न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 122, कुल 608 में से
संदर्भ में पढ़ें८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां पपन्नम् । एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्याद् यस्य दह- नाऽपेक्षेति न धूमादिसामान्याद्वह्निसामान्यादिसिद्धिः । एतेन व्यतिरेको व्याख्यातः । तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभाव- स्याप्यसिद्धेर्गतमनुमानेनेति चेत् । बोधनी । दहनादीनामुपयोग इत्यपि सम्भवान्न धूमादिमात्राद्दहनानुमानसिद्धिरित्याह—एवं तर्ही-इति । एतेन धूमादिविशेषस्य दहनाद्यपेक्षत्वसम्भावनाप्रतिपादनेन दहनादिव्यतिरेकान्न धूमादिमात्रव्य- तिरेकोऽपि सिद्ध्यतीत्याह—एतेन-इति । एवं चानुमानमात्रोच्छेद एव स्यादित्याहँ—तथाच- इति । शिंशपाया वृक्षत्वस्वभाव इत्येतद् वृक्षे शिंशपात्वानुपलब्ध्या लिङ्गेन शिंशपात्वव्यति- रेकोऽनुमानात् सिद्ध्यति, तेन व्यतिरेकासिद्धौ स्वभावस्यासिद्धेरनुमानमात्रोच्छेद एवं इति । प्रकाशः । व्यक्तिविशेषं प्रति तदुभयव्यक्त्योरनन्यथासिद्धयोः कारणत्वं गृह्यते इत्येषा दिक् । ननुः कार्यवैजात्ये तृणस्य वह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्रे इति शङ्कया न कार्यात् कारणं काप्यनुमीयेत । यदि चोपस्थितरूपे व्यभिचाराभावात्तेनैव रूपेण कार्यत्वग्रहस्तर्हि कारणतायामपि यत्रोपस्थितरूपे व्यभिचारस्तत्रैव रूपान्तरेण कारणताग्रह इति तुल्यमित्याह । एवं तर्हीति । एवं वह्नेर्धूमविशेष एव प्रयोजकत्वाद् वह्निमात्रव्यतिरेकाद् धूम- मात्रव्यतिरेको नानुमीयेतेत्याह । एतेनेति । निषेध्यतेयेति शेषः । तथा चेति । विपक्षवा- धकमानवेदनीयो हि स्वाभावनियमो बौद्धानाम् । बाधकं च कार्यानुपलब्धी, ततस्तद्भङ्गे कथमनु- पायकः सिद्धयेदित्यनुमानमात्रविलयान्निधैव तदुपगमादित्यर्थः । तदेतद् दूषणं बीजत्वसामान्यं प्रत्यक्षसिद्धमङ्कुरे न प्रयोजकं, किन्तु तद्विशेषः कुर्वद्रूपत्वमतीन्द्रियमिति वदतो बौद्धस्य, प्रकाशिका ऽस्ति द्वयमवच्छेदकं समवायिकारणनाशसमानकालीनसमवेतनाशत्वमसमवायिनाशसमानका- लीनद्रव्यनाशत्वञ्चेति उभयावच्छेदेनोभयोः कारणत्वमित्यभिसन्धायाह । दिगिति । मकरन्द भवायिनाशसहितसमवायिनाशत्वेन हेतुत्वमस्तु । तथाच कथं व्यक्तिविशेषे व्यक्तिविशेषस्य हेतु- त्वम् ? अन्यथा अनन्तसामग्रीकल्पनापत्तेरिति वाच्यम् । तत्रैव तात्पर्यात् । नचात्राप्यन्यतर- स्यावच्छेदकत्वे विनिगमकाभावः । असमवायिनाशात्वादिना तदुभयोरपि हेतुत्वादेव । अत एव सामग्रीभेदः । अन्यत्रान्यतरस्यैव हेतुत्वात् । नचात्राप्यन्यतरस्यैव हेतुत्वमस्तु, कार्यतावच्छेदकभे- दाच्च सामग्रीभेद इति वाच्यम् । विनिगमनाविरहेणोभयोरपि तुल्यत्वात् । वस्तुतस्तु समवायि- कारणानाशाद् द्रव्यगुणकर्मणां नाशदर्शनात् तत्तन्नाशस्याननुगमादनुगतस्य सति सम्भवे त्यागा- योगादविद्यमानांश्रयकासमवेतकार्यनाशत्वावच्छेदेनास्य हेतुत्वकल्पनाद् द्रव्यनाशेऽपि तथा । तथाच युगपत् समवाय्यसमवायिनाश्योरुत्पत्तावपि तन्निप्तकार्यमात्रनाश एवाश्रयनाशो हेतुः । तथाच न सामग्रीभेदः । अत एव समवायिनाशस्थलेऽपि तज्जन्यासमवायिनाशस्यैव द्रव्यनाशकत्वं कॢप्त- त्वादित्यपास्तम् । गुणादिनाशे तस्यापि कॢप्तत्वात् । किञ्चाविद्यमानाश्रयकद्रव्यनाशे आश्रयनाशो हेतुरविद्यमानासमवायिकारणकद्रव्यनाशेऽसमवायिनाशो हेतुरस्तु । तथाच कॢप्तसामग्रीत एव प्रकृतकार्योपपत्तौ न सामग्रीभेदः । अविद्यमानता च द्रव्यनाशपूर्वक्षणे बोध्या । तेन सत्समका- लाविद्यमानत्वमादाय न व्यभिचार इति विद्वद्भिः परिचिन्तनीयमिति । एतत् सर्वमभिसन्धा- योक्तं दिगिति ॥