरित्यदृष्टस्य व्यापाररूपस्य कारणत्वमुपपद्यते, कार्य्यमात्रस्य कर्तृजन्यत्वदर्शनेन तयोर्नि- यमग्रहे क्षित्यादौकर्तृजन्यत्वानुमानेऽस्मदादेस्तदसम्भवेनेश्वरः सिद्धयति। तदुभयमपिन सम्भवति सर्वत्रैव स्थिरकारणे सन्ततौ सत्यपि कार्य्यविलम्बदर्शनात् काचिदपूर्वव्यक्तिः कल्प्या यत्सत्त्वेन का- र्य्यविलम्ब इति लाघवात् तत्कार्य्यव्यक्तौ सैव कारणमिति यागस्याप्यतथात्वेनाकारणतया तत्कारण तानिर्वाहकमदृष्टं न सिद्ध्यति सत्त्वे यागादेः कार्य्यविलम्बदर्शनात् । एवं सत्त्वेऽपि कुलालादेः कार्य्यवि- लम्बदर्शनेन पूर्वव्यक्तेरवश्यकल्प्यतया तस्यैव कारणत्वात् कर्तुःकुलालादेरकारणतया कार्य्यत्वकर्तृत्व जन्यत्वयोर्व्यभिचारेणानुमानस्याप्रयोजकतया न क्षित्यादिकर्तृत्वेनापीश्वरसिद्धिरित्यभिप्रायो यद्यपि- तथापीत्यादिपूर्वपक्षकृतां तत्र नायं दोषः संभवति । तथापि तत्र तथाविध एव पटाद्यागन्तुककारणमा- दाय नियतजातीयताभङ्गः स्यादेव स्वभावनियमोऽपि निमामकं विनाऽसम्भाव्य एवेति सामान्यतो व्यक्तिपक्षखण्डनकृतो मूलकृते। न न्यूनतावकाशः । अत्र प्रवृत्तिनिवृत्तिव्याघातादिकमपि दोषत्वे- नावधारणीयम् सर्वमित्याद्ययं दोषस्तु तद्व्यक्तिपक्षं वद्धधा विकल्प्य शिष्यबुद्धिगैशद्यायेति विभा- व्यम् ॥०॥ कार्य्यनियतजातीयत्व इत्यादि । अथकारणजातिनियमो न कारणस्यैकजातीयत्वं तथा हि वह्निविशेषजातीयकारणजन्यत्वस्य धूमदाहादौ सत्त्वेन तयोरेकजातीयत्वं स्यात् । तत्त- त्कार्य्यजनकयावत्कारणकजातीयत्वस्यैवाभावात् । न च तद्घटस्य यज्जातीयं कारणमपरघटस्यापि तत्तज्जातीयमेवेति तद्वृत्तिजातिशून्यत्वरूपस्यैकजातीयत्वस्य सकलघटप्रयोजकयावत्कारणात्मकसा- मग्याः सत्त्वेनैकजातीयसामग्र्या एवैकजातीयत्वनियामकत्वम्, तत्र कारणपदं सामग्रीपरमिति
७० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ . [ ६ कारिकान्याख्याया वा स्यात् । एवं तज्जातीयेन यतःकुतश्चिद्भवितव्यमित्यस्य स्वभावः ? तदापि बोधनी । द्वितीयकल्पमाशङ्क्य दूषयति—एवम्—इति । नियतजातीयेन कार्येण यतः कुतश्चिद् भवित- प्रकाशः । द्वितीये कारणपक्षंकं तर्कद्वयमाह । एवमिति । घटसामग्री यदि पटप्रयोजक्यावद्रूपवती टिप्पणी । न दोष इति वाच्यम् । संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणत्वेऽपि कुत्रचित् संयोगव्यक्त घटरूपद्रव्यघटिता कुत्रचित् पटादिरूपद्रव्यघटिता सेति न संयोगसामग्र्या निरुक्तैकजातीय- त्वसम्भव इति संयोगादिव्यक्तीनामैकजात्यं न स्यात् । अत एव व्यक्तिपक्षेऽप्येकजातीयसा- मग्र्या जातिनियामकत्वसम्भवेन व्यर्थमेव जातिपक्षादरणमिति निरस्तम् । अपि तु कारणजा- त्यानियमः पौर्वापर्य्यभावनियमः । तथाहि तत्तत्कार्याणामेकजातीयतानियामकं सामग्रीविशिष्टस- मग्रीजन्यत्वम् । वैशिष्ट्यञ्च स्वघटकतानवच्छेदकधर्मावच्छिन्नाघटितत्व-स्वघटकतावच्छेदकं- यद् यत्तद्धर्मावच्छिन्नघटितत्वोभयसम्बन्धेन । तथाच संयोगादिस्थलेऽपि घटपटादेः सामग्र्य द्रव्यत्वेनैकरूपेण प्रवेशान्नेकजातीयत्वनियमभङ्गः । व्यक्तिपक्षे तत्तद्व्यक्तित्वेन घटादेः सामग्रीघ- टकत्वात् सामग्रीविशिष्टत्वासम्भवान्न जातिनियमः । न्यूनाधिकसामग्रीप्रभवकार्याणामेकजातीय- त्ववारणाय सम्बन्धद्वयनिवेशनम् । अत्र घटकतावच्छेदकतावच्छिन्नेत्यादिरूपंवृत्तित्वस्यैव वा निवेशः । अत्र घटपटादीनामेकजातीयत्वापादने सामग्रीविशिष्टेत्यत्र कस्याश्चिदपि सामग्र्या ग्रहीतु मशक्यत्वादिति न तेषामेकजातीयत्वसम्भवः । अथवा तत्तज्जातिनियामकं तत्तज्जात्यवच्छिन्न- कार्य्यतानिरूपितकारणतावच्छेदकधर्मावच्छिन्नघटितसामग्रीजन्यत्वमिति न कोऽपि दोषः । अथ विभिन्नजातीयजायमानत्वविशिष्टैकजातीयत्वरूपापादकस्याप्रसिद्धेः पराभ्युपगतत्वेन तत्त्वेऽपि जा तित्त्वपर्य्याप्त्यवच्छेदककूटत्वावच्छिन्नत्वरूपसर्वजातीयत्वस्य परेणापि सर्वत्रानभ्युपगमात्तदभाववति घटादावेव तस्य वृत्तित्वेनापाद्यव्याप्यत्वविरहेणापादकत्वासिद्धेर्मूलस्य सर्वजातीयत्वापादनं विशे- षापादकेन विशिष्याह—अयं घट इत्यादिना । आपाद्यापादकयोर्विशेष्यत्वे सर्वत्वेन पक्षत्वेन सर्वस्मिन् पटत्वादयोऽपि तेषामभावा इति प्रतीतेः सर्वकार्य्यत्वावच्छिन्ने आपाद्यव्यतिरेकनिश्चयां स्यैवाभावादित्यतो विशिष्यैतद्घटत्वादिना पक्षोल्लेखः । अथ योग्यानुपलम्भसहकृता प्रत्यक्षेण निर्णीतापाद्यव्यतिरेकजाया आपत्तेरसम्भावितसंशयताया महदनिष्टरूपत्वात् प्रथमैकमानवादिंनप्रत्येव तदापत्तेः । सावकाशत्वाच्च अध्यक्षवाचिनेदम्पदेन घटितं तथाविधापत्तिस्वरूपबोधकं शब्दप्रयोगं प्रथममेव कुरुते । अयं घटे इत्यादिना । एतेन घटत्वावच्छेदेन पक्षत्वसम्भव एतत्पदं व्यर्थमिति निर- स्तम् । एवं तत्र प्रत्यक्षापाद्यव्यतिरेकात्मना लिङ्गेन सिद्धे आपादकव्यतिरेकेऽन्यत्रापत्तौ व्यति- रेकदृष्टान्तविधया आपादकाभावसाधनेऽन्वयितया च तत्प्रसिद्धिः सुलभेति व्यतिरेकदृष्टान्ताधिकस्याग्रे वक्ष्यमाणत्वादत अध्यक्षघटत्वेन प्रथमं पक्षोल्लेख इत्यपि बोध्यम् । पटजनक्यावजन्यत्वं पटविशि- ष्टसामग्रीजन्यत्वम्, तेनातीतानागतपटजनकस्य तदव्यवहितपूर्वत्वविरहेऽपि न क्षतिः । अथ घटो यदि घटभिन्नजनकयावज्जन्यः स्याद् घटवृत्तिजातिमान्स्यादित्यनुगतरूपेण सकलजातेरापत्तिसम्भ विशिष्य सर्वजातीयत्वापादनं सन्दर्भंविरुद्धमिति चेन्न । आपाद्याभावेनापादकाभावसाधने सामा- न्याभावस्य विशेषाभावकूटनियतत्वेन तत्र विशेषतर्कतुल्यफलत्वेऽपि यथा वन्हित्वेन वन्हेः सिद्धा- वपि न सकलवह्निसिद्धिः, तथा सामान्यरूपेणापत्तौ सत्यामपि न सर्वजातेरापत्तिः । सर्वस्यापादकवि- रहेऽपि तथाविधतर्कोत्थानसम्भवादित्यस्याः सर्वजातीयत्वरूपत्वापत्तिविरहेणमां परित्यक्तवान् । न चोभयोस्तुल्यफलत्वे कल्पनालादयमवादित्वमेव वक्तुमुचिता अनिष्टप्रसञ्जनस्य तुल्यत्वेन तथावि-
प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ७१ सर्वस्मात् सर्वजातीयमेकजातीयं वा स्यात् । कथं तर्हि तृणारणिमणिभ्यो भव- न्नाशुशुक्षणिरेकजातीयः ? । एकशक्तिमत्त्वादिति चेन्न । यदि हि विजातीयेष्वप्ये- कजातीयकार्यकारणशक्तिः समवेयाद्, न कार्यात् कारणविशेषः क्वाप्यनुमीयेत । कारणव्यावृत्त्या च न तज्जातीयस्यैव कार्य्यस्य व्यावृत्तिरवसीयेत । तदभावेऽपि तज्जातीयशक्तिमतोऽन्यस्मादपि तदुत्पत्तिसम्भवात् । यावद्दर्शनं व्यवस्था भवि- बोधनी । व्यमित्यस्य यस्य कस्यचित् कारणस्य स्वभावस्तदापि तत्कारणस्वभावप्रयुक्तजातीयत्वं सर्वेषां तत्कार्याणां भवेत् । तत्र यदि यस्य कस्यचित् कारणस्यानेकजातीयजनकत्वं स्वभावस्तदा सर्व- स्यापि तत्कार्यस्य प्रत्येकं सर्वजातीयत्वं भवेत् । अथैकजातीयत्वं तर्हि सर्वस्याप्येकजातीयत्वं भवेदिति । यद्वा, पूर्वं यतः कुतश्चिद्भवतस्तज्जातीयत्वस्वभाव इति भवनोंद्देशेन तज्जा- तीयस्य भावविधिमाशङ्क्य 'यतः कुतश्चिद् भवतोऽनेकजातीयस्वभावत्वं विधीयते, एक- जातीयस्वभावत्वं वा । पूर्वेणैकस्यैव सर्वजातीयत्वं भवेत्, यतः कुतश्चिद् भवनाविशेषात् ; उत्तरत्र सर्वस्याप्येकजातीयत्वं भवेत्, तत एव हेतोरिति परिहृतम् । पश्चात्तु तज्जातीयस्य यतः कुतश्चिद्भवनं स्वभाव इति तज्जातीयोद्देशेन यतः कुतश्चिद् भवनविधिमाशङ्क्य तज्जातीयस्य सर्वस्यापि यतः कुतश्चिद् भवनस्वभावत्वं वा स्यात्, नियतजातेः कस्यचिदेव वा, पूर्वत्र सर्वस्माद् यतः कुतश्चिद् भवदेकमेव सर्वजातीयं भवेद्, उत्तरत्र सर्वस्मादपि यतः कुतश्चिद् भवदनेकमकजातीयं भवेदिति परिहार इति । अत्र व्याख्याद्वये ग्रन्थार्थ- योरौचित्यविशेषोऽवहितानां सुगम इति । न च नित्यजातिनियमतद्धेत्वनपेक्षत्वं कार्यजातिनियम- स्य वाच्यम् । हेत्वनपेक्षव्यक्तिप्रयुक्तत्वात् तस्येति कारणवैजात्यवादी स्वाभिप्रायमुद्घाटयति- कथं तर्हि-इति । पूर्वपक्षस्थ एव विजातीयेषु कारणेष्वेकशक्तित्वमाशङ्क्य कार्यानुपलब्धिलिङ्ग- भङ्गप्रसङ्गेन निराकरोति-एकशक्तिमत्त्वात्-इति । अनुमानद्वयभङ्गेऽपि हेतुस्तदभावेऽपि त ज्जातीयेति लिङ्गद्वयं समाधित्सुः शङ्कते-यावद्दर्शनम्-इति । कार्यदर्शनानुसारिणी शक्ति- कल्पना विजातीयेष्वपि यथाकार्यदर्शनं व्यवतिष्ठते । ततश्च कार्यात् क्लृप्तशक्तिकमेवान्यतमदनुमी- यते । समस्ततद्व्यतिरेके च कार्यव्यतिरेक इति भावः । तत्र निमित्ते वा शक्तिः कल्प्यते दृष्टे- प्रकाशः । स्यात् घटजातीयजननी स्यात् । एवं धूमादिजातीयजनकत्वमप्यापाद्यम् । घटान्यकार्यसामग्री यदि घटप्रयोजकयावद्धर्मवती स्याद् घटजातीयजनिका स्यादिति क्रमेणापादनीयम् । ननु यद्ये- कजातीयकारणनियमात् कार्यजातिनियमस्तर्हि भिन्नजातीयेभ्यः कारणेभ्यो नाभिन्नजातीयं कार्यं जायेतेत्याह । कथमिति । अत्र मीमांसकमुत्तरयति । एकेति । कार्यानुपलब्धिलिङ्गकानुमानद्वय- भङ्गप्रसङ्गेन तन्निराकरोति । यदि हीति । यावदिति । यत्र क्लृप्तकारणभावं विनाऽप्यन्यस्मा- देकजातीयं दृश्यते तत्र विजातीयेष्वेककार्यानुकूला शक्तिः कल्प्यते, न त्वन्यत्रापि । ततो नोक्त- प्रकाशिका । कार्यानुपलब्धीति । कार्यलिङ्कमनुपलव्धिलिङ्गकञ्चेत्यर्थः । अनुपलब्धिश्च कारणाभावोपलब्धि- मकरन्दः । अनुपलब्धिलिङ्गकम् = अभावलिङ्गकम् । अत एव मूलं-कारणव्यावृत्त्या चेति । टिप्पणी । ध्यत्किञ्चिद्वाजात्यापत्तिरेवोचिता स्यात् । अनिष्टांशेऽविशेषस्योभत्र तुल्यत्वात् इति निपुणतरं विभाव्यम् । कार्यानुपलब्धिलिङ्गकेति । कार्य्यलिङ्गवमनुपलब्धिलिङ्गञ्चेत्यर्थः । न
