न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 126, कुल 608 में से
संदर्भ में पढ़ें३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्या ह्यविलक्षणमपि विलक्षणाऽनेककार्यकारि । यथा प्रदीप एक एव तिमिरापहारी, वर्त्तिविकारकारी रूपान्तरव्यवहारकारीति चेन्न । वैचित्र्यात् कार्य्यस्य । एकस्य न क्रमः क्वापि वैचित्र्यञ्च समस्य न । शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः ॥ ७ ॥ बोधनी । दृश्यते स्वरूपसहकारिवैलक्षण्यमिति भावः । अत्र हेतुमवतारयति—वैचित्र्यात्-इति । कथं साध्यमेव कारणवैचित्र्यं हेतुरित्यत्राह-कार्य्यस्य—इति । व्याचष्टे-एकस्य-इति । न तावदेकमेव कारणम्, एकस्याक्रमत्वेन कार्य्यक्रमानुपपत्तेः । अनेन कालकृतवैचित्र्यं कारणवैजात्ये हेतुर्दर्शितः । यद्वा, प्रथमसंग्रहश्लोकानुपन्यस्तमेव कार्य्यक्र- ममैवाशङ्कितस्य कारणैकत्वस्य निराकरणाद्योक्तासंग्रहोक्तं वैचित्र्यमवतारितमिति । समस्यापि शक्तिभेदात्कार्य्यवैचित्र्योत्पत्तिमाशङ्कयाह-शक्तिभेदो न च-इति । धर्मिव्यतिरेकान्यतिरेकविक- ल्पदुःस्थत्वादित्येति भावः । यद्वा, भावादभिन्नः शक्तिभेदो न कारणं भावमात्रकारणत्वेन समान- योगक्षेमत्वादिति । एकप्रसरेण योजनाभेदे तु कारणवैचित्र्यस्वीकार इति भावः । ननु स्वभाव एवायं भावस्य यत्समं च विषमं कार्य्यं करोतीति तत्राह-अभिन्नस्वभाव-इति । य एवास्यैक- स्मिन् जनयितव्ये स्वभावः स एवान्यस्मिन् जनयितव्येऽपि, स्वभावस्य दुर्लङ्घ्यत्वात् । ततश्चा- भिन्नस्वभावस्य कथं विलक्षणकार्य्यनिर्माणमिति भावः । अभिन्न इत्यस्य पूर्वशेषत्वे त्वयमर्थः प्रकाशः । महच्चरमित्याह । दृश्यते हीति । तिमिरमालोकाभावः । तदपहार आलोकः । तत्कारी दीपः पिण्डितरूपः । रूपान्तरं घटादिरूपम् । प्रदीपे च. न स्वरूपभेदसहकारिभेदावित्यर्थः । तथाच तद्दृष्टान्तेनान्येषामपि विचित्रकार्याणामविचित्रकारणजन्यत्वमनुमेयमिति भावः ॥ न वैचित्र्यादिति । दृष्टान्तेऽप्यविचित्रकारणजन्यत्वमसिद्धमिति भावः ॥ एकस्येति ॥ एकस्य कारणस्य सम्बन्धी न क्रमः कार्याणाम् । समस्यैकजातीयस्य च कार- णस्य सम्बन्धि न वैचित्र्यं कार्याणाम् । शक्तिविशेषो न कार्यवैचित्र्यहेतुः, धर्म्यभिन्नो यतः । चो हेत्वर्थे । विचित्रकार्यजननस्वभावादपि कार्यवैचित्र्यमुपपाद्यम् । एकत्र कार्ये यत्स्वभावो जनकस्त- दितरकार्यजननेऽपि तत्स्वभावो वाच्यः । अन्यथैकस्य स्वभावभेदादेकत्वादिहानिप्रसङ्ग इत्येकस्व- प्रकाशिका । दादीनापीति । यद्यपि ब्रह्माणास्मदादिना वा शक्याधिष्ठानं तथापि तावन्मात्राभिज्ञसिद्धावपि न सकलदर्शित्वसिद्धिरित्यत्र तात्पर्यम् । तदित्यव्ययं षष्ठ्यन्तम् । तथाच तस्य द्रष्टुं शक्यत्वादित्यर्थः । तिमिरस्य तेजोऽभावतया तदपसारस्तेज एव न च तत्कारित्वं तस्येत्यत आह । पिण्डितरूप इति । तथा च तेजःकारित्वं तेजसो व्यक्तिभेदादविरुद्धमिति भावः । प्रदीपे चेति । अयं पूर्वपक्षिणोऽभिमानं इति भावः । अत एवाग्रेऽभिमानखण्डनमेव करिष्यति दृष्टान्तेऽपीत्यादिना । एकस्य क्रमः परैरपि नाभ्युपगत इत्यतः पूरयति सम्बन्धी कार्याणामिति चेति । एवमग्रे- मकरन्दः । मिति । तदित्यव्ययं षष्ठ्यन्तम् । तेन, तस्य द्रष्टुं शक्यत्वादित्यर्थः । ननु तिमिरं तेजोऽभावः, तदपहारं एव प्रदीपो, न तु तत्कारी, अभेदे जन्यजनकभावा- नुपपत्तेरित्यत आह । तिमिरमिति । तथा च व्यक्तिभेदमादायाविरोध इति भावः । प्रदीपे चेत्यापातः अत एव दूषयति । दृष्टान्तेऽपीति । एकस्य कारणस्य क्रमो न पराभ्यु- पग़तोऽपीत्यनाक्षिप्तसमाधानमिति पूरयित्वा व्याचष्टे । एकस्येति । एवमग्रेऽपि । अक्रमा