न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 130, कुल 608 में से
संदर्भ में पढ़ें६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां कार्यस्य कारणेनापि विचित्रेण भवितव्यम् । न च तत् स्वभावतस्तथा । ततः सहकारिवैचित्र्यानुप्रवेशः । न तु क्षणोऽपि तदनपेक्षस्तथा भवितुमर्हतीति ॥ ७ ॥ अस्तु दृष्टमेव सहकारिचक्रं किमपूर्वकल्पनयेति चेन्न । विश्ववृत्तिः । विफला विश्ववृत्तिर्न न दुःखैकफलाऽपि वा । दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥ ८ ॥ यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनं, न परलोका- बोधनी । बौद्धो मन्यते तं प्रत्याह-न च-इति । न च तत्=कारणम् । स्वभावतः=स्वरूपतः । तथा=वि- चित्रं, तत्त्वेन प्रत्यभिज्ञायमानत्वादिति । यद्वा, प्रदीपवत् स्वभावत एव विचित्रमस्तु कारणं किं सहकारिवैचित्र्येणेत्युक्तमिति चेत्, तत्राह-न च-इति । प्रदीपे तिमिरापहारादिकार्यभेदस्य तैलवर्त्यादिसहकारिभेदनिबन्धनत्वादित्यर्थः । क्षणभङ्गवादेऽपि सहकारिवैचित्र्यमादरणीयमित्याह- न च क्षणोऽपि-इति । न चान्त्यक्षणोऽपि सहकार्यानपेक्षस्तथा विचित्रकार्यसन्ततिहेतुर्भवति । सोऽपि हि यदृच्छया सिद्धसहकारिमध्यमध्यासीन एव विचित्रकार्ये हेतुः, अन्यथा कुसूलनिहितः बीजः कृषीवलः कृतार्थः स्यादिति ॥ ७ ॥ अथ विश्ववृत्ति इत्येतदवतारयितुं शङ्कते-अस्तु-इति । ततोनेश्वरसिद्धिरिति अवतार- यति-न, विश्ववृत्तिः-इति । अस्यानन्यथासिद्धिं दर्शयन् विवक्षितसाध्यकत्वमुपपादयति- विफला-इति । यागादौ तावद्विश्वस्य जगतः प्रवृत्तिर्दृश्यते, नेयं विफला, नापि दुःखैकफला, विश्ववृत्तित्वादेव । नापि दृष्टपूजादिफला स्वरूपतो हेतुत्वात् । परैर्विप्रलब्धत्वात् परविप्रलिप्सया वा प्रवृत्तिरित्यपि न युक्तम् । ईदृशविप्रलम्भासम्भवात् तस्मात् यागादौ विश्ववृत्तिरनन्यथासिद्धा तस्यापि तावत् कारणत्वं कल्पयति । न तु दृष्टमेव सहकारिचक्रं कारणमित्यर्थः । तदेतद् व्या- प्रकाशः । मस्तु कृतं सहकारिवैचित्र्येणेत्यत आह । न चेति । ननु सहकारिवैचित्र्यानुप्रवेशं विनैव यथोत्पन्न- क्षणस्वरूपमुपादाय कार्यवैचित्र्यमुपपत्स्यत इत्यत आह । न त्विति । तदनपेक्षः=सहकार्यान- पेक्षः । तथा=विचित्रकार्यार्जकः । बौद्धमते सहोत्पन्नविचित्रसहकारिसहितस्यैव विचित्रकार्यजनक- त्वादित्यर्थः । तदेवं विलक्षणसामग्री विचित्रकार्यजनिकेति प्रसाधितम् ॥ ७ ॥ सम्प्रति दृष्टकारणमेलकात्मिकैव सा तथा, तदधिष्ठानं चास्मदादिभिरेव शक्यमिति पुनरपि सिद्धसाधनमित्याक्षिपति - अस्त्विति । विश्ववृत्तिः=विश्वेषां=लोकानां वृत्तेः=प्रवृत्तेरदृष्टं सिद्ध्यतीत्यर्थः । तदेव प्रपञ्चयति । विफलेति । भूतचैतन्ये भूतानामेव परिणतिभेदाद्वासनात् एवोत्तरकार्यमिति न परलोकसिद्धिरित्यत्र दोषमाह-यदि हीति । प्रकाशिका भूतचैतन्ये हीति । परिणतिभेद एव वासनेत्यभेदेनान्वयो विकल्पेन वा परिणतिभेदाद्वासा- नयोरन्वयः । भूतचैतन्यपक्ष आत्मनोऽनङ्गीकारात् भूतस्य शरीरादेर्भस्मीभावाच्च परलोकसिद्धिरिति मकरन्दः । भूतचैतन्य इति । भूतस्य शरीरादेर्भस्मीभावादात्मनश्चानङ्गीकारात् कस्य परलोक इति न तत्सिद्धिरित्यर्थः ॥ क्षणोऽपीति । क्षणिकपदार्थोऽपीत्यर्थः ।