७२ - व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्याया ष्यतीति चेन्न । निमित्तस्यादर्शनाद् दृष्टस्य चानिमित्तत्वात् । एतेन सूक्ष्मजातीया- दिति निरस्तम् । अवह्नेरपि तत्सौक्ष्म्याद् धूमोत्पत्त्यापत्तेः । कार्य्यजातिभेदाभे- दयोः समवायिभेदाभेदावेव तन्त्रं, न निमित्तासमवायिनी इति चेन्न । तयोरका- रणत्वप्रसङ्गात् । न हि सति भावमात्रं तत्, किन्तु सत्येव भावः । न च जाति- बोधनी । वेति विकल्पं हृदि निधायाह — निमित्तस्य-इति । यस्मिन् सत्येव यद् भवति तत् तस्य निमित्तं, इह तु न तथाविधनिमित्तं दृश्यते, ये तु दृश्यन्ते तृणादयो, न ते निमित्तं, तद्व्यतिरे- केऽपि कार्य्यव्यतिरेकाभावात् ; अन्वयमात्रेण शक्तिकल्पनायां रासभादिष्वपि प्रसङ्गः । तेन च ये निमित्ततया दृष्टास्तेषु शक्तिकल्पनमिति नायं समाधिरिति । नन्वस्ति तृणादिष्वपि दृश्यमानस्थूल जातिभेदेषु सूक्ष्मा काचिदेका जातिः, ततः कार्य्यजातिनियम इत्याशङ्कयाह-एतेन इति-कार्य्यका- रणनिवृत्तिभ्यां कारणकार्य्यनिवृत्त्यनुमानभङ्गप्रसङ्गेनेति । यद्यस्ति जातिः किमिति नोपलभ्यते इत्य- त्रोक्तं—सूक्ष्मजातीयात्-इति । अतिदिष्टमेव हेतुं स्पष्टयति-अवह्नेः इति । धूमप्रयोजक- सूक्ष्मजातिमतोऽप्यवह्नेरिति शङ्कते—कार्य्य-इति । निमित्तासमवायिनीभिन्नाभिन्नेइति शेषः । तृणा- दीनां तु निमित्तकारणत्वात् तद्वैजात्येऽपि न कश्चिद् दोष इति भावः । न-इति । यदि निमित्तासमवा- यिभेदेऽपि तज्जातीयमेव कार्य्यमनुवर्त्तते ततस्तयोरकारणत्वमेव स्यादिति । नन्वस्तु कार्यान्वयादेव तयोः कारणत्वमिति तत्राह—न हि-इति । तत्कारणत्वं नान्वयमात्रं किन्तु सत्येव कारणे कार्य्य- भावः, व्यतिरेकोऽप्यङ्गमित्यर्थः । किञ्च, समवायिभेदेऽपि अतज्जातीयकार्य्यदर्शनान्न तद्भेदाभेदौ कार्य्यभेदाभेदयोर्निदानमित्याह—न च-इति । ननु मा भूत् कार्य्यमात्रभेदस्य समवायिभेदो निव- न्धनं, किन्तु द्रव्यस्य सतः कार्य्यस्य प्रकारोऽयं यत् समवायिमात्रभेदेन भेद इति । अतो न गुण प्रकाशः । दोष इत्यर्थः । निमित्तस्येति । तृणादिषु कारणतावच्छेदकरूपस्यादर्शनात् । न च शक्तिरेव तथा । अन्योन्याश्रयात् । कारणत्वग्रहे तत्कल्पनम् , अन्यथा रासभेऽपि तदापत्तेः, तत्कल्पनेन च कारणत्वग्रहः । तस्यान्वयव्यतिरेकावच्छेद्यत्वात् , दृष्टस्य च तृणत्वादेः, अनिमित्तत्वात् कार- णतानवच्छेदकत्वादित्यर्थः । तृणादिषु व्यभिचारमग्निकुर्वन्द्द्रूपत्वादीन्द्रियजातिविशेषाद् ये परि- हरन्ति, तेऽप्यत एव निरस्ता इत्याह । एतेनेति । ननु तृणादयोऽग्नौ निमित्तकारणानि । न च तत्साजात्यवैजात्याभ्यां कार्यसाजात्यवैजात्ये, किन्तु समवायिनस्तथात्वात् । तच्चात्रास्त्येवेति शङ्कते । कार्येति । तथापि तृणादेर्व्यभिचारेण कारणत्वं न स्यादिति परिहरति । तयोरिति । न हीति । व्यभिचारिणोऽपि कारणत्वापातादिति भावः । किन्त्विति । तृणादौ चैकैकाभावेऽप्यग्ने- र्भावात् कारणत्वं न स्यादित्यर्थः । न च समवायिकारणसाजात्यादिकमपि कार्यस्य तथात्वे तन्त्रम् । तदभावेऽपि कार्यवैजात्यदर्शनादित्याह । न चेति । प्रकाशिका रत्न । अत एव मूले कारणव्यावृत्त्या चेति । तथापि तृणादेरिति । यद्यपि व्यक्त्यपेक्षयैव नियमोऽस्त्विति पूर्वपक्षोपक्रमात् , व्यभिचारेऽपि व्यक्त्योः कार्यकारणभावोऽविरुद्ध एव । तथापि रासभादेरपि व्यक्त्यपेक्षया नियमसत्त्वात् कारणत्वं स्यादिति भयेन जात्यपेक्षयैव कारणत्वं वाच्य- टिप्पणी । तु कार्य्यानुपलब्धेरेकस्या। लिङ्गत्वं विवक्षितम् ग्रन्थविरोधात् । अनुपलब्धिः कारणाभावोपलब्धिः, न तु कारणोपलब्ध्यभावः । ग्रन्थे तल्लिङ्गकानुमानभङ्गस्याप्रदर्शनात् । अत एव कारणव्यावृत्त्येति मूले व्यावृत्तिरभावः । अवसीयेतानुमीयेतेत्यर्थः । तथा च कारणाभावस्य लिङ्गत्वं मूलप्राप्तमिति भावः
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ७३ नियमे समवायिकारणमात्रं निबन्धनमपि तु सामग्री । अन्यथा द्रव्यगुणकर्म- णामेकोपादानकत्वे विजातीयत्वं न स्यात् । न च कार्यद्रव्यस्यैषा रीतिरिति युक्तम् । आरब्धदुग्धैरेवावयवैर्दध्यारम्भदर्शनात् । बोधनी । दिभिर्व्यभिचार इत्यत्राह—न च कार्यद्रव्यस्य-इति । न च दुग्धमेव दध्यारभते न तदवयवा इति वाच्यम् । कार्यद्रव्यस्यानेकद्रव्यारभ्यत्वनियमाद् दधिकाले दुग्धानुवृत्त्यभावाच्च । न च दुग्धा- म्लद्रव्याभ्यामेवारम्भः, विजातीयानां सहारम्भानुपपत्तेः । तेन दुग्धावयवा अम्लसंयोगाद् विनष्ट- दुग्धकार्या दध्यारभन्त इति न समवायिभेदनिबन्धनः कार्यद्रव्यभेदोऽपीति । प्रकाशः । अपि त्विति । सामग्री वः तृणादिघटिता भिन्नेवेति भावः । अन्यथेति । न च समवायिनो द्रव्यस्याभेदेऽपि कारणतावच्छेदकधर्मभेदाद् द्रव्यादीनां जातिभेदः स्यात् । तथाहि द्रव्यजनने स्पर्शवत्त्वमवच्छेदकं, गुणकर्मजनने तु द्रव्यत्वमूर्तत्वे तथेति वाच्यम् । द्रव्यत्वेनैकेनैव रूपेण संयो- गविभागौ प्रति कारणत्वेऽपि तयोर्जातिभेदात् , कारणतावच्छेदकस्याकारणत्वाच्चेति भावः । न च कार्यमात्ररीतिरेषा, अपि तु द्रव्यस्य सतः, अतो न द्रव्यादिभिः समानोपादानैर्व्यभिचार इत्याह । न चेति । एवं सति समवाय्यभेदे कार्यद्रव्यं दधिदुग्धरूपं न भिद्येत क्षीरपरमाणव एवाम्लसंयो- गान्नष्टकार्यद्रव्या दध्यारभन्ते । अत एव, क्षीरं नष्टं दधि जातमिति लौकिकोऽयमनुभव इत्याह । आरब्धेति । नन्वतीन्द्रियेषु परमाणुषु दर्शनाभावाद् दध्यारम्भको योग्योऽवयवो वाच्यः । तत्र च क्षीरत्वं योग्यानुपलब्धिबाधितम् । प्रत्युतावयवावयविवृत्तिजातित्वेन पृथिवीत्ववद् दधित्त्वस्य परमाणुवृत्ति- त्वमनुमेयम् । न च तन्तुत्वेन व्यभिचारः, तस्य पटावयवे अंशववयविनि वृत्तेरिति वाच्यम् । प्रकाशिका । मिति स्वमतावष्टम्भेनेदमुक्तं कारणतावच्छेदकधर्मेति । अवच्छेदकभेदादेव च कार्यभेद इत्यर्थः । कारणतावच्छेदकस्येति लाघवात्, कारणभेदस्यैव कार्यभेदप्रयोजकत्वादिति भावः । क्षीरपरमा- णव एवेति । तादृशदुग्धध्वंसविशिष्टाः पाकजाम्लरससहकृताश्चेति शेषः । अत एवेति । क्षीरनाशदध्युत्पत्त्योः सामानाधिकरण्यानुभवान्नाशस्य च प्रतियोगिसमवायिवृत्तित्वादेकमधिकरणं क्षीरदध्नोरित्यर्थः । प्रत्युतेति । तथा च दधित्वाश्रयपरमाणोरेव दुग्धनाशे सति दध्यारम्भ इति नैकोपादानकत्वं तयो- रिति भावः । अवयवावयवीति । कार्यकारणवृत्तित्वमात्रोक्तौ रूपत्वादौ व्यभिचार इत्यवयवाव- यवीति । अत्रापि समवायिसमवेतवृत्तित्वादित्येवार्थो न तु कारणत्वघटितो व्यर्थविशेषणत्वादित्यव- धेयम् । जातिपदं च द्वित्वादौ व्यभिचारवारणाय । कार्यत्वे सतीति । द्वितीयस्य घटादौ व्यभिचार- वारकतया प्रथमस्यानवस्थावारकतया व्याप्तिग्राहकत्वमित्यवधेयम्। अनवस्थाभिया कस्यचन दध्नो मकरन्दः । कारणताऽवच्छेदकस्येति । कारणभेदस्यैव तद्भेदप्रयोजकत्वादिति भावः । प्रत्युतेति । तथाच तत्तत्परमाणुभिरेव तत्तदारम्भ इति नैकोपादानकत्वं तयोरिति भावः । अत्र च जातिपदं द्वित्वादौ व्यभिचारवारणाय । न च कार्यकारणोभयवृत्तित्वादित्येवास्तु कृतमवयवादिपर्यन्तेनेति वाच्यम् । रूपत्वादौ व्यभिचारात् । न चैवमपि समवायिकार्यवृत्तित्वादित्येवास्तु, तत्रैव तात्पर्यादित्याहुः । दधि ससमवायिकारणकं भावकार्यत्वादित्यनुमानं लाघवाख्यतर्कसहकृतं दुग्धारम्भकपरमाणु- मेव विषयीकरोति, अन्यथा गौरवात् । दुग्धं विनाऽपि कदाचिद् दध्यापत्तेश्चेत्याशयवानाह । १० न्या० कु०
७४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्या प्रकाशः । तद्वययवृत्तित्वे सति तदवयववृत्तित्वस्य विवक्षितत्वात्, द्वयणुकवृत्तिजातित्वस्य लिङ्गत्ववाद्वा । न च दधित्त्वं न परमाणुवृत्ति पृथिवीत्वव्याप्यजातित्वात् घटत्ववदिति वाच्यम् । व्यञ्जकाभावस्योपाधि- त्वात् । पटत्वव्यञ्जकसंस्थानविशेषस्य परमाणवभावाद्दधित्वव्यञ्जकरसविशेषस्य च तत्र सत्त्वात्। न च रसविशेषवदवयवित्वं तद्व्यञ्जकं, गौरवात् । गन्धवदवयवित्वस्य पृथिवीत्वव्यञ्जकत्वे तस्यापि परमाणुवृत्त्यापत्तेश्च । यद्वा, दधिद्व्यणुकं दधित्वाश्रयोपादानकं, कार्यत्वे सति दधित्वात् । स्थूल- दधिवत् । न च कार्यत्वं व्यर्थं, स्वतोऽनैकान्तिकपरिहारार्थत्वात् । दधिद्व्यणुकोपादानं वा न क्षीरारम्भकं, दध्यवयवत्वात् दध्यारम्भकदध्यवयववत् ॥ अत्रोच्यते । क्षीरपरमाणूनां तत्रावश्यकत्वाद् य एवावयवाः क्षीरमारब्धवन्तस्त एव सह- कारिविशेषाद्दध्यारभन्ते, लाघवात् । अनुमाने चानुकूलतर्काभावः । दधित्वं यदि पार्थिवपरमाणु- वृत्तिजातिः स्यात् पटवृत्ति स्यादिति प्रतिकूलतर्कप्रतिहतत्वं च । न च लाघवोऽपकार्यमानाभावः । प्रकाशिका दध्यनारभ्यत्वे तत्रैव व्यभिचार इत्याशयेनाह । स्वत इति । क्षीरपरमाणूनामिति । तथाच दधिद्व्यणुकं ससमवायिकारणकं भावकार्यत्वादित्यनुमानं ला- घवसहकृतं दुग्धोपादानोपादेयत्वं विषयीकरोतीति भावः। अनुमाने चेति। पूर्वपक्षानुमान इत्यर्थः। दधित्वं यदीति । अत्र जलत्वे व्यभिचार इतिपार्थिवपदम् , स्वमते दुग्धत्वादौ व्यभिचार इति परमपदम् , घटत्वे व्यभिचार इति अणुपदम् , परमाणुपरिमाणे व्यभिचर इति जातिपदम् । नच तर्कोऽप्ययं शिथिलमूल इति वाच्यम् । परमाणूनाम् हि परम्परया पटारम्भे पार्थिवपरमाणुत्वमेव प्रयोजकं पटप्रयोजकजातेस्तत्राभावात् , तत्स्वीकारे तज्जातेर्द्वयणुकवृत्तिजातित्वापत्तेः । तथासति चावयविवृत्तिजातित्वेन तदारब्धपरम्परावृत्तित्वे पटवृत्तित्वापत्तेः । तत्र चानुपलम्भबाधः । एवं च पार्थिवपरमाणुत्वस्यैव पटारम्भप्रयोजकत्वे दधित्वाश्रयेण परमाणुनापि नित्येन स्वरूपयोग्थेन च कदाचित् पटारम्भेऽवयवावयविवृत्तिजातित्वेन दधित्वस्य पटवृत्तित्वापत्तेरिति भावः । न च द्रव्यत्वसाक्षाद्व्याप्यपार्थिवपरमाणुवृत्तिजातित्वमेव पटवृत्तिताप्रयोजकमिति वाच्यम् । गौरवात् सत्तायाः पटावृत्तित्वप्रसङ्गाच्चेति । तर्कस्य स्वातन्त्र्येणासाधकत्वमित्याशयेनाह । न चेति । मकरन्दः । क्षीरपरमाणूनामिति । अनुमाने, पूर्वपक्षानुमाने । दधित्वमिति । जलत्वे व्यभिचारादाह । पार्थिवेति । स्वमते दुग्धत्वे व्यभिचारादाह । परमाण्विति । परमाणुपरिमाणादौ व्यभिचा- रादाह, जातिपदम् । न च तादृशद्रव्यत्वसाक्षाद्व्याप्यजातित्वं, पटवृत्तित्वप्रयोजकमिति वाच्यम् । साक्षात्त्वस्य गुरुत्वात् । सत्तायाः पटावृत्तित्वप्रसङ्गाच्च । नन्वेवमप्रयोजकतयाऽस्यैव तर्कस्य शि- थिलमूलत्वमिति चेत् । अत्राहुः । न हि परम्परया पटारम्भके परमाणौ दध्यारम्भकपरमाणुवृ- त्तिदधित्ववत्तयाऽपि जातिरङ्गीक्रियते । तस्या अपि पटे प्रत्ययापत्तेः । अवयवावयविवृत्तिजातेरव- यविवृत्तित्वनियमात् । तथाचान्यस्यावच्छेदकस्याभावात् पृथिवीपरमाणुत्वादिकमेव तत्तद्दद्व्यणुक- जनकतावच्छेदकम् । एवञ्च दधिद्व्यणुकायाश्रयपरमाणवोऽपि तत्र स्वरूपयोग्या इति नित्यस्य सहकार्यवशम्भावे तैरपि पटजनने पूर्वोक्तयुक्त्या तज्जातेः पटवृत्तित्वाऽऽपत्तिरित्यत्र तात्पर्यमि- टिप्पणी । व्यञ्जकाभावस्योपाधित्वादिति । स्वव्यञ्जकाभाववत्परमाणुकत्वे तात्पर्यम्, व्यञ्जकाभावश्च व्यञ्जकतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकः । विशेष्यत्वविशेषसम्बन्धेन पटत्त्वादिप्रत्यक्षं प्रति- संस्थानविशेषादेः स्वसमवायिसमवेतत्वविशेषेण व्यञ्जकत्वात् । तेन च तस्य परमाणवसम्ववाद् दधि- त्वव्यञ्जकस्य रसविशेषस्य समवायेन परमाणौ सम्भवादिति भावः ।
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (Markdown प्रारूप में) है:
प्रथमस्तबके ] \qquad स्वभावकारणतावादखण्डनम् । \qquad ७५ \centerline{प्रकाशः ।} दध्यारम्भकः परमाणुर्न दधित्वाश्रयः नित्यपार्थिवत्वात् पटारम्भकपरमाणुवदित्यनुमानस्य सं- भवात् । न च व्यञ्जकाऽसत्त्वमुपाधिः ? दधित्वाश्रयपरमाणौ च रसविशेषवत्त्वं दधित्वव्यञ्जकम- स्तीति वाच्यम् । प्रतिकूलतर्केण रसविशेषवदवयवित्वस्य तद्व्यञ्जकत्वात् । किञ्चैवं दुग्धोर्त्कर्षाप- \centerline{प्रकाशिका ।} न च क्षीरपरमाणुतदन्यपरमाणुविषयकत्वसम्भवेन पूर्वोक्तं लाघवं सहकारि वक्ष्यमाणानुमानं न साक्षात्परमाणुसाधकमिति वाच्यम् । दधिद्र्यणुकं ससमवायिकारणं भावकार्यत्वादित्यनु- मानस्य लाघवोपकार्यस्य वक्ष्यमाणानुमानोपकारतया न च लाघवोपकार्यमानाभावः । प्रकृतानुमानस्यैव तादृशस्य सत्त्वादिति ग्रन्थाशयात् । नित्यपार्थिवत्वादिति । पार्थिवपदं का- लादौ व्यभिचारवारणाय दधित्वाधारत्वाभावस्य साध्यत्वात् । नच सोऽप्यभावः कालेऽस्त्येवेति साध्यसत्त्वान्न व्यभिचार इति वाच्यम् । तथासति हेतोः साध्याभावसामानाधिकरण्यात् । नच सोऽभावः प्रतियोगिसमानाधिकरणतया न व्यभिचारप्रयोजक इति वाच्यम् । स्वसत्ताविरोधिप्रति- योगिसत्तासमानाधिकरणस्य प्रतियोगिसमानाधिकरणपदार्थत्वात् । संयोगाभावस्य चैकावच्छेदेन स्वसत्ताविरोधि संयोगसत्तासामानाधिकरण्यादिति दिक् । दधित्वाश्रयेति । तत्त्वेनाभिमतपर- माणावित्यर्थः । प्रतिकूलतर्केणेति । पटवृत्तित्वापादकपूर्वोक्ततर्केणेत्यर्थः । एवं च गौरवमप्यवय- वित्वप्रवेशे प्रामाणिकतया न दोषाय । न वा गन्धवदवयवित्वव्यञ्जकत्वप्रतिवन्दिः । तत्र गौरवस्या- प्रामाणिकत्वात् । किञ्च तत्रावयवित्वप्रवेशे पृथिवीत्वस्य परमाणवभावे गन्धस्याप्यभावः स्यात् । पृथिवीत्वस्यैव तत्समवायिकारणतावच्छेदकत्वात् । तथाच परमाणौ गन्धाभावे तदारब्धपरम्पराया अपि निर्गन्धत्वापत्तिरसमवायिकारणाभावात् । न च रसविशेषसमवायिकारणतावच्छेदकदधित्वा- भावे परमाणौ रसविशेषाभावे तदारब्धपरम्पराया अपि तादृशरसविशेषो न स्यादिति वाच्यम् । पृथिवि- वीत्वस्यैव तादृशरससमवायिकारणतावच्छेदकत्वात् अन्यत्र च न रसविशेषोत्पत्तिः, सहकारिविरहात् । परमाणवपि न सर्वदा तदुत्पत्तिः, अव्यवहितदुग्धध्वंसादिसहकारिविरहात्। सर्वत्र च परमाणौ तादृशरस- \centerline{मकरन्दः ।} ति । न चेति । यद्यपि प्रमाणविषयीभूतविषयस्य लाघवस्य सहकारितया वक्ष्यमाणस्य न लाघ- वोपकार्यत्वं तथाप्युक्तस्य भावकार्यस्य तथात्वम् । तथाच तेनैव तदवयवतायां सिद्धायामेतस्य कथञ्चित्तदुपकार्यत्वम् । एवञ्च लाघवोपकार्योपकार्यमानाभावो न चेति फक्किकार्थ इत्याहुः । नित्येति । एतच्च दध्यवयवनि व्यभिचारवारणाय । काले व्यभिचारवारणाय, पार्थिव- त्वादिति । न च समवायगर्भत्वम् , अन्यथा परम्परासम्बन्धमादाय व्यभिचारापत्तेरिति वा- च्यम् । एवमपि साक्षात्सम्बन्धगर्भस्य निर्दोषत्वात् । दधित्वाश्रयेति । दधित्वाश्रयाभिमतपर- माणावित्यर्थः । अवयवित्वप्रवेशे गौरवादिति भावः । अनुकूलैति । पूर्वोक्तप्रतिकूलतर्केणेत्यर्थः । तथाच गौरबमपि प्रामाणिकमिति भावः । अत एव गन्धवदवयवित्वस्य पृथिवीत्वव्यञ्जकत्वे तद- पि परमाणौ न वर्त्तेतेति प्रतिवन्दिः परास्ता, तत्र गौरवस्य प्रामाणिकत्वाभावात् । किञ्चैवं गन्धस- मवायिकारणतावच्छेदकपृथिवीत्वस्याभावे निर्गन्धत्वापत्तौ तदारब्धकार्यस्य निर्गन्धत्वप्रसङ्गात् । नचैवं दधित्वव्यञ्जकरसविशेषसमवायिकारणतावच्छेदकतया दधित्वं परमाण्वापि, अन्यथा पर- माणौ तद्रसाभावेन तदारब्धदध्द्यपि तदभावापत्तेरिति वाच्यम् । पृथिवीत्वस्यैव तदवच्छेदक- त्वात् । घटादौ सहकारिविरहे तदनुत्पादात् । तदारम्भकपरमाणौ च तदुत्पत्तिरिष्टैव । अत एव तेन कदाचिद् दध्यारम्भोऽपि । अत एव मधुरारम्लरससमवायिकारणतावच्छेदकतया पृथिवीत्व- सिद्धिरुक्ता वर्द्धमानचरणैरिति दिक् ।
७६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां प्रकाशः । कर्षयोर्दध्युत्कर्षापकर्षप्रयोजकत्वानुपपत्तिः । अनुपादानोत्कर्षादेरनुपादेयोत्कर्षाद्यप्रयोजकत्वात् । न चेन्धनोत्कर्षादिना वन्हेस्तथात्वेन व्यभिचारः । यस्योद्भूतरूपस्योत्कर्षार्थं तद्वृत्तिद्रव्यत्वव्या- प्यजातीयं यदुपादीयते, तत् तदुपादानोपादेयमिति व्याप्तेः । इन्धने तु तद्वृत्तिद्रव्यत्वव्याप्य- जातेरभावः । उद्भूतरूपस्येति विशेषणान्नानुद्भूतरूपवह्र्युत्कर्षार्थमुपात्तवह्न्युत्कर्षेण व्यभिचारः । उपादेयता च साक्षात्परम्परासाधारणी विवक्षितेति न घटोत्कर्षार्थोपात्ततन्तूत्कर्षेण व्यभिचारः । प्रकाशिका । विशेषः स्यादित्यत्रेष्टापत्तिरेव, कदाचित् तत्सत्त्वात् । अत एव मधुराम्लादिरससमवायिकारणतावच्छे- दकतया पृथिवीत्वसिद्धिरिति वर्द्धमानचरणाः । एवं च व्यञ्जकासत्त्व उपाधौ साधनव्यापकत्व- मिति भावः । यस्येति अत्रानुद्भूतरूपभर्जनकपालीयवह्न्युत्कर्षार्थमुपादीयमानोद्भूतरूपोत्कृष्टवह्नौ व्य- भिचार इति उद्भूतरूपस्येति विशेषणम् । वह्न्युत्कर्षार्थमुपादीयमाने उत्कृष्टेन्धने सति व्यभिचार इति तद्वृत्तीत्यादि । इन्धनेऽपि वह्निवृत्तिसत्तासत्त्वेन स एव व्यभिचार इति द्रव्यत्वव्याप्येति । वह्नीन्ध- नान्यतरत्वमादाय स एव दोष इति जातिपदम् । व्याप्यत्वञ्च भेदगर्भमतो न द्रव्यत्वमादाय स एव व्यभिचारः। अतितप्ततैलस्थोद्भूतरूपदहनोत्कर्षार्थमुपादीयमाने भर्जनकपालीयोत्कृष्टानुद्भूतरूपवह्नौ सति व्यभिचार इति। उप दीयत इति । उपादानम् = प्रवृत्तिः सा, चाप्रत्यक्षे तस्मिन् न संभवतीति भावः। अत एव घटोत्कर्षार्थके तत्परम्परारम्भकपरमाणौ न व्यभिचारः। न च दुग्धस्य दधिप्रतिबन्धकतया न तदर्थकत्वमिति वाच्यम् । नियमतो यदनन्तरं यद् भवति तस्यैव तदर्थकत्वात् । अत एवोद्भूतरूप- स्येत्यादि विशेषणं सार्थकम् । अन्यथोग्भूतरूपस्यानुद्भूतरूपवह्र्युत्कर्षार्थकतवाभावे तद्वैयर्थ्यात् । यदि चोद्भूतरूपस्यापि तदर्थकत्वं तदानुद्भूतरूपे व्यापकसत्त्वेन व्यभिचारप्रसङ्गात् । घटार्थमुपादीयमाने दण्डस्थले व्यभिचार इति उत्कर्षपदम् । उपादानत्वमुपादेयत्वञ्च साक्षात्परम्परासाधारणमित्याकर एव व्यक्तमतो न दध्युत्कर्षार्थोपात्तस्थूलदुग्धे व्यभिचारः । ननु शरीरोत्कर्षार्थोपात्तोत्कृष्टभक्ष्ये सति व्यभिचारः। अथ तुल्ययुक्तिकतया तत्रापि साध्यसत्वान्न व्यभिचारः, अत एव उपादेयतावच्छेदक धर्मावच्छिन्नस्य तद्वृत्तिद्रव्यत्वव्याप्यजातीयत्वं विवक्षितम् । नच भक्ष्यस्थले तत् उपादेयताव- च्छेदकस्य जलसाधारण्येन तदवच्छिन्ने तज्जातीयत्वाभावादिति मिश्रमतमपास्तम् यथाश्रुत एवा- मकरन्दः । तद्व्यञ्जकत्वादिति । तथाच साधनव्यापकत्वमुपाधेरिति भावः । यस्येति । वह्न्युत्कर्षार्थ- मुपादीयमानेन्धने व्यभिचारादाह । तद्वृत्तीति । सत्तामादाय दोषतादवस्थ्यादाह । द्रव्यत्व- व्याप्येति । व्याप्तिश्च भेदगर्भैति न द्रव्यत्वमादाय दोषतादवस्थ्यमिति भावः । तथाऽपि तैलो- त्थितोद्भूतरूपदहनार्थकेऽनुद्भूतरूपतैलस्थदहने व्यभिचारः । अनुद्भूतानोद्भूतमिति मतेनैवास्य कृतत्वादित्यत आह । उपादीयत इति । उपादानं = प्रवृत्तिः । तस्य चाप्रत्यक्षत्वान्न तद्यो- ग्यतेति न दोषः । अत एव घटायुत्कर्षार्थंके मृदारम्भके परमाण्वादौ न व्यभिचारः । न चैत- न्मते अनुद्भूतरूपस्योद्भूतरूपार्थकत्वाभावादेव न व्यभिचार इति किं तद्वारणार्थं विशेषणोपादा- नेनेति वाच्यम् । नियमतो यदनन्तरं यद्भवति तस्यैव तदर्थकत्वेन विवक्षितत्वात् । तस्य च तत्सहचरितावयवान्तरमादाय तत्रापि सत्त्वात् । अन्यथा दुग्धस्यापि दधिप्रतिबन्धकतया तथा- त्वं न स्यात् । ननु धूमाथोंपादीयमानार्द्रेन्धनोत्कर्षे व्यभिचारः । न चाऽऽर्द्रत्वं जलसम्बन्धो, न तद्विशिष्टे तद्वृत्तिद्रव्यत्वव्याप्यजातिरस्तीति वाच्यम् । एवमपि शरीरोत्कर्षार्थोपादीयमानभक्ष्यो- त्कर्षे व्यभिचारावारणादित्याशङ्क्य उपादेयतावच्छेदकधर्मावच्छेदेन तद्वृत्तिद्रव्यत्वव्याप्यजाति- मत्त्वं विवक्षितम् । न च शरीरोत्कर्षार्थोपादीयमाने उपादेयतावच्छेदकावच्छिन्नं पार्थिवमात्रम्,
