न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 125, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] ब्रह्मप्रकृतिकारणतावादपूर्वपक्षः । ४१ पिण्डितस्य । इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनं, तत्रापि जलं प्राप्य दिव्यं, पार्थिवं प्राप्य भौमम् , उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयम् ॥ ६ ॥ तथाप्येकमेकजातीयमेव वा किञ्चित् कारणमस्तु, कृतं विचित्रेण । दृश्यते बोधनी । अथ वैचित्र्यादिति हेतुमवतारयितुं शङ्कते—तथापि-इति । यद्यपि कार्यस्य नियतजातीय- कारणनियमस्तथापीति । कथं तर्हि कार्यवैचित्र्यमित्यत आह—दृश्यते हीति । न चात्र प्रकाशः । तत्र साध्याव्यापकत्वात् । आगमोऽप्यत्रास्त्येवेत्येके । पवनोत्कर्षेण वह्न्युत्कर्षदर्शनात् तेजोमात्रे तस्य निमित्तत्वं न वह्निमात्रे, सामान्यस्य सामान्यं प्रति प्रयोजकत्वे विशेषस्योपाधितायामतिप्रस- ङ्गादित्यन्ये । पिण्डितस्य=सुवर्णस्य । दिव्यमिति दृष्टान्तार्थम् । तत्राप्रश्नात् ॥ ६ ॥ एतावता कारणमात्रे सिद्धेऽपि सापेक्षत्वादित्यत्र सिद्धसाधनं शङ्कते । तथापीति । एकमिति त्रिदण्डिमतसमुत्थानम् , तेषां ब्रह्मण एव सकलकारणत्वात् । एक- जातीयमिति साङ्ख्यमतम् । तेषां पुरुषाणां भेदात् प्रतिपुरुषं च महत्तत्त्वानां भेदेऽपि प्रकृति- विकारत्वात् प्रकृतेश्चैकत्वादेकजातीयत्वात् । तथाच कारणस्यैकव्यक्तित्वेनैकजातीयत्वेन वा नेश्वर- सिद्धिरस्मदादिनापि तद् द्रष्टुं शक्यत्वादिति प्रकृतसङ्गतिः । न चाविचित्राद् कारणाद्विचित्रं कार्य- प्रकाशिका । स्त्वस्यापि जातेः सिद्धेः । अत एव तेजस्त्वपेक्षया द्रव्यत्वमेव सामान्यमिति तदेव पवनजन्य- तावच्छेदकं किमिति न स्वीक्रियत इत्यनुयोगो निरस्तः । द्रव्यत्वस्य नित्यवृत्तित्वात्, जन्यद्रव्य- त्वस्य पृथिवीत्वसङ्करेणोपाधित्वात् । ननु पृथिवीजन्यत्वमेवोपाधिः स्यादत आह । आगमो- ऽपीति । तथाच पक्ष एव साध्यव्यापकत्वमिति भावः । आगमस्तु— वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भ्राजस्तद्रूपगुणमुच्यते ॥ इत्यादिः । यदिद्वेषयोरित्यादिन्यायावतारे निर्वातस्थदीपस्येत्यादिकमेव सम्यक् । तदनवतारे त्वेताव- तापि वह्निमात्रे कारणत्वमायाति न तु जन्यतेजोमात्र इत्यरुचिं विभावयति । अन्य इति । तत्राप्रश्नादिति । यद्यपि तत्गतसामान्यमपि प्रश्नविषय एव दिव्यस्यापि दहनत्वात्, तथापि तार्णादिदहनसामान्यस्यैव प्रस्तुततया प्रश्नविषयत्वमित्याशयेनेदमुक्तम्। एवं च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्येको ग्रन्थः, तेन पिण्डितस्यापि दृष्टान्तता लभ्यते । अन्यथा तस्यापि प्रश्नविषयत्वेनासङ्ग्रहापत्तेः । न च औदर्यस्यापि प्रश्नाविषयतया तत्रोत्तरविरोधः, तार्णपदेन पार्थिवेन्धनजन्यवह्नेरेवोक्तत्वेन तस्यापि प्रश्नाविषयत्वात् । दृष्टान्तपरत्वाद्वा ॥ ६ ॥ प्रकृतेरिति । एकप्रकृतिविकारत्वादेकजातीयत्वं महत्तत्त्वानां पुरुषभेदेन भेदेऽपीत्यर्थः । अस्म- मकरन्दः । न्नसाध्यव्यापकत्वादिति भावः । अत एवाह । तैजसेति । आगमोऽपीति । “ज्योतिरुत्पद्यते वायो”रित्यादिविष्णुपुराणरूप इत्यर्थः । यदिद्वेषयोरिति न्यायात्तावता वह्निसामान्यमात्रे तद्धेतुत्वं सिद्ध्यति, न तु तेजोमात्रे । अन्यथा द्रव्यमात्र एव तदापत्तेरित्यनुशयादाह । अन्य इति । दिव्य- मितीति । यद्यपि दिव्यस्यापि दहनतया तद्गतसामान्यमपि प्रश्नविषयः, तथापि तार्णऽऽदिदह- नसामान्यस्य प्रश्नविषयत्वादस्यातथात्वमित्याशयः । यद्यप्येवं पिण्डितस्येत्यप्ययुक्तं, तत्राप्य- प्रश्नात् । तथापि तदपि दृष्टान्तार्थमेव । एवञ्च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्ये- कग्रन्थो बोध्यः । दिव्यमित्युपलक्षणम्, उदर्यस्यापि दृष्टान्तत्वमित्येके । तार्णपदस्य पार्थिवेन्धन- दहनपरतया तत्र प्रश्न एवेत्यन्ये ॥ ६ ॥ प्रकृतेश्चेति । तथाचैकप्रकृतिविकारत्वान्महत्तत्त्वादीनामेकजातीयत्वमित्यर्थः । तद् द्रष्टु-