न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 110, कुल 608 में से
संदर्भ में पढ़ें७६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां प्रकाशः । कर्षयोर्दध्युत्कर्षापकर्षप्रयोजकत्वानुपपत्तिः । अनुपादानोत्कर्षादेरनुपादेयोत्कर्षाद्यप्रयोजकत्वात् । न चेन्धनोत्कर्षादिना वन्हेस्तथात्वेन व्यभिचारः । यस्योद्भूतरूपस्योत्कर्षार्थं तद्वृत्तिद्रव्यत्वव्या- प्यजातीयं यदुपादीयते, तत् तदुपादानोपादेयमिति व्याप्तेः । इन्धने तु तद्वृत्तिद्रव्यत्वव्याप्य- जातेरभावः । उद्भूतरूपस्येति विशेषणान्नानुद्भूतरूपवह्र्युत्कर्षार्थमुपात्तवह्न्युत्कर्षेण व्यभिचारः । उपादेयता च साक्षात्परम्परासाधारणी विवक्षितेति न घटोत्कर्षार्थोपात्ततन्तूत्कर्षेण व्यभिचारः । प्रकाशिका । विशेषः स्यादित्यत्रेष्टापत्तिरेव, कदाचित् तत्सत्त्वात् । अत एव मधुराम्लादिरससमवायिकारणतावच्छे- दकतया पृथिवीत्वसिद्धिरिति वर्द्धमानचरणाः । एवं च व्यञ्जकासत्त्व उपाधौ साधनव्यापकत्व- मिति भावः । यस्येति अत्रानुद्भूतरूपभर्जनकपालीयवह्न्युत्कर्षार्थमुपादीयमानोद्भूतरूपोत्कृष्टवह्नौ व्य- भिचार इति उद्भूतरूपस्येति विशेषणम् । वह्न्युत्कर्षार्थमुपादीयमाने उत्कृष्टेन्धने सति व्यभिचार इति तद्वृत्तीत्यादि । इन्धनेऽपि वह्निवृत्तिसत्तासत्त्वेन स एव व्यभिचार इति द्रव्यत्वव्याप्येति । वह्नीन्ध- नान्यतरत्वमादाय स एव दोष इति जातिपदम् । व्याप्यत्वञ्च भेदगर्भमतो न द्रव्यत्वमादाय स एव व्यभिचारः। अतितप्ततैलस्थोद्भूतरूपदहनोत्कर्षार्थमुपादीयमाने भर्जनकपालीयोत्कृष्टानुद्भूतरूपवह्नौ सति व्यभिचार इति। उप दीयत इति । उपादानम् = प्रवृत्तिः सा, चाप्रत्यक्षे तस्मिन् न संभवतीति भावः। अत एव घटोत्कर्षार्थके तत्परम्परारम्भकपरमाणौ न व्यभिचारः। न च दुग्धस्य दधिप्रतिबन्धकतया न तदर्थकत्वमिति वाच्यम् । नियमतो यदनन्तरं यद् भवति तस्यैव तदर्थकत्वात् । अत एवोद्भूतरूप- स्येत्यादि विशेषणं सार्थकम् । अन्यथोग्भूतरूपस्यानुद्भूतरूपवह्र्युत्कर्षार्थकतवाभावे तद्वैयर्थ्यात् । यदि चोद्भूतरूपस्यापि तदर्थकत्वं तदानुद्भूतरूपे व्यापकसत्त्वेन व्यभिचारप्रसङ्गात् । घटार्थमुपादीयमाने दण्डस्थले व्यभिचार इति उत्कर्षपदम् । उपादानत्वमुपादेयत्वञ्च साक्षात्परम्परासाधारणमित्याकर एव व्यक्तमतो न दध्युत्कर्षार्थोपात्तस्थूलदुग्धे व्यभिचारः । ननु शरीरोत्कर्षार्थोपात्तोत्कृष्टभक्ष्ये सति व्यभिचारः। अथ तुल्ययुक्तिकतया तत्रापि साध्यसत्वान्न व्यभिचारः, अत एव उपादेयतावच्छेदक धर्मावच्छिन्नस्य तद्वृत्तिद्रव्यत्वव्याप्यजातीयत्वं विवक्षितम् । नच भक्ष्यस्थले तत् उपादेयताव- च्छेदकस्य जलसाधारण्येन तदवच्छिन्ने तज्जातीयत्वाभावादिति मिश्रमतमपास्तम् यथाश्रुत एवा- मकरन्दः । तद्व्यञ्जकत्वादिति । तथाच साधनव्यापकत्वमुपाधेरिति भावः । यस्येति । वह्न्युत्कर्षार्थ- मुपादीयमानेन्धने व्यभिचारादाह । तद्वृत्तीति । सत्तामादाय दोषतादवस्थ्यादाह । द्रव्यत्व- व्याप्येति । व्याप्तिश्च भेदगर्भैति न द्रव्यत्वमादाय दोषतादवस्थ्यमिति भावः । तथाऽपि तैलो- त्थितोद्भूतरूपदहनार्थकेऽनुद्भूतरूपतैलस्थदहने व्यभिचारः । अनुद्भूतानोद्भूतमिति मतेनैवास्य कृतत्वादित्यत आह । उपादीयत इति । उपादानं = प्रवृत्तिः । तस्य चाप्रत्यक्षत्वान्न तद्यो- ग्यतेति न दोषः । अत एव घटायुत्कर्षार्थंके मृदारम्भके परमाण्वादौ न व्यभिचारः । न चैत- न्मते अनुद्भूतरूपस्योद्भूतरूपार्थकत्वाभावादेव न व्यभिचार इति किं तद्वारणार्थं विशेषणोपादा- नेनेति वाच्यम् । नियमतो यदनन्तरं यद्भवति तस्यैव तदर्थकत्वेन विवक्षितत्वात् । तस्य च तत्सहचरितावयवान्तरमादाय तत्रापि सत्त्वात् । अन्यथा दुग्धस्यापि दधिप्रतिबन्धकतया तथा- त्वं न स्यात् । ननु धूमाथोंपादीयमानार्द्रेन्धनोत्कर्षे व्यभिचारः । न चाऽऽर्द्रत्वं जलसम्बन्धो, न तद्विशिष्टे तद्वृत्तिद्रव्यत्वव्याप्यजातिरस्तीति वाच्यम् । एवमपि शरीरोत्कर्षार्थोपादीयमानभक्ष्यो- त्कर्षे व्यभिचारावारणादित्याशङ्क्य उपादेयतावच्छेदकधर्मावच्छेदेन तद्वृत्तिद्रव्यत्वव्याप्यजाति- मत्त्वं विवक्षितम् । न च शरीरोत्कर्षार्थोपादीयमाने उपादेयतावच्छेदकावच्छिन्नं पार्थिवमात्रम्,