प्रथमस्तबके ] सर्वभावकारणतावादखण्डनम् । ७७ प्रकाशः । न च यद्दधि न तद् दुग्धारभ्यमिति स्थूले दर्शनाद्दधिद्व्यणुकं न दुग्धत्वाश्रयपरमाण्वारभ्यमिति वाच्यम् । दधिद्व्यणुकारम्भके परमाणौ दुग्धत्वस्याऽवृत्तेः । सत्तान्यद्रव्यत्वसाक्षाद्व्याप्यजातेरेव प्रकाशिका । व्यभिचारादितिचेन्न । तथापि पात्रोत्कर्षप्रयुक्तपरिमाणोत्कर्षे दध्नि व्यभिचारादिति मैवम् । तज्जन- कमित्यस्योपादीयित इत्यत्र विशेषणत्वात् । नचैवमुक्तविशेषणेनैव दण्डवारणे उत्कर्षपदवैयर्थ्यम्। दण्डा- वयवमादाय व्यभिचारवारकत्वात् । नच पात्रावयवमादाय तथापि व्यभिचार इति वाच्यम् । आधार- त्वेन तस्यापि जनकत्वात् । दृष्टान्तश्चात्रमहापटमुपादाय खण्डपटो द्रष्टव्यः । नचैवमिन्धनमादाय वह्नौ व्यभिचार एव नेति तद्वृत्तीत्यादि व्यर्थमिति वाच्यम् । शरीरोत्कर्षार्थ कजलोत्कर्षस्थले व्यभिचारवारकत्वात् । अग्रिमप्रकाशे च पटोत्कर्षार्थोपात्ततन्तूत्कर्षेणेत्यत्र तन्तुपदमंशुपरमतो न तेन विरोधः । केचित्तु तदुपादानोपादेयत्वं तद्योग्यतामात्रमिति पात्रोपादानोपादेयत्वं दध्नो वर्त्तत एवेति न व्यभिचार इत्याहुः । उत्कर्षपदं च तन्मते सम्पातायातमिति द्रष्टव्यम् । उभयमतेऽपि च उद्भूतस्पर्शस्येति विशेषणम्, तेनालोकोत्कर्षार्थोपात्तदीपोत्कर्षस्थले न व्यभिचारः। नचार्द्रेन्ध- नोत्कर्षे धूमोत्कर्षार्थमुपाते सति व्यभिचार इति वाच्यम् । तत्र हीन्धनमात्रस्य न तदर्थमुपादा- नमपित्वार्द्रेन्धनस्य, आर्द्रता च जलसम्बन्धरूपेति तद्वृत्तीत्यादिपदेनैव वारणात् । मिश्रास्तु यद- र्थं यदुपादीयते तत्तदुपादानोपादेयमित्यत्र वैजात्यं गुणविरोधश्च बाधकमिति विशेषणाभ्यां तदुभ- याभावोपवर्णनं बाधकसामान्याभावपरमिति न कापि व्यभिचार इति वदन्ति । न दुग्धत्वेति । पर- माणुग्रहणं सम्पातायातम्, न चाग्रेतनसिद्धसाधनाभावः द्व्यणुकारम्भकस्य परमाणुतानियमेन तत्स- म्भवादिति मिश्राः । केचित्तु कालं दुग्धत्वाश्रयमादाय बाध इति परमाणुपदमित्याहुः । दधिद्व्य- णुक इति । तथाच प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति भावः । मिश्राणां तुमते परमाणुपदत्यागे सिद्धसाधनमिति भावः । नच यद्दधितन्न दुग्धारम्भकारभ्यमिति व्याप्तिः। अप्रयोजकत्वादिति ध्येयम् । सत्तान्येति । सत्तान्यपरमाणुवृत्तिजातेर्द्रव्यत्वसाक्षाद्व्याप्यत्वनियमादित्यर्थः । नन्वेवं मकरन्दः । जलस्यापि तथाभावेनौदर्यानलादाह्यमात्रस्य रसवन्मात्रस्य तथाभावादिति समादधुः । तच्चि- न्त्यम् । तत्र पक्षसमत्वेन व्यभिचाराभावात्तद्विवक्षाया वैयर्थ्यात् । आहारपरिणतिभेदेन शरीरभेदा- भ्युपगमाच्च । किञ्चैवमपि घटोत्कर्षार्थोपादीयमानदण्डोत्कर्षेण व्यभिचारः । यदि च योग्यता- विवक्षायां दण्डारम्भकपरमाणुना कदाचिद्घटारम्भात् साध्यसत्त्वे न व्यभिचारः, तदा भक्ष्यारम्भ- कपरमाणुनापि शरीरारम्भावरोधः । अपि चालोकोत्कर्षार्थोपादीयमानोत्कृष्टप्रदीपादौ व्यभिचारः । तस्मादुद्भूतस्पर्शस्येत्यपि विशेषणं देयम् । यद्यपि योग्यताविवक्षायां दण्डघटवत् कदाचित् द- ध्नोऽपि दुग्धोपादानोपादेयत्वे विवक्षितसाध्यस्य फलोपधानगर्भस्य न सिद्धिः । तदविवक्षायां घ- टोत्कर्षार्थकदण्डोत्कर्षेण व्यभिचार एव । तथापि परिमाणोत्कर्षनिबन्धन एवोत्कर्षो विवक्षितः । घटे च स न दण्डोत्कर्षनिबन्धनः, किन्त्ववयवोत्कर्षनिबन्धन एवेत्येके । एतदनुशयादेव यदुद्भू- त्थेत्यादिकमित्यन्ये । यदर्थं यदुपादीयते तत्तदुपादानोपादेयमित्यत्र वैजात्यं गुणविरोधश्च बाधक- मिति प्रकृते तदुभयाभावोपवर्णनम् । उपलक्षणतया च बाधकाभावे सतीत्यत्र तात्पर्यमिति न व्य- भिचारशङ्केत्यप्याहुः । न दुग्धत्वेति । दुग्धत्वाश्रयस्य कालस्य जनकत्वाद् बाध इत्यत उक्तं, परमाण्विति । एतेन, परमाणुग्रहणं स्वरूपकथनाय । न चाग्रेतनसिद्धसाधनासम्भवः, द्व्यणुकारम्भकस्य परमा- णुत्वनियमेन तत्सम्भवादित्यपास्तम् । दधिद्व्यणुकेति । तथाच प्रतियोग्यप्रसिद्ध्या साध्याऽ
७८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां प्रकाशः। परमाणौ वृत्तेः, द्रव्यत्वस्यापि द्रव्यत्वसाक्षाद्व्याप्यजातित्वात्। तद्भिन्नतद्व्याप्याव्याप्यत्वे सति तद्व्या- प्यत्वस्यैव साक्षाद्व्याप्यत्वरूपत्वात्। नचान्ये परमाणवस्तत्रादृष्टाकृष्टा दध्यारम्भकाः। तदुत्कर्षा- द्यनुविधानानुपपत्तेरुक्तत्वात्। दध्यर्थं दुग्धोपादानानुपपत्तेश्च। अपि च, यद्द्रव्यध्वंसजन्यं यद् द्रव्यं प्रकाशिका। द्रव्यत्वमेव परमाणौ न वर्त्तत इत्यत आह—द्रव्यत्वस्यापीति। तद्भ भिन्नेति। घटत्व- स्यापि द्रव्यत्वसाक्षाद्व्याप्यत्वं मा भूदिति सत्यन्तम्। तस्य तद्व्याप्यजात्यव्याप्यत्वमर्थः, अन्यथो- पाधिमादायासम्भवापत्तेः। तत्रापि पृथिवीत्वं द्रव्यत्वं च द्रव्यत्वव्याप्यमादायासम्भव इति तद्भि- न्नपदं तच्छब्दश्च व्याप्यव्यापकत्वाभिमतोभयपरामर्शकः, सत्ताया द्रव्यत्वसाक्षाद्व्याप्यत्वं मा भूदिति तद्व्याप्यत्वं विशेषणम्। नन्वेवमात्मत्वादौ जात्यन्तरव्यापकेऽव्याप्तिः, तद्भिन्नतद्व्याप्यजात्यप्रसि- द्धेरिति। अत्र केचित् द्रव्यत्वसाक्षाद्व्याप्यस्यैवात्र लक्ष्यतया उक्तव्याप्तेरदोषत्वमिति। वस्तुतो व्याप्यपदस्या व्यापकपरतया तदव्यापकजात्यव्याप्यत्वं सत्यन्तार्थ इति व्यधिकरणजातिमादायैव प्रसिद्धिः। अत्रार्थे तत्पदं साक्षाद्व्याप्यत्वाभिमतपरम्। अन्यच्च व्यापकत्वाभिमतपरम्। मिश्रा- स्तु खण्डशः प्रसिद्ध्यौ तद्व्याप्यजातित्वाभावात्तदुभयभिन्नयावत्स्वव्यापकधर्मकत्वमुक्तलक्षणा- र्थः। अत्र चायं तत्पदं व्यापकत्वाभिमतपरम्। तदुभयपदं व्याप्यव्यापकत्वाभिमतपरम् स्व- पदं च व्याप्यत्वाभिमतपरम्। एवं च स्वव्यापकमुपाधिमादाय चरमजातौ प्रसिद्धिरिति वद- न्ति। वयं तु तद्भिनेत्यत्र तत्पदं व्यापकत्वाभिमतपरं व्याप्यपदं प्रथमं तत्समानाधिकरणा- त्यन्ताभावप्रतियोगिपरं द्वितीयव्याप्यपदन्तु न्यूनवृत्तिपरम्। एवं च द्रव्यत्वभिन्नद्रव्यत्वसमा- नाधिकरणात्यन्ताभावप्रतियोगिपृथिवीत्वादिन्यूनवृत्तित्वाभावः पृथिवीत्वे। घटत्वभिन्नघटत्वसमाना- धिकरणात्यन्ताभावप्रतियोगिगुणत्वन्यूनवृत्तित्वाभावो घटत्वे चरमजातौ, साधारणतदधिकरणवृ- त्तित्वे सति यत्किञ्चित्तदधिकरणावृत्तेर्न्यूनवृत्तिपदार्थत्वादिति ब्रूमः। उत्कर्षाद्यानुविधानं दध्य- र्थं दुग्धोपादानं च निमित्तकारणत्वेऽप्युपपद्यत इत्यरुचेराह। यद्द्रव्येति। अत्रापि विपक्षे बाध- मकरन्दः। प्रसिद्धिरिति भावः। सिद्धसाधनमिति भाव इत्यन्ये। तर्हि द्रव्यत्वमपि तत्र न वर्त्तेतत्यत आह- द्रव्यत्वस्यापीति। तद्भिन्नति। तद्व्याप्यत्वमात्रं परम्परा व्याप्येऽतिव्याप्तमित्यत उक्तं सत्य- न्तम्। तथापि तद्व्याप्याऽव्याप्यत्वमसम्भवि, पृथिवीत्वादेर्द्रव्यत्वादिव्याप्यीभूतद्रव्यत्वादिव्याप्य- त्वात्, द्रव्यत्वादिव्याप्यीभूतपृथिवीत्वादिव्याप्यत्वाच्च। अभेदेऽपि व्याप्तिसत्त्वादित्यत उक्तं, तद्भिन्नति। साक्षाद्व्याप्यव्यापकाभिमतोभयभिन्नेत्यर्थः। सत्तादेरपि द्रव्यत्वादिसाक्षाद्व्याप्यत्वा- पत्तिरिति चरमं तद्व्याप्यत्वमुक्तम्। न च तदुभयभिन्नद्रव्यत्वादिव्याप्यगुणवत्त्वादिव्याप्यतया पृ- थिवीत्वादावसम्भव इति वाच्यम्। तद्भिन्नतद्व्याप्यजात्यव्याप्यत्वे सतीत्यर्थात्। नन्वेवं चरम- जातेः स्वसाक्षाद्व्याप्यत्वं न स्यात्, स्वभिन्नस्वव्याप्यजात्यप्रसिद्धेः। न च स्वस्य स्वसाक्षाद्व्या- प्यत्वं न विवक्षितमिति वाच्यम्, द्रव्यत्वस्यापि स्वसाक्षाद्व्याप्यत्वमित्युपक्रमविरोधादिति चेत्। मैवम्। द्रव्यत्वसाक्षाद्व्याप्यत्वमात्रस्यैव प्रकृतत्वेन लक्ष्यत्वादित्याहुः। वस्तुतस्तु, तद्भिन्नतद- व्यापकजात्यव्याप्यत्वे सति तद्व्याप्यत्वं विवक्षितम्। तत्पदं साक्षाद्व्याप्यत्वाभिमतमात्रपरम्। अन्यच्च व्यापकत्वाभिमतपरमित्यवधेयम्। यद्द्रव्येति। घटध्वंसजन्ये घटरूपादिव्वंसे व्यभिचारादाह चरमद्रव्यपदम्। यद्द्रव्याभा- वजन्यमिति कृते प्रतिबन्धकद्रव्यात्यन्ताभावजन्ये द्रव्ये व्यभिचारः स्यादिति ध्वंसपर्यन्तमुपा- त्तम्। न च तद्द्वंसस्यापि जनकत्वाद् दोषतावदवस्थ्यम्। ध्वंसत्वेन जनकत्वस्याग्रे विवक्षणात्।
