न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 109, कुल 608 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (Markdown प्रारूप में) है:
प्रथमस्तबके ] \qquad स्वभावकारणतावादखण्डनम् । \qquad ७५ \centerline{प्रकाशः ।} दध्यारम्भकः परमाणुर्न दधित्वाश्रयः नित्यपार्थिवत्वात् पटारम्भकपरमाणुवदित्यनुमानस्य सं- भवात् । न च व्यञ्जकाऽसत्त्वमुपाधिः ? दधित्वाश्रयपरमाणौ च रसविशेषवत्त्वं दधित्वव्यञ्जकम- स्तीति वाच्यम् । प्रतिकूलतर्केण रसविशेषवदवयवित्वस्य तद्व्यञ्जकत्वात् । किञ्चैवं दुग्धोर्त्कर्षाप- \centerline{प्रकाशिका ।} न च क्षीरपरमाणुतदन्यपरमाणुविषयकत्वसम्भवेन पूर्वोक्तं लाघवं सहकारि वक्ष्यमाणानुमानं न साक्षात्परमाणुसाधकमिति वाच्यम् । दधिद्र्यणुकं ससमवायिकारणं भावकार्यत्वादित्यनु- मानस्य लाघवोपकार्यस्य वक्ष्यमाणानुमानोपकारतया न च लाघवोपकार्यमानाभावः । प्रकृतानुमानस्यैव तादृशस्य सत्त्वादिति ग्रन्थाशयात् । नित्यपार्थिवत्वादिति । पार्थिवपदं का- लादौ व्यभिचारवारणाय दधित्वाधारत्वाभावस्य साध्यत्वात् । नच सोऽप्यभावः कालेऽस्त्येवेति साध्यसत्त्वान्न व्यभिचार इति वाच्यम् । तथासति हेतोः साध्याभावसामानाधिकरण्यात् । नच सोऽभावः प्रतियोगिसमानाधिकरणतया न व्यभिचारप्रयोजक इति वाच्यम् । स्वसत्ताविरोधिप्रति- योगिसत्तासमानाधिकरणस्य प्रतियोगिसमानाधिकरणपदार्थत्वात् । संयोगाभावस्य चैकावच्छेदेन स्वसत्ताविरोधि संयोगसत्तासामानाधिकरण्यादिति दिक् । दधित्वाश्रयेति । तत्त्वेनाभिमतपर- माणावित्यर्थः । प्रतिकूलतर्केणेति । पटवृत्तित्वापादकपूर्वोक्ततर्केणेत्यर्थः । एवं च गौरवमप्यवय- वित्वप्रवेशे प्रामाणिकतया न दोषाय । न वा गन्धवदवयवित्वव्यञ्जकत्वप्रतिवन्दिः । तत्र गौरवस्या- प्रामाणिकत्वात् । किञ्च तत्रावयवित्वप्रवेशे पृथिवीत्वस्य परमाणवभावे गन्धस्याप्यभावः स्यात् । पृथिवीत्वस्यैव तत्समवायिकारणतावच्छेदकत्वात् । तथाच परमाणौ गन्धाभावे तदारब्धपरम्पराया अपि निर्गन्धत्वापत्तिरसमवायिकारणाभावात् । न च रसविशेषसमवायिकारणतावच्छेदकदधित्वा- भावे परमाणौ रसविशेषाभावे तदारब्धपरम्पराया अपि तादृशरसविशेषो न स्यादिति वाच्यम् । पृथिवि- वीत्वस्यैव तादृशरससमवायिकारणतावच्छेदकत्वात् अन्यत्र च न रसविशेषोत्पत्तिः, सहकारिविरहात् । परमाणवपि न सर्वदा तदुत्पत्तिः, अव्यवहितदुग्धध्वंसादिसहकारिविरहात्। सर्वत्र च परमाणौ तादृशरस- \centerline{मकरन्दः ।} ति । न चेति । यद्यपि प्रमाणविषयीभूतविषयस्य लाघवस्य सहकारितया वक्ष्यमाणस्य न लाघ- वोपकार्यत्वं तथाप्युक्तस्य भावकार्यस्य तथात्वम् । तथाच तेनैव तदवयवतायां सिद्धायामेतस्य कथञ्चित्तदुपकार्यत्वम् । एवञ्च लाघवोपकार्योपकार्यमानाभावो न चेति फक्किकार्थ इत्याहुः । नित्येति । एतच्च दध्यवयवनि व्यभिचारवारणाय । काले व्यभिचारवारणाय, पार्थिव- त्वादिति । न च समवायगर्भत्वम् , अन्यथा परम्परासम्बन्धमादाय व्यभिचारापत्तेरिति वा- च्यम् । एवमपि साक्षात्सम्बन्धगर्भस्य निर्दोषत्वात् । दधित्वाश्रयेति । दधित्वाश्रयाभिमतपर- माणावित्यर्थः । अवयवित्वप्रवेशे गौरवादिति भावः । अनुकूलैति । पूर्वोक्तप्रतिकूलतर्केणेत्यर्थः । तथाच गौरबमपि प्रामाणिकमिति भावः । अत एव गन्धवदवयवित्वस्य पृथिवीत्वव्यञ्जकत्वे तद- पि परमाणौ न वर्त्तेतेति प्रतिवन्दिः परास्ता, तत्र गौरवस्य प्रामाणिकत्वाभावात् । किञ्चैवं गन्धस- मवायिकारणतावच्छेदकपृथिवीत्वस्याभावे निर्गन्धत्वापत्तौ तदारब्धकार्यस्य निर्गन्धत्वप्रसङ्गात् । नचैवं दधित्वव्यञ्जकरसविशेषसमवायिकारणतावच्छेदकतया दधित्वं परमाण्वापि, अन्यथा पर- माणौ तद्रसाभावेन तदारब्धदध्द्यपि तदभावापत्तेरिति वाच्यम् । पृथिवीत्वस्यैव तदवच्छेदक- त्वात् । घटादौ सहकारिविरहे तदनुत्पादात् । तदारम्भकपरमाणौ च तदुत्पत्तिरिष्टैव । अत एव तेन कदाचिद् दध्यारम्भोऽपि । अत एव मधुरारम्लरससमवायिकारणतावच्छेदकतया पृथिवीत्व- सिद्धिरुक्ता वर्द्धमानचरणैरिति दिक् ।