न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 13, कुल 608 में से
संदर्भ में पढ़ेंईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥' इति गीतावचनं प्रमाणम् । इत्थं प्राधान्येनात्र महानिबन्धे परमेश्वरतदवतारादीनां दृढप्रमाणैरवधारयितुर्न्यायाचार्य्य- विरुदावलीसमलङ्कृतस्याचार्य्योदयनभगवतः समयचारित्र्याद्यैतिह्यं भूतपूर्वैर्वारणसेयराजकीयसंस्कृत- महाविद्यालयीयपुस्तकाध्यक्षैः श्री पं० विन्ध्येश्वरीप्रसादद्विवेदिमहोदयैः काशीस्थचौखम्बासंस्कृत- सीरीजभिधपुस्तकमालायां प्रकाशितायां न्यायवार्तिकभूमिकायां, तत्रैव प्रकाशिते चात्मतत्त्वविवेके- ऽस्माभिरपि विस्तीर्य वर्णितप्रायमतस्तत्रैव द्रष्टव्यम् । आचार्येण वैशेषिके किरणावली, लक्षणावली, न्याये न्यायनिबन्धाख्या तात्पर्यपरिशुद्धिः, न्यायपरिशिष्टापरपर्याया न्यायसूत्रवृत्तिरात्मतत्त्वविवेकश्च यया पाण्डित्यपूर्णया रचनया विरचितास्तां विदन्त्येव प्राचीनन्यायवैशेषिकदर्शनहार्दज्ञा नैयायिकाः । स चायमाचार्यप्रवर इतः पूर्वं १९०५ पञ्चाधिकैकादशशतमिते वैक्रमे वर्षे नवाधिकसप्तशत ७०९मिते शकाब्दे वा प्रादुर्भूतस्य भगवतः शंकराचार्यस्य कियत्कालानन्तरमाविर्भूवेत्यत्र— तर्काम्बराङ्कप्रमितेष्वतीतेषु शकान्ततः । वर्षेष्बूदयनश्चक्रे सुबोधां लक्षणावलीम् ॥ इति तदुक्त्यैव निर्धार्यते । एतद्विरचितोयं न्यायकुसुमाञ्जलिर्द्विविधः—एको हरिदासमहेशचन्द्रन्यायरत्नप्रभृतिभिर्व्या- ख्यातः केवलकारिकात्मकोऽपरश्च गद्यपद्यात्मको वरदराजवर्धमानोपाध्यायादिभिष्टीकाग्रन्थैः समुपबृंहितः । अस्य च पूर्वं वारणसेयचौखम्बासंस्कृतपुस्तकालयमालायां ई० १९१२ हायने वर्धमानकृतप्रकाशेन, रुचिदत्तविरचितमकरन्देन च समलङ्कृतस्य महामहोपाध्यायरत्नगर्वस्थ- लक्ष्मणशास्त्रिभिः संस्कृतस्य प्रकाशनमभूत्, किन्तु तस्याधुनाऽप्राप्यत्वाद्बोधिन्याश्च वरदराजकृताया वारणसेयराजकीयसरस्वतीभवनात्प्रकाशिताया दुष्प्रापतया चास्मिन्संस्करणे बोधिनी, मेघठक्कुरकृतं जलदापरपर्यायं प्रकाशिकाख्यं प्रकाशाव्याख्यानं, मैथिलनैयायिकश्रीबब्चाझाकृता टिप्पणी च संनिवेशिता । एवं समुदितव्याख्यात्रयोपेतप्रकाशबोधिनीसहितस्य सर्वाङ्गपरिपूर्णस्य न्यायकुसुमांजलेः प्रातःस्मरणीयानामस्मद्गुरुप्रवराणां महामहोपाध्यायानां श्रीवामाचरणभट्टाचार्याणामन्तेवान्तेवासि- भिर्न्यायाचार्यश्रीपद्मप्रसादभट्टराइभिर्महता श्रमेणारब्धेऽस्य संपादने तेषां नेपालराजकीयकाठमाण्डू- स्थितराजकीयसंस्कृतमहाविद्यालये प्रधानाचार्यत्वेन नियुक्ततया तत्र गमनेन तृतीयस्तबकमारभ्य काशीस्थचौखम्बासंस्कृतपुस्तकालयाध्यक्षैः श्रेष्ठिकुलावतंसैर्जयकृष्णदासमहोदयैरस्य संस्करणस्यावशिष्ट- संपादनकार्येऽहं न्ययोजिषि । ऐषमे संस्करणे प्रकाशमकरन्दसहितं पूर्वनिर्दिष्टमेकमेव पुस्तकं प्रायशः शुद्धमादर्शत्वेनावलम्बितम् । जलद (प्रकाशिका)टिप्पण्योश्चादर्शपुस्तकाश्रयेण लेखकलिखिते भट्टराइमहोदयैः संशोधिते द्वे एव । बोधिन्याश्च वरदराजकृताया उपरि निर्दिष्टं प्रायः शुद्धमेकमेव पुस्तकमादर्शभूतमस्माभिरुपलब्धम् । स चायं वरदराजः कस्मिन्समये बभूव, मध्यकौमुदीलघुकौ- मुद्योर्व्याकरणग्रन्थयोस्सम्पादकाद्विजः स एव वेति सन्देहे प्रायशो मिथिलादेशवासी रामदेवमिश्र- तनूजोऽयमीस्वीयपंचदशशताब्द्यां बभूवेति वदन्त्यैतिहासज्ञाः । कुसुमांजलिहार्दप्रकाशनपुरस्सरमक्षरार्थ- संगतिद्वारा व्याख्यां प्रकुर्वाणोन वरदराजेनाऽन्येभ्यो व्याख्याकारेभ्यः प्रथितनैयायिकप्रचुरभारतचर्या-