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ७६ प्रकाशः । भवति तत्तदुपादानोपादेयं यथा महापटध्वंसजन्यः खण्डपट इति नियमाद् दुग्धध्वंसजन्यं दधि दुग्धोपादानोपादेयम् । न च प्रतिबन्धकद्रव्यध्वंसजन्यद्रव्येण व्यभिचारः । ध्वंसत्वेन कारणत्वस्य विवक्षितत्वात् । प्रतिबन्धकाभावस्य च संसर्गाभावत्वेन हेतुत्वात् । न च स्थूलदुग्धध्वंसजन्यं दधि न तदवयवजन्यमिति व्यभिचारः । परमाणवश्च न तदवयव इति वाच्यम् । साक्षात्परम्परा- साधारणोपादानोपादेयत्वस्य विवक्षितत्वात् ॥ प्रकाशिका कसुपादानान्तरकल्पनागौरवमेवावसेयम् । कपालध्वंसजन्ये घटध्वंसे व्यभिचार इति चरमद्र- व्यपदम् प्रतिबन्धकाभावजन्ये द्रव्ये व्यभिचार इति ध्वंसपर्यन्तमुपात्तम् । न च प्रतिबन्ध- कध्वंसस्यापि जनकत्वतया तद्दोषतादवस्थ्यमिति वाच्यम् । ध्वंसत्वेन जनकत्वस्याग्रे विवक्षणात् । न च महापटस्य प्रतिबन्धकतया वत्संसर्गाभावत्वेनैव हेतुतेति दृष्टान्तासिद्धिरिति वाच्यम् । तदत्यन्ताभावस्याजनकत्वतया तत्तत्संसर्गाभावत्वेनाहेतुत्वात् । अन्यथा नित्यस्य स्वरूपयोग्यस्या- त्यन्ताभावस्य कदाचित् फलोपधानापत्तेः । न चैवं प्रथमखण्डपटोत्पत्तिर्न स्यादिति वाच्यम् । इष्टत्वात् । पटप्रतीतेस्तत्र तथाविधसंस्थानयोगितयाप्युपपत्तेः । वस्तुतः समानाधिकरणपट- नाशसमानकालीनपटत्वावच्छिन्नं प्रति समानाधिकरणपटनाशत्वेन कारणतेति दृढतरवेमाभि- घातजन्यद्वितन्तुकादिनाश एव त्रितन्तुकादिपटं प्रति कारणमिति सन्नपि महापटप्राग्भावस्त्व- न्यथासिद्धः । नचैवं महापटेऽपि पटध्वंसजन्यतया खण्डपटव्यवहारापत्तिः । जनकीभूतध्वं- सप्रतियोगिन्यूनसमवायिकारणकस्यैवावस्थितसंयोगजन्यस्य खण्डपटपदार्थत्वात् । एवं च यदि द्वितन्तुकादौ खण्डपटव्यवहारस्तदा गौणो द्रष्टव्यः । द्रव्यप्रकाशे च महापटसंसर्गाभावत्वेन कारण- त्वाभिधानमेकदेशिमताभिप्रायेण । प्रथमद्रव्यपदं तु कामिनीचरणसंयोगध्वंसजन्याशोकपुष्पे व्य- भिचारवारणाय । यत्तु मिथ्याज्ञानध्वंसजन्यकायव्यूहे व्यभिचारवारणाय प्रथमं द्रव्यपदमिति तच्चि- न्त्यम् । तत्त्वज्ञानस्यैव प्राथमिकतया भावरूपतया च कायव्यूहकारणत्वात् । केचित्तु निष्कासितत- न्तुसंयोगध्वंसजन्ये खण्डपटे तन्तुसंयोगोपादानानुपादेये व्यभिचारवारणाय द्रव्यपदमिति । तद- पि तुच्छम् । संयोगध्वंसस्य महापटध्वंसमात्रजनकत्वतया खण्डपटं प्रत्यन्यथासिद्धिः । अन्यथा तन्तुना- मकरन्दः । नचैवं दृष्टान्तासिद्धिः, महापटस्य प्रतिबन्धकतया तदभावस्य संसर्गाभावत्वेनैव हेतुत्वादिति वा- च्यम् । महापटं विनाऽपि खण्डपटोत्पादापत्तेः । अत्यन्ताभावस्य नित्यस्य स्वरूपयोग्यस्य सह- कार्यवश्यम्भावापत्तेश्च । नचैवं तत्प्राग्भावस्याहेतुत्वे महापटोत्पत्तेः प्राक् खण्डपटो न स्यादिति तन्तुमात्रमुपलभ्येतेति वाच्यम् । इष्टापत्तेः । तथाविधसंस्थानयोगितया पटव्यपदेशः । यद्वा, द्वितन्तुकादिमहापटध्वंसजन्य एव त्रितन्तुकादिः पटो जायते । मूर्त्तानां समानदेशताविरोधेन वे- मायभिघाताद् द्वितन्तुकादिनाशे त्रितन्तुकाद्युत्पादाम्युपगमात् । तत्र च सर्वतन्तुकमहापटप्राग्- भावः सन्नप्यन्यथासिद्ध एव । एवञ्च त्रितन्तुकादौ पटध्वंसजन्यपटत्वेन खण्डपटत्वं, पटजनक- ध्वंसप्रतियोगिपटत्वेन महापटत्वञ्च न विरुद्धम् । द्वितन्तुके च यदि खण्डपटव्यपदेशः, तदाऽ त्रिमापेक्षया परिमाणाऽपकर्षनिबन्धनो गौणः । वस्तुतः प्रथमपटन्यूनसमवायिकारणक एव खण्ड- पट इति त्रितन्तुकादीनामपि महापटत्वमेवेति तत्रापि गौण एव तद्व्यपदेश इति । द्रव्यप्रकाशे च संसर्गाभावत्वेन तस्य कारणत्वाभिधानं मतान्तरेणेति मन्तव्यम् । आद्यद्रव्यपदं किमर्थमित्यव- शिष्यते । तत्र ब्रूमः । तत्त्वसाक्षात्कारजन्यमिथ्याज्ञानध्वंसस्य ध्वंसत्वेन कायव्यूहं प्रति जनक- तया व्यभिचारवारणाय तदिति । यत्तु प्रयागमरणस्य संयोगध्वंसात्मकस्य स्वगहेतुत्वश्रुतेः स्व- र्गिशरीरजनकत्वतया तत्र व्यभिचारवारणाय तदिति । तन्न । अदृष्टाद्वारकत्वस्य साक्षाज्जनकत्वस्य
८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां प्रकाशः । रत्नकोषकृतस्तु, रसविशेषवृत्तिरेव दुग्धत्वादिजातिः । द्रव्यवृत्तित्वेऽपि तद्व्यञ्जकस्य रसस्या- वश्यकत्वात् । द्रव्यत्वादिसामानधिकरण्यबुद्धिश्च परम्परासम्बन्धात् । तथाच दुग्धारम्भका एवा- वयवाः पाकजरसविशेषशालिनो दध्यारम्भका इति न विरोध इत्याहुः ॥ प्रकाशिका शस्यापि कद(चिन्महापटध्वंसद्वारा खण्डपटजनकत्या द्रव्यपदोपादानेऽपि व्यभिचारतादवस्थ्यात् यत्त मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिजनकत्वं समाप्तिश्च चरमसमुदायिरूपा एवं च मङ्गलजन्या- यां द्रव्यसमाप्तौ व्यभिचारो विघ्नध्वंसस्य तज्जनकत्वादिति व्यपदमिति तत्तच्छम् । विघ्नध्वंस- स्य मङ्गलजन्यत्वेऽपि समाप्तिजनकतायां संसर्गाभावत्वस्यैव प्रयोजकत्वात् । अन्यथा कदाचिद्वि- ध्वंस्य द्रव्यरूपत्वेन द्रव्यपदे दत्तेऽपि व्यभिचारतादवस्थ्यात् । यत्तु प्रलयजनकादृष्टध्वंसस्य सर्ग- जनकत्या व्यभिचार इति द्रव्यपदमिति । तदपि तुच्छम् । प्रलयात्मककालोपाधिसंसर्गाभावमा- त्रस्यैव सर्गजनकत्वात् । मिश्रास्तु दण्डप्रागभावध्वंसात्मकदण्डजन्ये घटे व्यभिचार इति द्रव्य- पदम् । न च तस्य ध्वंसत्वेन न कारणता उत्तरग्रन्थविरोधः ध्वंसत्वनियतकारणताकत्वस्योत्तरग्र- न्थार्थत्वात् । अन्यथा दृष्टान्तासङ्गतैः, न हि महापटध्वंसस्य ध्वंसत्वेन कारणत्वं तथाहि खण्डपटं प्रति समानाधिकरणपटध्वंसत्वेन कारणत्वम् यावत् तादृशपटध्वंसत्वेन वा पूर्वोत्पन्नयावत्तादृश- पटध्वंसत्वेन वा, आद्ये द्वितीयखण्डपटोत्पत्त्यनन्तरं तत्काले वा तृतीयखण्डपटोत्पत्तिः कालवि- लम्ब्रेन तु विलम्बे ध्वंसस्याहेतुत्वमेव कुतो ध्वंसत्वेन हेतुत्वशङ्का । द्वितीये द्वितीयखण्डपटोत्पत्तिर्न स्यात् । तृतीयखण्डपटध्वंसस्याभावात् । तृतीये संसर्गाभावत्वमेव जनकतावच्छेदकं, वारणीययोर- त्यन्ताभावप्रागभावयोः समानाधिकरणपूर्वोत्पन्नपदाभ्यामेव वारणात । यदि च ध्वंसत्वसंसर्गाभा- वत्वयोर्विशिष्टयोसमनियतत्वे शरीरतौल्ये च संसर्गाभावत्वेन जनकत्वे मानाभावः । तथापि मास्तु दृष्टान्तासङ्गतिः । तथा विवक्षाबीजं द्रव्यपदसार्थकत्वायैव तथाविवक्षास्ति । नच दण्डप्रागभावो- पादानाप्रसिद्ध्या व्यभिचाराप्रसिद्धेः कथं द्रव्यपदस्य तद्वारकतो । नियतसामानाधिकरण्यरूपव्याप्त्या- प्तेरप्रसिद्ध्या प्रहासम्भवेन व्याप्तिग्रहोपयिकत्वाद्विशेषणस्य समानोपादानकत्वस्य व्यापकस्यान्यत्र मकरन्दः । वावश्यं वाच्यतया तत एव तदुद्धारात् । अन्यथा ब्राह्मणशरीरशालग्रामध्वंसादेर्धर्मद्वारा नारकि- शरीरजनकत्या व्यभिचारतादवस्थ्यापत्तेः । अन्ये तु प्रागभावध्वंसात्मककपालजन्यघटे व्यभि- चारवारणाय तदुपादानम् । न च ध्वंसत्वेन जनकत्वविवक्षयैव तद्वारणमिति वाच्यम् । ध्वंसत्वे- नेत्यस्य ध्वंसत्वनियताया जनकत्ताया विवक्षितत्वादित्यर्थात्, तावतैव प्रतिबन्धकाभावजन्ये व्य- भिचारस्य निरासात् । यद्यपि प्रागभावोपादानाप्रसिद्ध्या व्यभिचारोऽपि तत्राप्रसिद्ध इति कथं तद्वारणाय तत्,, तथापि नियतसामानाधिकरण्यरूपव्याप्तिग्रहोपयिकतया सार्थकत्वम् । यद्वा, य- द्द्रव्यध्वंसजन्यं यद्द्रव्यं तदुभयमेकोपादानकमित्यत्र तात्पर्यम् । एकोपादानकत्वञ्चान्यत्र प्रसि- द्धमिति तत्र व्यभिचारप्रसिद्धिरिति वदन्ति । यत्तु, अवयवसंयोगध्वंसजन्यखण्डपटे व्यभिचारवा- रणाय द्रव्यपदम् । न च तत्र साध्यमस्त्येवेति वाच्यम् । तत्संयोगाश्रयतन्तूनामपि नाशे तद्द्वि- ष्ठमात्रसमवेतखण्डपटे तथापि व्यभिचारादिति । ततुच्छम् । तस्य महापटध्वंसोपक्षीणत्वेन ख- ण्डपटं प्रत्यहेतुत्वात् । अन्यथा तन्तुनाशजन्यखण्डपटमादाय दोषतादवस्थ्यापत्तेः । एतेन ज- न्यत्वेन प्रयोज्यत्वमात्रं विवक्षितमित्यपास्तम् । तथाचेति । दुग्धरूपरसविशेषारम्भका एवावयवाः पाकजरसविशेषशालिनो यतोऽत एव दध्यारम्भकाः । तस्य रसविशेषात्मकत्वादित्यर्थः । यद्वा; दुग्धादिपदं द्रव्यपरमेव । दुग्धत्वादेः परम्परासम्बन्धेन द्रव्यवृत्तित्वाभ्युपगमादिति । न विरोध इति । नैकोपादानकत्वविरोधः । रस-
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८१ एतेनाऽपोहवादे नियमो निरस्तः । (१) कार्यकारणभावाद्वा इत्यादिविप्लव- बोधनी एतेन-इति तृणान्यन्यापोहात्मनैकजातीयानामेव तृणादीनामग्न्यन्यापोहात्मना एकजातीयं कार्यं प्रति कारणत्वमिति जात्यपेक्षयैव नियम इति बौद्धादयः, तान् प्रत्याह-एतेन-इति । कार्या- दिना कारणादीनामनुमानप्रसङ्गेनापोहजात्यपेक्षयापि कार्यकारणभावो निरस्त इति । तमेव प्रसङ्गं स्मारयति=कार्य-इति । तृणादित्रयमात्रानुगतात्यनिनिवृत्तेरभावात् प्रत्येकमन्यनिवृत्तेर्व्यभिचाराद- न्यमात्रनिवृत्तेश्च तृणादिष्वप्यभावात् कार्यकारणयोरविनाभावो न सिध्येत्, तदसिद्धौ च स्वभाव- नियमोऽपि न सिध्यतीति । यद्वा, एतेन-विजातीयेभ्योऽप्येकजातीयकार्यदर्शनेन । अपोहवादेऽपि कार्यकारणभावनियमो निरस्तः । तृणायनुगतायास्तदितरनिवृत्तेरनुपलम्भात् तस्याः सूक्ष्मायाः शक्तेर्वाभ्युपगमेन नियमाङ्गीकारे कार्यकारणयोः स्वभावतद्वतोश्थाविनाभावस्य दुर्गहत्वेनासिद्धेरिति । तस्मान्नियतजातिशक्तियोंवृत्तीनामभावात् कार्यजातिनियति प्रति नियतजातीयस्वभावेन कारणेन प्रकाशः । तृणादेरग्निं प्रति तृणान्यन्यान्त्यत्वेन कारणत्वं गृह्यते, इति न व्यभिचार इति व्यावृत्तिपदार्थ- वादिना यत् समाहितं, तत्राप्यनुमानभङ्ग इत्यतिदिशति । एतेनेति । नियमः = अविनाभावः । वह्निं विना तदन्यस्मादपि धूमसम्भवेन ततो वह्न्य- नुमानाभावापातात्, तृणादिवत्तद्व्यावृत्त्या तत्रापि कारणत्वग्रहसम्भवादित्यर्थः । कार्यकारणभा- प्रकाशिका । प्रसिद्धस्य प्रकृतेऽभावेन व्यभिचारस्यापि प्रसिद्धेश्चेति । अत्र च सर्वत्र कल्पेऽदृष्टाद्वारकत्वं विशे- षणम् । अन्यथा शालिग्रामशिलाध्वंसजन्यनारकिशरीरे व्यभिचारात् । अत एव गङ्गामरणजन्य- स्वर्गिशरीरे व्यभिचारवारणाय द्रव्यपदं मरणस्य संयोगध्वंसरूपत्वादिति परास्तम् । आवश्यकौ- दृष्टाद्वारकत्वविशेषणेनैव तद्वारणदिति । तथा चेति । दुग्धतामकरसविशेषारम्भका एवावयवाः पाकजसविशेषशालिनो यतोऽत एव दध्यारम्भका इत्युच्यन्ते । दध्नो रसविशेषात्मकत्वादित्यर्थः । यद्वा दधिदुग्धपदाभ्यामत्र रसविशेषाश्रयद्रव्यमेवोक्तम् । दधित्त्वदुग्धत्वयोरपि