न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 121, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८७ प्रकाशः । रीत्याऽन्योन्याश्रयात् । उच्यते । निमित्तकारणेतरकारणनाशत्वेन कारणत्वम् । यद्वा, विद्यमानाश्रय- द्रव्यनाशे असमवायिनाशो हेतुरेवं साऽसमवायिकारणकद्रव्यनाशे प्रतियोग्याश्रयनाशः । तथाप्यु- भयजन्ये द्रव्यनाशे का गतिः ? आश्रयनाशाजन्यद्रव्यनाशं प्रत्यसमवायिनाशस्य हेतुत्वात् तस्य चाश्रयनाशजन्यत्वात् । अत्राहूः । तन्नेतरसमवधाने तदुभयाभावाभावाभ्यां व्यक्तिविशेषाभावाभावाद् प्रकाशिका । सत्येवानतिप्रसक्तत्वेन ग्राह्यमिति परस्पराश्रय इत्यर्थः । न तु प्रतियोगिप्रसिद्धयर्थं मणिजन्यत्वग्रहो- वह्नावपेक्षणीय इत्यर्थो रूपादावेव मणिनिष्ठे प्रतियोगिप्रसिद्धेरिति । निमित्तकारणेति । नचैव- मपीन्धनानाशजन्यवह्निनाशेऽदृष्टनाशजन्यशरीरनाशे च व्यभिचार इति वाच्यम् । इन्धननाशाद्देवा- न्तरानन्तरं नोत्पद्यते पूर्वानलस्तु स्वावयवक्रियाविभागादिन्यायैनैव नश्यति, एवं शरीरमपीति स्वीका- रात् । नच निमित्तकारणत्वं समवाय्यसमवाय्यन्यत्वमिति तदन्यकारणनाशत्वेन कारणत्वमायाताम् । नचान्यान्यत्वमवच्छेदकमिति वाच्यम् । तस्य कारणतानवच्छेदकत्वेऽपि तत्कोटिप्रवेशे बाधका- भावात् सामान्ये सामान्यस्याप्रयोजकत्वेऽपि विशेषे विशेषस्य प्रयोजकत्वमविरुद्धमेवेत्याशयेनाह । यद्वेति । तथाप्युभयेति । उभयनाशोत्तरभाविनित्यर्थः । आश्रयनाशाजन्येत्याद्युपलक्षणम् । अव्यवहितपूर्वविद्यमानामंवायिकारणकद्रव्यनाशेऽपि समवायिकारणनाशस्य हेतुत्वात् प्रकृतना- शस्य चासमवायिकारणनाशोत्तरकालीनत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । अव्यवहितविद्यमा- नोभयद्रव्यनाश उभयनाशस्य दण्डचक्रवत्कारणत्वमिति भावः । यथाश्रुतेऽनन्तकारणताकल्पनाप- त्तेः । यत्त्वसमवायिकारणनाशसहितसमवायिकारणनाशत्वेन हेतुत्वे तात्पर्यमिति । तन्न । विशे- ष्यविशेषणभावे विनिगमकाभावात् । किञ्च समवायिकारणसमकालीनद्रव्यस्य नाशे ऽसमवायिकार- णनाश एवासवायिनाशसमकालीनस्य तस्य नाशे समवायिनाशो हेतुरेवं चोभयोत्तरकालीने फलत उभयनाशो हेतुः । वस्तुतो द्रव्यनाशं प्रत्यसमवायिकारणनाशस्य द्व्यणुकादिनाशस्थले कारणत्वावधारणात् यत्रापि समवायिकारणनाशानन्तरं द्रव्यनाशस्तत्राप्यसमवायिकारणनाश एव नाशकः, न चैवं क्षणद्वय आश्रयं विना कार्यस्वीकारापत्तिः । प्रथमक्षणेऽनाश्रितत्ववत् , द्विती- यक्षणेऽपि तथास्वीकाराविरोधात्, एवं च सति गुणकर्मादिनाशे समवायिकारणनाशस्य कारणत्वे क- ल्प्यमाने सामान्यत एव समवायिकारणनाशसमानकाली स्य समवेतस्य नाशे समवायिकारणनाशः कारणत्वेन कल्प्यते अनुगमानुरोधादित्येव बीजमाश्रयनाशस्य द्रव्यनाशहेतुत्वे, तथा चोदाहृतनाशे- मकरन्दः । हेतुत्वप्रहाणुपपत्तेः । तथा च विशेषणोपादानायासोऽपि व्यर्थ इति भावः । निमित्तकारणेति । न चेन्धननाशादपि वह्निनाशादनुगमः । तत्रेन्धननाशाद्वह्नयन्तरं नोत्पद्यते । पूर्ववह्नित्ववयववि- भागन्यायेनैव नश्यतीत्युपगमात् । एवं शरीरनाशोऽपि नादृष्टनाशजन्य इत्यभ्युपगमेनेदम् । ननु निमित्तकारणत्वं समवाय्यसमवायिभिन्नकारणत्वमिति कारणत्वान्तर्भावे गौरवम् । तदनन्तर्भावे तद्गन्यान्धत्वमवच्छेदकं पर्यवस्यति । तच्चानभ्युपगतमिति चेन्न । तदन्यान्यनाशत्वस्यात्र तत्प- र्यवसानात् । तथाच प्रतियोग्यनुगमकतया तत्प्रवेशे तद्धटितस्यावच्छेदकत्वं, न तु तस्यैव । अन- भ्युपगतञ्च तदिति भावः । केचित्तु, एतदस्वरसादेवाह-यद्वेति । तथापीति । न चाश्रयनाशे तदाश्रितद्रव्यतदसमवायिनोर्युगपदेव नाशादिदमसम्भवीति वा- च्यम् । समवायिनाशसमकालं विभागाद् यत्रीसमवायिनाशस्तत्र तत्सम्भवात् । आश्रयनाशा- जन्येत्युपलक्षणम् । असमवायिनाशाजन्यद्रव्यनाशं प्रत्याश्रयनाशस्य हेतुत्वात्, तस्य चासम- वायिनाशजन्यत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । नचाविद्यमानोभयक्रव्यनाशत्वावच्छिन्ने अस-