भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 129, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 129

प्रथमस्तबके ] प्रकृतिकारणतायादखण्डनम् । ६५ शक्तिभेदादयमदोष इति चेन्न । धर्मिभेदाभेदाभ्यां तस्यानुपपत्तेः । असङ्कीर्णो- भयजननस्वभावत्वादयमदोष इति चेत् । न । न हि स्वाधीनमस्यादहनत्वम् , अपि तु तज्जनकस्वभावाधीनम् । तथाच तदायत्तत्वादहनस्यापि तत्त्वं केन वारणीयम् । न हि तस्मिञ्जनयितव्ये नासौ तत्स्वभावः । तस्माद्विचित्रत्वात् बोधनी । शङ्कामाह-शक्तिभेदात्-इति । नानात्वादेकस्यैव कार्यवैचित्र्योपपत्तेर्न पूर्वोक्तदोष इति । न- इति । सा हि शक्तिर्धर्मिणो स्याद् भिन्ना वा ऽभिन्ना वा भिन्नाभिन्ना वा, प्रथमे शक्तिरेव कारणं स्यात् तदन्वयव्यतिरेकानुविधानात् कार्यस्य । न द्वितीयः, शक्तेरेवापलापात् । न तृतीयः, प्रमाणा भावात् तद्व्याघाताच्च । तेन भेदाभेदाभ्यामिति ग्रन्थश्च प्रत्येकसमुदायपरो योजनीयः । यद्वा, दहनादहनजननशक्तिमतः कारणाज्जातस्य कार्यस्य दहनादहनात्मकत्वप्रसङ्गेन विरुद्धधर्मसंस- र्गाद् भेदः स्यात् एकसामग्रीजन्यत्वेनाभेदश्च स्यादिति शक्तिभेदानुपपत्तिरिति । श्लोकशेषं विवरीतुं शङ्कते — असङ्कीर्ण-इति । नायं दहनादहनायात्मकत्वप्रसङ्कदोषोऽस्तीत्यर्थः । न- इति । यदि हि स्वाधीनमस्यादहनस्यादहनत्वं तदा दहनस्यादहनप्रसङ्गो वक्तुं न शक्येतापि, न चैवं, किन्तु कारणगतादहनजननस्वभावायत्तम् , तथा च दहनस्यापि तदेकसामग्रीकस्य तत्त्वमदहनत्वं दुर्वारमिति । एतदेव श्लोकशेषेणोपपादयति नहि-इति । तस्मिन् दहने जनयि- तव्येऽनासौ भावो दहजननस्वभावो न भवति, स्वभावभेदाम्युपगमे तु कारणवैजात्यं स्यादिति भावः । उपसंहरति-तस्मात्-इति । वस्तु कार्यवैचित्र्यात् कारणवैचित्र्यमभ्युपगम्यैव क्षणभ ङ्गित्वाद् भावानां स्वरूपत एव वैचित्र्यं न त्वेकस्यैवानुयायिनः सहकारिनिबन्धनं वैचित्र्यमिति प्रकाशः । स्यादित्युभयापादनमिति नाप्रसिद्धिः । ननु, दहनजनकस्यैव धर्मभेदमुपादायादहनजनकत्वान्नो- क्तदोष इति शङ्कते । शक्तिभेदादिति । स धर्मभेदो न धर्मिभिन्नः तथा सति धर्मिणोऽभिन्न- त्वात्तदभिन्नस्य शक्तिरूपधर्मस्य भेदानुपपत्तेः । नापि धर्मिभिन्नः, तस्यैव कारणान्तरत्वे प्रतिज्ञा- तैकजातीयकारणत्वव्याघातापत्तेः । नापि धर्मिणो भिन्नाभिन्नो, विरोधादिति परिहरति । धर्मिभे दाभेदाभ्यामिति । परस्परविलक्षणानेकजनकस्वभावस्य कारणत्वमिति नोभयात्मकत्वमेकस्येत्याह । असङ्कीर्णेति । जनितादहनस्य दहनेऽपि जनयितव्ये अदहनजनकस्वभावत्वमनुवर्त्तते न वा ? आद्ये, न हीति । अस्य अदहनत्वेनाभिमतस्य । अन्त्ये पुनरेकजातीयकारणव्याघातः । तस्यैवादह- नजनकस्वभावत्वमतिक्रम्य स्वभावान्तरेण दहनजनकत्वादिति भावः । तथाचेति । दहनो यद्यहन जनकस्वभावजन्यः स्याददहनः स्यादिति । एवं विपरीतमप्यापाद्यमित्यर्थः । विचित्रकार्याणां विचित्रकारणजन्यत्वे प्रत्यक्षानुमाने प्रमाणमुपसंहरन्नेवाह । तस्मादिति । ननु स्वरूपमेव विचित्र- प्रकाशिका । उभयापादनमिति । यद्यपि दहनत्वमेवापाद्यं तथापि पक्षतावच्छेदक महिम्ना तदुभयापादन- मित्यभिप्रेत्येदमुक्तम् । यद्यपि घटपक्षकदहनत्वापादककतर्कादविशेषोऽस्य, तथापि तत्र घटत्वम- त्रादहनत्वं पक्षतावच्छेदकमिति भेदः । वस्तुतोऽत्र तथाशब्देनोभयजनक स्वभावजन्यत्वस्यापाद- कत्वे, न लाभः तत्र दहनजनकैकस्वभावजन्यत्वमापादकमिति भावः । नाप्रसिद्धिरित्युपलक्षणं न वैयधिकरण्यमित्यपि द्रष्टव्यम् । ननु शक्तिभेदेऽपि शक्तस्य भेदादेककारणकत्वं भज्येतेत्यत आह । नन्विति । तथाचैवमपि धर्मानभिन्न इत्यर्थः । उभयशब्दस्य द्वितयार्थकत्वेन सर्वसङ्ग- तिरित्यन्यथा व्याचष्टे । परस्परेति । तत्त्वं दहनत्वमिति भ्रमं निवारयन्नेव वैयधिकरण्यादन्यथा- तर्कमाह । दहनो यद्यदहनेति ॥ ७ ॥ मकरन्दः । नाप्रसिद्धिरित्युपलक्षणं, नापि वैयधिकरण्यमित्यपि द्रष्टव्यम् ॥ ७ ॥