परम्परासम्बन्धेन द्रव्ये वृत्तेः । यद्यपि प्रकृतासम्बद्धमिदम् । द्रव्ययोरेकोपादानकत्वे साजात्यनियम इत्यत्र दधिदुग्धयो- र्व्यभिचार इति हि प्रकृतम् । तस्य चासङ्गतिरेव दधिदुग्धयो रसात्मकत्वे । तथापि दधिदुग्धाश्रय- रुपद्रव्ययोर्विजातीययोरेकोपादानत्वमेव तन्मतेऽपीति भवति प्रकृतसङ्गतिः । केचित्तु मूलाक्षेपपरमे- वैतन्मतं दधिदुग्धयो रसात्मकत्वे मूलोक्तव्यभिचारोद्धारादिति । तन्न । तदाश्रयद्रव्ययोस्तथापरत्वेऽ- पि व्यभिचारेणाक्षेपतात्पर्यकल्पनाभावात् । अत्राहुरित्यरुचौ । तद्बीजन्तु महद्दधि शुक्लरूपवद्द- धीत्यादिप्रतीतौ परम्परासम्बन्धविषयत्वे गौरवमेव । अन्यथा पृथिवीत्वादेरपि गन्धादिवृत्तित्वा- पत्तिः । व्यञ्जकत्वयुक्तस्तेस्तुल्यत्वादिति । अपोहवादे विषवे नियम इत्यन्वये कदाचिदपोहस्वीकारः स्यादत आह । नियमोऽविनाभावः, वह्निधूमयोरिति शेषः । अपोहवाद इति च सति सप्तमीति भावः । तृणादिवदिति । यद्यपि कार्यवैजात्यपक्षेऽपि न धूमसामान्याद् दहनसिद्धिरिति । धूम- मकरन्दः । विशेषात्मकयोर्दधिदुग्धयोरेकत्र प्रमाणसिद्धत्वादित्यर्थः । अनभिमतिवीजञ्चात्र द्रव्यत्वादिसामान्या- धिकरण्यबुद्धेः साक्षात्सम्बन्धविषयत्वे बाधकाभावान्न परम्परासम्बन्धविषयत्वम् । अन्यथा पृथिव्यादि- त्वादेरप्यभिव्यञ्जकगन्धादिवृत्तित्वापत्तेरिति । ( १ ) कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न तु दर्शनात् ॥ इति । ११ न्या० कु०
८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां प्रसङ्गात्। तस्मान्नियतजातीयतास्वभावभङ्गेन व्यक्त्यपेक्षयैव नियम इति। न। फूत्कारेण तृणादेरेव, निर्मन्थेनारणेरेव, प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रका- बोधनी। भवितव्यमिति नियमस्य भङ्गात् कार्यस्य यया कयाचिद् व्यक्त्या भवितव्यमित्येव नियमः स्या- दित्युपसंहरति—तस्मात्-इति। सिद्धान्त्याह—नेति। एवशब्दो भिन्नक्रमः, तृणादेः फूत्कारेणैवेत्यादि योजनीयः। प्रकारनियमः = सहकारिनियमः। फूत्कारादिस्तृणादीनां नि- प्रकाशः। वासिद्धौ स्वभावनियमोऽपि दुरवगमः। कार्यानुपलब्धिप्रसङ्गरूपविपक्षबाधकसाध्यत्वात्तस्येति भा- वः। तदेवं गत्यन्तराभावाद् व्यक्तीनामेव कारणत्वमित्युपसंहरति। तस्मादिति। वह्न्यवान्त- रजातीये तृणादीनां प्रत्येकं कारणत्वस्वीकारादेव सर्वं समञ्जसमित्याह। फूत्कारेणेति। प्रका- रनियमः = सहकारिनियमः। वह्न्यनुकूलशक्तिमत्त्वेन कारणत्वे मणिफूत्कारादिस्तोमादपि कार्या- प्रकाशिका। विशेषस्यैव वह्निजन्यत्वमिति शङ्कायाः सम्भवात्। यदि चोपस्थितरूपस्यावच्छेदकत्वे बाधके सत्येव कल्पनीयजातेः कार्यतावच्छेदकत्वमिति न तत्र शङ्का तर्हि कारणतावच्छेदकत्वमपि तत्रैवान्या- न्यत्वस्य यत्रोपस्थितरूपस्यावच्छेदकत्वे बाधकमिति तुल्यम्। एवञ्च शक्तिवैजात्यान्यतरकल्पनाव- सरे तयोरक्लृप्तत्वादन्यान्यत्वस्य च क्लृप्तत्वात्तदेवावच्छेदकं कारणतायामिति। तथापि तन्मते सहकारिनियमानुपपत्तिरेव बाधिका शक्तिपक्षवत्। अत एवं मूलं प्रकारनियमवदिति। यद्यपि फूत्कारतृणसंयोगादीनामन्यान्यत्वेन जनकत्वपक्षे नैतद् दूषणम्। नचैवं तृणादेरकारणत्वम्। संयोग- विशिष्टस्यैव तृणादेः कारणत्वात्। अन्यथा तृणत्वेन कारणत्वस्वीकारेऽपि अनतिप्रसङ्गाय संयोगकारण- त्वे वाच्ये तृणाद्यकारणतापत्तेस्तुल्यत्वात् कारणतावच्छेदकन्तु तृणादावन्यान्यत्वमेव। नचैवं जन्य- ज्ञानत्वावच्छिन्नं इन्द्रियसन्निकर्षादीनामन्यान्यत्वेन जनकत्वे एकप्रमाणपरिशेषापत्तिः। तत्र ज्ञाने वैजात्यस्यानुभवसाक्षिकतया तन्नियामकत्वेनासाधारणधर्मस्य कारणतावच्छेदकत्वात् जन्यज्ञानत्व- स्य कार्यतावच्छेदकत्वे मानाभावात्। तत् सत्त्वेपि तदवच्छिन्नेऽन्यान्यत्वेन जनकत्वे विशेषमादा- यैव प्रमाणानां भेदात्। एवं च यत्र कार्ये न वैजात्यमनुभूयते कारणानामननुगमश्च तत्रैवान्या- मकरन्दः। तदेवमिति। नन्वेवं तवापि वह्निप्रयोज्यवैजात्यशङ्कया न धूमसामान्यमग्निं गमयेत्। यदि चोपस्थितधूमत्वावच्छेदेन व्यभिचाराग्रहात्तेनैव रूपेण कार्यत्वग्रहः, तदा यत्रोपस्थितरूपे व्यभि- चारस्तत्रैव रूपान्तरेण कारणत्वकल्पनमतो न रासभमेन्तर्भाव्य तत्कल्पनम्। किञ्च, शक्तिवैजा- त्ययोरन्यतरकल्पनावसरे तयोः कल्पनीयतया लाघवेन क्लृप्तान्यान्यत्वस्यैवावच्छेदकत्वकल्पना- दिति। तत्र ब्रूमः। वैजात्यस्यापि प्रमाणान्तरसिद्धतया तत्राप्यवच्छेदकत्वकल्पनेव। अन्यथा सहकारिनियमानुपपत्तेः। तदिदमुक्तं मूले, तेनैव व्यज्यमानस्येति। न च सामग्रीत्रयकल्पने गौरवं, तस्यावश्यकत्वात्। अन्यथा सहकारिनियमानुपपत्तिरेव। स हि कार्यतावच्छेदकभेदेन फ- लविरोधे सत्येव स्यात्। अन्यथा प्रत्यक्षादिप्रमाणानामपि जन्यज्ञानत्वावच्छिन्ने तदन्यान्यत्वेन हेतुतापत्तेः। यदि च सहकारिनियमानुपपत्त्या सामग्रीभेद-फलवैजात्यावश्यकत्वे गौरवान्न तथा, तदा प्रकृतेऽपि तुल्यं, तत्तत्सहकारिसम्बन्धानामपि तदन्यान्यत्वेन हेतुत्वान्नियमोपपत्तेरित्यपि तुल्यम्। यद्विशेषयोः कार्यकारणभावग्रह इत्यादिकमपि तुल्यम्। तेन रूपेणान्वयव्यतिरेकग्रहश्च तथेति च तुल्यम्। अपि चैवं भौमत्वस्यापि विशेषतया गुरुत्वेन वह्नित्वसामान्यावच्छिन्ने औद- र्यादिवह्निकारणमप्यन्तर्भाव्य तदन्यान्यत्वेन हेतुत्वापत्तिः। किञ्चैवं, जन्यतावच्छेदकमपि तत्
प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ८३ रानियमवत्तेनैव व्यज्यमानस्य कार्य्यजातिभेदस्य भावात् । दृश्यते च पावकत्वा- विशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालज- टिलोऽपि दारुदहनो, न तराञ्च कारीषः ॥ बोधनी । गमाश्रितयतसामग्रीव्यङ्ग्याया जातेर्भेदोऽस्ति । नहि सामग्री भिद्यते न भिद्यते च कार्यमिति सम्भ- वति । तथा च प्रयोगः—तार्णाद्यग्नयोऽग्नित्वावान्तरजातिभेदवन्तः विलक्षणसामग्रीजन्यत्वात् तैलवर्त्त्या विलक्षणसामग्रीकप्रदीपादिवदिति । न च साध्यविकलो दृष्टान्त इत्याह-दृश्यते-च- इति । प्रदीपादौ कार्यभेददर्शनादवान्तरजातिभेदोऽवश्याभ्युपगन्तव्य इति । प्रकाशः । पत्तेरित्यर्थः । न चानुपलब्धिबाधितं वैजात्यमित्याह । तेनेति । विवादपदमग्नयो वह्नित्वव्या- प्यजातिमन्तः नियतसहकार्य्यनुप्रवेशेन जायमानवह्नित्वात् प्रदीपदारुदहनवदिति कारणविशेषस- म्बन्धव्यङ्ग्यत्वान्न जातीनामित्यर्थः । न च दृष्टान्तः साध्यविकल इत्याह । दृश्यते चेति । तत्र तैलादिकारणविशेषव्यङ्ग्यत्वं यथा जातीनां, तथाऽत्रापीति नादृष्टचरकल्पनमित्यर्थः । यद्यपि दुरु- हत्वान्नौष विशेष आपाततः स्फुरति, तथापि विशेषानाकलनेऽपि तदनुकूलकारणमात्रमनुमीयते, प्रकाशिका न्यत्वमवच्छेदकं न तु सर्वत्रेति न दण्डवेमादीनां घटपटान्यन्यतरत्वावच्छिन्नकारणत्वशङ्का न तु वह्नौ तृणादिजन्ये वैजात्यमनुभूयत इति । तथाप्येवं मणेरपि तृणफूत्कारविशेषसंयोगसहकारित्वे तरणिकिरणसमवहितमणेरपि रात्रौ वह्न्यर्थिप्रवृत्तिविषयतापत्तिः । न च तरणिकिरणसम्बद्धमणेरेवं जनकत्वं सम्बद्धानां तृणादीनां च स्वस्वनिष्ठान्यान्यत्वेन जनकत्वे भवदुक्तनियमस्यैवानुपपत्तेः । न च सम्बन्धमात्रमेव कारणं न तु मण्यादीति वाच्यम् । उपजीव्यबाधात् । अन्वयव्यतिरेकगृहीततृ- णादिकारणतारक्षार्थमेव कारणप्रत्यासत्तितया सम्बन्धानां कारणत्वस्वीकारादिति । मिश्रास्तु अन्या- न्यत्वं न कारणतावच्छेदकम् तथासति तृणान्यन्यस्य वह्न्यवयवादेरकारणतापत्तेः, भावाभावयोरे- कत्राप्रयोजकत्वात् । नचैवं भवन्मतेऽपि तृणतदन्ययोः कथं वह्निप्रयोजकत्वमिति वाच्यम् । प्रयो- जकप्रतियोगिकाभावस्याप्रयोजकत्वमिति नियमशरीरत्वात् । त्वया च कारणीभूतवह्न्यवयवादि प्रतियोगिकस्यान्योन्याभावस्यावच्छेदकतया प्रयोजकत्वाभ्युपगमादिति वदन्ति । तच्चिन्त्यम् । भा- वाभावयोरेकत्राजनकत्वेऽपि एकाप्रयोजकत्वे मानाभावात् । वस्तुतस्तु तदपि न । घटघटान्योन्याभा- वाविति समूहालम्बनस्थले व्यभिचारात् । नच कारणाभावस्य न कारणतावच्छेदकत्वमिति नियमः, अप्रयोजकत्वादिति दिक् । विवादपदमिति । प्रदीपादावंशतः सिद्धसाधनवारणाय विशेषणमिदम्। मकरन्दः । स्यादिति घटपटान्यान्यतरत्वावच्छेदेन दण्डवेमान्यान्यत्वेन हेतुत्वापत्तिः । तथाचोक्तगौरवादतिप्रस- ङ्गाच्च न तदन्यान्यत्वमवच्छेदकमिति दिक् । यत्तु, नैकं विरुद्धद्वयप्रयोज्यम् । भावाभावयोरेकका- र्यजनकतापत्तेः । अत एव न यागध्वंसेनापूर्वस्यान्यथासिद्धिः । तदिह वह्नित्वं यदि तृणान्यान्य- प्रयोज्यं स्याद् , न स्यात्तदन्यवह्वयवयवादिप्रयोज्यं विरोधादिति । तच्चिन्त्यम् । एवं हि तृण- प्रयोज्यत्वेऽपि तदन्यवह्वयवयवादिप्रयोज्यत्वं विरुध्येत । यदि च तयोः परस्परविरहरूपत्वाभा- वात्तदुभयप्रयोज्यत्वं न विरुद्धं, तदा तुल्यम् । वह्न्यवयवत्वेनैव तस्य प्रयोजकत्वं, न तु तृणाय- न्यान्यत्वेनेत्यपि तुल्यमिति । विवादपदमिति । एतच्च प्रदीपादौ साध्यसिद्धया अंशतः सिद्धसाधनवारणार्थम् । नियतेति । ननु वृश्चिकादौ हेतुसत्त्वेऽपि साध्यासत्त्वाद्यभिचार इति चेत् । मैवम् । नियत-
