न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 128, कुल 608 में से
संदर्भ में पढ़ें६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां त्वनपेक्षाऽनुपपत्तेः । नाप्यनेकमविचित्रम् । यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्या- पि हेतुर्नासावदहनो दहनो वा स्यादुभयात्मको वा स्यात् । न चैवम् । बोधनी । इति । पूर्वपूर्वमुत्पाद्योत्तरोत्पादनं हि क्रमः, अन्यथा यौगपद्यप्रसङ्गात् । तत्र स्वेतरनिरपेक्षस्य कार्योत्पादने पूर्वोत्पादनमपेक्ष्योत्तरोत्पादनमित्येवमात्मकः क्रमो बाध्यते । क्रमाङ्गीकारे च पूर्वपूर्व- मुत्पादनमुत्पाद्यमानं वापेश्क्षमाणस्य कार्यकारकत्वमिति स्यात् । तत्र स्वेतरापेक्षालक्षणसहकारिवादः सिद्धः स्यादिति । द्वितीयपादं व्याचष्टे—नाप्यनेकमिति । नानेकमप्यविचित्रमेकजातीयं कारणं विचि- त्रस्य कार्यस्येति । कुतो नैवमित्याशङ्क्य किं तत् कारणं दहनैकजननस्वभावम्, अदहनैकजनन- स्वभावम् उभयजननस्वभावं वेति विकल्पं हृदि निघाय प्रथमे दोषमाह—यदि हि—इति । असावदहनाभिमतो नादहनः स्यात् किन्तु दहनसामग्रीजन्यत्वेन दहन एव स्यादिति भावः । द्वितीयेऽप्याह—दहनो वा—इति । अदहनसामग्रीजन्यत्वादिति । तृतीयेऽप्याह—उभयात्मक- इति । उभयमप्युभयात्मकं भवेदिति । विपर्ययस्तु दृश्यत इति । शक्तिभेदो नचेत्येतदवतारयितुं प्रकाशः। हेत्वभावादित्यर्थः । अन्त्ये, क्रमेति । तस्यैव द्वितीयस्य कारणस्यापेक्षणादित्यर्थः । एकजातीयं कारणं दहनजनकैकस्वभावं वा ? अदहनजनकैकस्वभावं वा ? उभयजनकस्वभावं वा ? । आद्ये दोषमाह । नासाविति । कारणाभावादित्यर्थः । भवन् वा दहनात्मकॊ भवेदित्याह । दहनो वेति । इतरदहनवत्तद्धेतुस्वभावप्रसूतत्वादित्यर्थः । दहनजनकैकस्वभावस्य अदहनजनकत्वे व्याघातोऽ- पीति भावः । द्वितीये तु यथाव्याख्यातवैपरीत्यं फक्किकार्थः,- नाऽसौ दहनोऽदहनो वा स्यादिति, कृत्वा । तृतीये, उभयात्मक इति ॥ अत्र च पटो यदि यावद्दहनजनकजन्यः स्यात् पटो न स्याद् , दहनो वा स्यादित्यदहनदहनत्वयोरापादनम् । अदहनो वा यदि तथा स्याद् दहनः प्रकाशिका । दहनत्वमेवापादनीयमतो विकल्पयति । एकजातीयमित्यादि । अदहनत्वाभावदहनत्वयोः पौनरुक्त्यमतोऽन्यर्थार्थप्रतिपत्तये हेतुं पूरयति । कारणाभावादिति । तथा चादहनेऽनुत्पत्ति- दहनत्व आपात, इत्यर्थः । एवमग्रेऽपि । यथाश्रुते वैयधिकरण्यं तृतीये चोभयात्मकत्वमापायम- प्रसिद्धमित्यन्यथा तर्कमाह । अत्र च पटो यदीति । इत्यदहनदहनत्वयोरिति । यद्यप्य- 'दहनत्वं प्रथमतर्केण नापाद्यं किन्तु तदभावो दहनजकस्वभावत्वे तर्कानुपदर्शनं च,तथाप्यत्रेतिशब्दः प्रकारवची तथा च दहनो यद्यदहनजनकस्वभावजन्यः स्याद्दहनो न स्यात् अदहनो वा स्यादिति द्वितीयस्तर्कः। स च द्वितीयकल्पे यथाव्याख्यातवैपरीत्यमित्यादिग्रन्थेन दर्शितप्रयोग इति तत्फलमेव दर्शितं अदहनदहनत्वयोर्यथायोग्यं प्रथमद्वितीयात्त्वयः । तृतीयतर्कमाह अदहनोऽयमिति । मकरन्दः । यथाश्रुते वैयधिकरण्यादाह । अत्र चेति । श्रीगणेशाय नमः । यदि हि अन्यूनमनतिरिक्तं चेति । अन्यूनानतिरिक्तं दहनकारणमेव तदेकजातीयं कारणं यदि स्यादसौ प्रसिद्धोऽदहनो न स्यात् नोत्पद्येत दहन एव वा स्यादित्येका योजना । अन्यूना नतिरिक्तमित्यत्र विभक्तिविपरिणामेन अदहनस्यापि हेतुर्यद्यन्यूनानतिरिक्तस्तदेकजातीयकारणं स्यादसौ दहनो न भवेत् अदहन एव वा स्यादिति द्वितीया । तदेकजातीयं कारणमन्यूनानतिरिक्तं दहनकारणमदहनस्यापि हेतुः स्यादसावुभयात्मको भवेदिति तृतीया ॥