८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां यस्तु तं नाकलयेत् , स कार्यसामान्येन कारणमात्रमनुमियादिति किमनु- बोधनी । ननु कार्यावान्तरजातिभेदस्य दुरूहत्वात् कथं तत्तत्तृणादिविशेषानुमानमित्यत्राह-यस्त्विति । तमवान्तरजातिभेदं तृणादिजन्यमन्वयव्यतिरेकयोर्बलवानेवाकलय्य तृणादिकारणविशेषमनुमिनोति, यस्त्वलसो दुरूहमवान्तरजातिभेदं नावगच्छति स सामान्यमात्रात्सामान्यमात्रं तन्निवृत्तेश्च तन्निवृ- त्तिमनुमिनुयात् का नो हानिरिति । ननु यदि तृणादीनामनुपलभ्यमानमग्न्यवान्तरजातिभेदं प्रत्यु- पयोगान्नाग्निमात्रदर्शिनस्तृणाद्यनुमानसिद्धिः, एवं तर्ह्यनुपलक्ष्यमाणधूमावान्तरजातिभेदं प्रत्येव प्रकाशः । तदाकलने तु विशेषोऽप्यनुमीयत एवेत्याह । यस्त्विति । नन्वग्न्यवान्तरजातीये तृणादीनां कारणत्वं न युक्तम् , कारणगतैकशक्तिरूपमपहाय कार्यगतबहुतरजातिकल्पने गौरवात् । तृणादि- जन्याग्निश्ववान्तरजातेर्योग्यानुपलम्भबाधितत्वात् । यत्र च तत्तत्कारणप्रयोज्यं प्रदीपादौ वैजा- त्यमनुभूयते । तत्रैकशक्तिमत्त्वमपि कारणे नास्ति । अत एवानुमानमप्रयोजकम् । अथास्ति तृणा- दीनां फूत्कारादिसहकारिता । तत्र फूत्कारादीनां सहकारित्वं तृणत्वाद्यवच्छिन्नं प्रति स्यात् ? तृणादिसाधारणैकशक्तिमन्तं प्रति वा । नाद्यः । तृणत्वाद्यवच्छिन्नस्य प्राक्कालानैयत्याभावेन कार- णत्वाभावात् तत्सहकारित्वस्य दूरनिरस्तत्वात् । नान्त्यः । तृणादिवाऽरणेरपि फूत्कारसमवहिता- दग्न्युत्पत्त्यापत्तेः । न च फूत्कारादिविशिष्टे तृणादौ शक्तिर्न केवल इति वाच्यम् । तस्य तृणादि- भिन्नत्वे तृणादीनामजनकत्वापत्तेः । तदभिन्नत्वे च यत् तृणं फूत्कारेणोपधीयते, तत्र वा शक्तिः, प्रकाशिका । अत्र कारणविशेषप्रयोज्यधर्म्मवत्त्वमेव साध्यं, यथाश्रुतेन च पक्षधर्म्मतावल्लभ्यसाध्योपदर्शनं तेन न घटादौ, न वा ध्वंसे व्यभिचार इत्यवधेयम् । यद्यपि यथानिरुक्तसाध्ये सिद्धसाधनं जायमानत्व- स्यैव हेतुत्वे व्यर्थविशेषणत्वञ्च वह्न्यवयवादिकारणप्रयोज्यवह्नेः सत्त्वात् तत्तत्कारणप्रयोज्यतत्तदव- च्छेदकधर्म्मवत्त्वाच्च कार्यमात्रस्य । तथापि तृणादिप्रयोज्यधर्म्मवत्त्वमेव साध्यम् नियततत्तदर्थप्रवेशे न जायमानत्वं हेतुः । सामान्यव्याप्तौ च प्रदीपो दृष्टान्त इति भावः, प्रदीपादिदृष्टान्तोपादानप्रया- सश्चात्तेजस्त्वाद्युपाधेः साध्याव्यापकत्वप्रदर्शनपरः । सहकारिपदञ्चानन्यथासिद्धपरं नियतरासभो- त्तरभाविघटे व्यभिचारवारकमिति मिश्राः । वस्तुतो वह्नित्वादिति हेतुः यथाश्रुतमेव च साध्यं निय- तेत्यादिकञ्च विपक्षबाधकतर्कप्रदर्शनपरमिति ध्येयम् । अत एवेति । वस्तुतः स्वरूपासिद्धिरेव नियतेत्यादिहेतोर्नियतत्वं हि तृणादीनां वह्नित्वावच्छिन्ने वा तदवान्तरजात्यवच्छिन्ने वा उभयथापि स्वतः परतो वाऽसिद्धिः । नचोभयमतेऽपि शक्तिमत्त्वेन तृणत्वेन वा नियमोऽस्त्येवेति साधारणरूपो हेतुः सिद्ध एवेति वाच्यम् । तथा सति तृणादिप्रयोज्यवह्नौ सिद्धसाधनापत्तेः । तस्मात् तृणत्वावच्छिन्न- नियमाश्रयजन्यत्वेन तृणत्वावच्छिन्नप्रयोज्यधर्म्मवत्त्वं साध्यमिति स्वरूपासिद्धिरेव परंमते । न च स्वमतेनैवाऽयं हेतुः साध्यसिद्धिनियतसिद्धिकत्वादिति। तदभिन्नत्वे चेति । फूत्कारप्राक्काल एव तृणे मकरन्दः । सहकारिप्रयोज्यजातिकत्वस्य साध्यत्वात् । प्रकृते च पक्षधर्मतावलेन वह्नित्वव्याप्यैव सा जातिः सिद्ध्यतीति तथा प्रतिज्ञानात् । न चैवमपि ध्वंसे व्यभिचारः । जातिपदस्य धर्ममात्रपरत्वात् । प्रदीपादिदृष्टान्तोपादाननिर्वन्धश्चातेजस्त्वाद्युपाधेः साध्याव्यापकत्वप्रदर्शनार्थमित्याहुः । वस्तुतस्तु साध्यदृष्टान्तालोचनेन वह्नित्वादिति हेतुरभिमतः । स्फुटत्वात् कण्ठरवेण नाभिहितः । नियतेत्या- दिकञ्च विपक्षबाधप्रदर्शनपरमिति युक्तमुत्पश्यामः । ननु प्रागुक्तसहकारिनियम एव विपक्षबाधक इत्याह । अथेति । तदभिन्नत्वे चेति । फू-
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ९५ प्रकाशः । 'फूत्कारसमवधाने सति वा ? नाद्यः । फूत्काराद्यसमवधानेऽपि तस्मात् तृणादेरग्न्युत्पत्त्यापत्तेः । नापरः । तथा सति सैव शक्तिस्तृणे फूत्कारादरणौ निर्मन्थनादिति शक्तावनियतहेतुकत्वापत्तेः । तत्राप्येकशक्तिमत्त्वेन हेतुत्वेऽनवस्थापत्तेरिति ॥ मैवम् । यथा ह्यन्वयव्यतिरेकाभ्यां तृणफूत्कारयोरन्योन्यसहकारित्वं तथैव तच्छक्त्योरपि परस्परसहकारित्वेन वह्नयनुकूलत्वम् । तथैव कार्यदर्शनात् । न तु मणिफूत्कारयोः सहकारित्व- मिति, न तच्छक्त्योरपि परस्परसहकारित्वम् । कार्यविशेषात् कारणविशेषानुमानं तु वह्निवृद्धि कादौविष्यत एव । निरूपितनियतवह्र्यादिकारणके धूमादौ अनुमानं स्यादेव । अन्यथा कार्यवै- जात्येऽपि वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्र इति शङ्कया तवाप्यनुमानं न स्यादिति । अत्रास्मत्पितृचरणाः । तृणारणिमणिफूत्कारादिव्यक्तीनामनन्तत्वेन प्रतिव्यक्ति भावहेतुजानि- त्यानन्तशक्तिस्वीकारे गौरवम् । तावदनन्तव्यक्त्तिजन्यानन्तवह्निव्यक्तिषु जातित्रयकल्पने लाघव- मिति तदेव कल्प्यते । न च जातौ योग्यानुपलब्धिबाधः । गोमयवृश्चिकप्रभववृश्चिकयोरिपच्छद्या- मत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्षसिद्धत्वात् । तृणादिजन्याग्निष्वपि तृणजन्यत्वज्ञानानन्तरं मणिजन्यव्यावृत्तानुगतबुद्धेर्जातिविषयत्वाद् बाधकाभावात् । ननु तृणादीनामग्नौ कारणत्वग्रहे शक्तिवैजात्ययोरन्यतरकल्पनम् । तद्ग्रहश्च नान्वयव्यतिरेकाभ्याम् । व्यभिचारात् । अथारणिम- ण्यभाववति स्तोमविशेषे तृणं विना न वह्निः तृणान्वयेऽवश्यं वह्निरित्यन्वयव्यतिरेकाभ्यां, तत्रैव स्तोमे इतरकारणसमवधाने तृणान्वयेऽवश्यं वह्निरिति नियतेनान्वयेन वा रासभव्यावृत्तेन तृणादि- कारणताग्रह इति चेन्न । तृणं विनाऽपि वह्निरिति ज्ञाने सति वह्नि नियतपूर्ववर्तित्वस्य कारणत्वस्य ग्रहीतुमशक्यत्वात् । अबाधिताभावग्रहे भावग्रहस्याभावात् ॥ प्रकाशिका शक्तिः फूत्कारजन्या वेति विकल्पार्थः । मनवस्थेति । उत्तरोत्तरमपि भिन्नभिन्नसहकारिपरंपरांया एवं स्वीकारादिति भावः । तथैव तच्छक्त्योरपीति । तथा च कारणतावच्छेदकसाम्येऽपि तृणफूत्- कारयोरेव समवहितयोः फलोपधानं स्वभावादिति भावः । वस्तुतः सम्बन्धनामेकशक्तिमत्त्वेन कार- णत्वमित्यभिप्रायः । कारणतावच्छेदकयावद्धर्म्माश्रयैकैकव्यक्तिसमवधाने स्वभावविरहप्रयुक्तस्य फला- नुपधानस्यादृष्टत्वात् यद्यप्ययमभिप्रायो न युक्तस्तरणिकिरणसमवहितमणेरपि वह्न्यर्थिप्रवृत्तिविषय- त्वापत्तेरुक्तत्वात् । तथापि स्फुटत्वात् तदुपेश्यान्यदाह । तृणेति । ननु जातित्रयकल्पनमपि किम र्थं वह्वयन्वयव्यतिरेकानुविधायित्वस्यैव तृणादौ वह्निकारणतावच्छेदकत्वात् , धर्म्मिकल्पनातो धर्म्मक- ल्पना लघीयसीति न्यायात् । मैवम् । अन्वयव्यतिरेकानुविधानस्य सहकार्यान्तरसाधारन्येन तृणादि- मकरन्दः । त्कारप्राक्काल एव तृणे शक्तिस्तत्समवधाने तज्जन्या वेति विकल्पार्थः । तथैव तच्छक्त्योर- पीति । यद्यप्येवं कार्यवैजात्यमावश्यकम् । एकजातीयकार्ये सहकारिनियमानुपपत्तेः । तथापि तृणफूत्कारसम्बन्ध-तरणिकिरणमणिसम्बन्धादिष्वप्येकजातीयशक्तिमत्त्वं कारणतावच्छेदकम् । त- था च तदन्यतमसम्बन्धाभावे तृणनिर्मन्थनसमवधानेऽपि नाग्न्युत्पत्त्यापत्तिरिति भावः । तृणेति । ननूक्तगौरवेण मा भूच्छक्तिकल्पना, जातिकल्पनाऽपि कुतः । यावता वह्वयनुविधायित्वमेव धर्मि- कल्पनात् इति न्यायेनावच्छेदकमस्तु । नचेदमेव वह्निजनकत्वं, येनात्माश्रयान्नावच्छेद्यावच्छेदक- त्वं, किन्त्वनन्यथासिद्धादिघटितमिति चेन्न । तदनुविधायित्वस्य सहकार्यान्तरसाधारणतया तत्स- त्त्वे तृणान्यतमासत्त्वेऽपि वह्न्युत्पादापत्तेः । कारणतावच्छेदकावच्छिन्नव्यक्तिक्षत्सत्त्व एव का- र्योत्पादनात् ।
८६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्याया प्रकाशः । मैवम् । उक्तग्राहकैर्वह्निनिष्ठकार्यता निरूपितकारणतावच्छेदकरूपवत्त्वं तृणस्य तृणनिष्ठकारणता- निरूपितकार्यतावच्छेदकरूपवत्त्वं वह्नेर्वा अकार्यकारणव्यावृत्तं परिच्छिद्यते, न तु तृणत्वेन कारणत्वं, वह्नित्वेन कार्यत्वं वा । तच्चोभयथाऽपि सम्भवति । वह्नित्वेन कार्यत्वमेकशक्तिमत्त्वेन कारणतया वा, तृणत्वेन कारणता वह्निविशेषत्वेन कार्यतया वा । तत्र च विनिगमकमुक्तमेव । एतेन मण्या- द्यजन्यवह्नौ तृणादीनां हेतुत्वं गृह्यते इत्यपास्तम् । अन्योन्याश्रयाच्च । मणिजन्यत्वग्रहे हि तद- जन्यत्वग्रहः, तृणजन्यत्वेन च तद्ग्रह इति । तथापि यत्र कार्ये वैजात्याभावः सामग्रीभेदश्च तत्र का गतिः ? यया द्रव्यनाशः क्वचित् प्रतियोग्याश्रयनाशात् , क्वचिदसमवायिकारणनाशात् । नचाश्रयनाशजन्यद्रव्यध्वंसत्वावच्छिन्नं प्रत्यसमवायिनाशस्य नियतत्वात् कारणत्वग्रहः । उक्त- प्रकाशिका । त्रयासत्त्वे अन्यकारणसत्त्वे च वन्ध्यापत्तेः । कारणतावच्छेदकाश्रययत्किञ्चित्समवधानस्य सत्त्वात् । यत्तु व्यभिचारादन्वयाद्यनुविधानमेव नास्तीति दूषणम् । तन्न । अरणिमण्यभाववति स्तोमे अन्व- यव्यतिरेकानुविधानस्य तृणे सत्त्वादेवमितयोरपि । अन्यथा तृणादिकारणताग्रहाभावे कल्पनाभावे न शक्तिवैजात्यान्यतरकल्पनस्याप्यभावादिति । मिश्रास्तु वैजात्यमपि तत्रैवावच्छेदकं यत्रानुभव- सिद्धः, न तु कारणनियमानुरोधेन वैजात्यकल्पनं तद्व्यक्तिं प्रति तद्व्यक्तित्वेन नियमात् । अत एवोभयजन्यध्वंसे तद्व्यक्तिरेव नियम इति प्रकाशोऽपि सङ्गच्छते । नचैवमपूर्वतृणे वह्न्यर्थिप्रवृत्त्य- नुपपत्तिः । कारणतावच्छेदकानिश्चयादिति वाच्यम् । कारणताज्ञानस्यैव प्रवर्तकत्वात् न तु विशे- षतः कारणतावच्छेदकज्ञानस्य । अत एवेदं ते ज्वरहरमित्याप्तवाक्यादनवगतेऽपि कारणतावच्छे- दके प्रवर्तन्ते कारणताज्ञानञ्च वैजात्यकल्पकत्वेन त्वयापि स्वीकरणीयमेव । तस्माद् यत्र वृश्चिका- दावीषन्नीलत्वपीत्वादिकं प्रतीयते तत्र तन्नियामकत्वेन गोमयवृश्चिकादीनां कारणत्वेऽपि यत्र तृणादिजन्याग्निषु न विशेषप्रतीतिः तत्र तद्व्यक्त्योरेव कारणत्वं कार्यत्वं च । नचैवं यागदानादि- जन्यस्वर्गेष्वपि नावान्तरवैजात्यं स्यादिति वाच्यम् । तत्र बहुवित्तव्ययायाससाध्ये कर्मणि प्रवृ- त्त्यनुपपत्त्या वैजात्यस्यानुमानसिद्धत्वात् नहि प्रत्यक्षैव प्रमितिः, नच तृणजन्यत्वज्ञानानन्तरं वैजात्यप्रतीतिः प्रकृतेऽपीति वाच्यम् । तस्यास्तृणजन्यत्वोपाधिविषयकत्वात् । अन्यथा वह्निज- नकतावच्छेदिका जातिरेकैव तृणादौ किमिति न कल्प्या त्रयाणां पार्थिवतया जातिसङ्कराप्रसङ्गात् । न च तथा सति सहकारिनियमानुपपत्तिः, तृणोत्तरभाविवह्नित्वावच्छिन्नं प्रति फूत्कारादीनां जन- कत्वात् । नच तस्यां जातौ योग्यानुपलब्धिबाधः कार्यव्यङ्ग्यतया तद्ग्रहादित्याहुः । उक्तग्राहकै- रिति । अन्वयव्यतिरेकाभ्यां नियतेनान्वयेन चेति व्यक्तीरादाय बहुवचनम् । अकार्यकारणव्या- वृत्तमिति । कार्यकारणभावः सामान्यतः अत एव विशेषनिषेधमाह - न तु तृणत्वेनेत्यादि । एतेनेति । व्यवस्थापितजातीनामेव लाघवादवच्छेदकत्वेनेत्यर्थः । अन्योन्याश्रयाच्चेति । म- णिजन्यत्वग्रहे मणिजन्यवह्नित्वमपि सकलवह्नित्तित्वेनैव ज्ञातमिति न तृणजन्यतावच्छेदकत्वेन ज्ञातुं शक्यते तथाच मणिजन्यत्वज्ञानमपेक्षणीयं तच्च तृणाजन्यत्वेन ग्राह्यं तदपि क्वचित्तृणजन्यग्रहे मकरन्दः । उक्तग्राहकैरिति । अन्वयव्यतिरेकाभ्यां नियतेनान्वयेन चेति बहुवचनोपपत्तिः । अधिक- म्नुमानप्रकाशे प्रपञ्चितम् । एतेनेतीति । व्यवस्थापितजातीनामेव लाघवादवच्छेदकत्वेनेत्यर्थः । अन्योन्याश्रयाच्चेति । वह्नौ मणिजन्यत्वे गृहीत एव मणिजन्यवह्निभिन्नवह्नित्वेन तृणजन्यत्व- ग्रहः, तृणजन्यत्वे च वह्नौ गृहीत एव तृणजन्यवह्निभिन्नवह्नित्वेन मणिजन्यत्वग्रह इत्यन्योन्याश्र- याहित्यर्थः । अन्यथा वह्निमात्रस्यैव तदजन्यत्वेनोपस्थितौ वह्नित्वावच्छिन्न इतरव्यभिचारादेव
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८७ प्रकाशः । रीत्याऽन्योन्याश्रयात् । उच्यते । निमित्तकारणेतरकारणनाशत्वेन कारणत्वम् । यद्वा, विद्यमानाश्रय- द्रव्यनाशे असमवायिनाशो हेतुरेवं साऽसमवायिकारणकद्रव्यनाशे प्रतियोग्याश्रयनाशः । तथाप्यु- भयजन्ये द्रव्यनाशे का गतिः ? आश्रयनाशाजन्यद्रव्यनाशं प्रत्यसमवायिनाशस्य हेतुत्वात् तस्य चाश्रयनाशजन्यत्वात् । अत्राहूः । तन्नेतरसमवधाने तदुभयाभावाभावाभ्यां व्यक्तिविशेषाभावाभावाद् प्रकाशिका । सत्येवानतिप्रसक्तत्वेन ग्राह्यमिति परस्पराश्रय इत्यर्थः । न तु प्रतियोगिप्रसिद्धयर्थं मणिजन्यत्वग्रहो- वह्नावपेक्षणीय इत्यर्थो रूपादावेव मणिनिष्ठे प्रतियोगिप्रसिद्धेरिति । निमित्तकारणेति । नचैव- मपीन्धनानाशजन्यवह्निनाशेऽदृष्टनाशजन्यशरीरनाशे च व्यभिचार इति वाच्यम् । इन्धननाशाद्देवा- न्तरानन्तरं नोत्पद्यते पूर्वानलस्तु स्वावयवक्रियाविभागादिन्यायैनैव नश्यति, एवं शरीरमपीति स्वीका- रात् । नच निमित्तकारणत्वं समवाय्यसमवाय्यन्यत्वमिति तदन्यकारणनाशत्वेन कारणत्वमायाताम् । नचान्यान्यत्वमवच्छेदकमिति वाच्यम् । तस्य कारणतानवच्छेदकत्वेऽपि तत्कोटिप्रवेशे बाधका- भावात् सामान्ये सामान्यस्याप्रयोजकत्वेऽपि विशेषे विशेषस्य प्रयोजकत्वमविरुद्धमेवेत्याशयेनाह । यद्वेति । तथाप्युभयेति । उभयनाशोत्तरभाविनित्यर्थः । आश्रयनाशाजन्येत्याद्युपलक्षणम् । अव्यवहितपूर्वविद्यमानामंवायिकारणकद्रव्यनाशेऽपि समवायिकारणनाशस्य हेतुत्वात् प्रकृतना- शस्य चासमवायिकारणनाशोत्तरकालीनत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । अव्यवहितविद्यमा- नोभयद्रव्यनाश उभयनाशस्य दण्डचक्रवत्कारणत्वमिति भावः । यथाश्रुतेऽनन्तकारणताकल्पनाप- त्तेः । यत्त्वसमवायिकारणनाशसहितसमवायिकारणनाशत्वेन हेतुत्वे तात्पर्यमिति । तन्न । विशे- ष्यविशेषणभावे विनिगमकाभावात् । किञ्च समवायिकारणसमकालीनद्रव्यस्य नाशे ऽसमवायिकार- णनाश एवासवायिनाशसमकालीनस्य तस्य नाशे समवायिनाशो हेतुरेवं चोभयोत्तरकालीने फलत उभयनाशो हेतुः । वस्तुतो द्रव्यनाशं प्रत्यसमवायिकारणनाशस्य द्व्यणुकादिनाशस्थले कारणत्वावधारणात् यत्रापि समवायिकारणनाशानन्तरं द्रव्यनाशस्तत्राप्यसमवायिकारणनाश एव नाशकः, न चैवं क्षणद्वय आश्रयं विना कार्यस्वीकारापत्तिः । प्रथमक्षणेऽनाश्रितत्ववत् , द्विती- यक्षणेऽपि तथास्वीकाराविरोधात्, एवं च सति गुणकर्मादिनाशे समवायिकारणनाशस्य कारणत्वे क- ल्प्यमाने सामान्यत एव समवायिकारणनाशसमानकाली स्य समवेतस्य नाशे समवायिकारणनाशः कारणत्वेन कल्प्यते अनुगमानुरोधादित्येव बीजमाश्रयनाशस्य द्रव्यनाशहेतुत्वे, तथा चोदाहृतनाशे- मकरन्दः । हेतुत्वप्रहाणुपपत्तेः । तथा च विशेषणोपादानायासोऽपि व्यर्थ इति भावः । निमित्तकारणेति । न चेन्धननाशादपि वह्निनाशादनुगमः । तत्रेन्धननाशाद्वह्नयन्तरं नोत्पद्यते । पूर्ववह्नित्ववयववि- भागन्यायेनैव नश्यतीत्युपगमात् । एवं शरीरनाशोऽपि नादृष्टनाशजन्य इत्यभ्युपगमेनेदम् । ननु निमित्तकारणत्वं समवाय्यसमवायिभिन्नकारणत्वमिति कारणत्वान्तर्भावे गौरवम् । तदनन्तर्भावे तद्गन्यान्धत्वमवच्छेदकं पर्यवस्यति । तच्चानभ्युपगतमिति चेन्न । तदन्यान्यनाशत्वस्यात्र तत्प- र्यवसानात् । तथाच प्रतियोग्यनुगमकतया तत्प्रवेशे तद्धटितस्यावच्छेदकत्वं, न तु तस्यैव । अन- भ्युपगतञ्च तदिति भावः । केचित्तु, एतदस्वरसादेवाह-यद्वेति । तथापीति । न चाश्रयनाशे तदाश्रितद्रव्यतदसमवायिनोर्युगपदेव नाशादिदमसम्भवीति वा- च्यम् । समवायिनाशसमकालं विभागाद् यत्रीसमवायिनाशस्तत्र तत्सम्भवात् । आश्रयनाशा- जन्येत्युपलक्षणम् । असमवायिनाशाजन्यद्रव्यनाशं प्रत्याश्रयनाशस्य हेतुत्वात्, तस्य चासम- वायिनाशजन्यत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । नचाविद्यमानोभयक्रव्यनाशत्वावच्छिन्ने अस-
८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां पपन्नम् । एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्याद् यस्य दह- नाऽपेक्षेति न धूमादिसामान्याद्वह्निसामान्यादिसिद्धिः । एतेन व्यतिरेको व्याख्यातः । तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभाव- स्याप्यसिद्धेर्गतमनुमानेनेति चेत् । बोधनी । दहनादीनामुपयोग इत्यपि सम्भवान्न धूमादिमात्राद्दहनानुमानसिद्धिरित्याह—एवं तर्ही-इति । एतेन धूमादिविशेषस्य दहनाद्यपेक्षत्वसम्भावनाप्रतिपादनेन दहनादिव्यतिरेकान्न धूमादिमात्रव्य- तिरेकोऽपि सिद्ध्यतीत्याह—एतेन-इति । एवं चानुमानमात्रोच्छेद एव स्यादित्याहँ—तथाच- इति । शिंशपाया वृक्षत्वस्वभाव इत्येतद् वृक्षे शिंशपात्वानुपलब्ध्या लिङ्गेन शिंशपात्वव्यति- रेकोऽनुमानात् सिद्ध्यति, तेन व्यतिरेकासिद्धौ स्वभावस्यासिद्धेरनुमानमात्रोच्छेद एवं इति । प्रकाशः । व्यक्तिविशेषं प्रति तदुभयव्यक्त्योरनन्यथासिद्धयोः कारणत्वं गृह्यते इत्येषा दिक् । ननुः कार्यवैजात्ये तृणस्य वह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्रे इति शङ्कया न कार्यात् कारणं काप्यनुमीयेत । यदि चोपस्थितरूपे व्यभिचाराभावात्तेनैव रूपेण कार्यत्वग्रहस्तर्हि कारणतायामपि यत्रोपस्थितरूपे व्यभिचारस्तत्रैव रूपान्तरेण कारणताग्रह इति तुल्यमित्याह । एवं तर्हीति । एवं वह्नेर्धूमविशेष एव प्रयोजकत्वाद् वह्निमात्रव्यतिरेकाद् धूम- मात्रव्यतिरेको नानुमीयेतेत्याह । एतेनेति । निषेध्यतेयेति शेषः । तथा चेति । विपक्षवा- धकमानवेदनीयो हि स्वाभावनियमो बौद्धानाम् । बाधकं च कार्यानुपलब्धी, ततस्तद्भङ्गे कथमनु- पायकः सिद्धयेदित्यनुमानमात्रविलयान्निधैव तदुपगमादित्यर्थः । तदेतद् दूषणं बीजत्वसामान्यं प्रत्यक्षसिद्धमङ्कुरे न प्रयोजकं, किन्तु तद्विशेषः कुर्वद्रूपत्वमतीन्द्रियमिति वदतो बौद्धस्य, प्रकाशिका ऽस्ति द्वयमवच्छेदकं समवायिकारणनाशसमानकालीनसमवेतनाशत्वमसमवायिनाशसमानका- लीनद्रव्यनाशत्वञ्चेति उभयावच्छेदेनोभयोः कारणत्वमित्यभिसन्धायाह । दिगिति । मकरन्द भवायिनाशसहितसमवायिनाशत्वेन हेतुत्वमस्तु । तथाच कथं व्यक्तिविशेषे व्यक्तिविशेषस्य हेतु- त्वम् ? अन्यथा अनन्तसामग्रीकल्पनापत्तेरिति वाच्यम् । तत्रैव तात्पर्यात् । नचात्राप्यन्यतर- स्यावच्छेदकत्वे विनिगमकाभावः । असमवायिनाशात्वादिना तदुभयोरपि हेतुत्वादेव । अत एव सामग्रीभेदः । अन्यत्रान्यतरस्यैव हेतुत्वात् । नचात्राप्यन्यतरस्यैव हेतुत्वमस्तु, कार्यतावच्छेदकभे- दाच्च सामग्रीभेद इति वाच्यम् । विनिगमनाविरहेणोभयोरपि तुल्यत्वात् । वस्तुतस्तु समवायि- कारणानाशाद् द्रव्यगुणकर्मणां नाशदर्शनात् तत्तन्नाशस्याननुगमादनुगतस्य सति सम्भवे त्यागा- योगादविद्यमानांश्रयकासमवेतकार्यनाशत्वावच्छेदेनास्य हेतुत्वकल्पनाद् द्रव्यनाशेऽपि तथा । तथाच युगपत् समवाय्यसमवायिनाश्योरुत्पत्तावपि तन्निप्तकार्यमात्रनाश एवाश्रयनाशो हेतुः । तथाच न सामग्रीभेदः । अत एव समवायिनाशस्थलेऽपि तज्जन्यासमवायिनाशस्यैव द्रव्यनाशकत्वं कॢप्त- त्वादित्यपास्तम् । गुणादिनाशे तस्यापि कॢप्तत्वात् । किञ्चाविद्यमानाश्रयकद्रव्यनाशे आश्रयनाशो हेतुरविद्यमानासमवायिकारणकद्रव्यनाशेऽसमवायिनाशो हेतुरस्तु । तथाच कॢप्तसामग्रीत एव प्रकृतकार्योपपत्तौ न सामग्रीभेदः । अविद्यमानता च द्रव्यनाशपूर्वक्षणे बोध्या । तेन सत्समका- लाविद्यमानत्वमादाय न व्यभिचार इति विद्वद्भिः परिचिन्तनीयमिति । एतत् सर्वमभिसन्धा- योक्तं दिगिति ॥