न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 12, कुल 608 में से
संदर्भ में पढ़ेंभूमिका अथायं प्रकाश्यते मुद्रयित्वा वरदराजकृतया बोधिन्या, व्याख्यात्रयसमलङ्कृतेन वर्धमानो- पाध्यायविरचितेन प्रकाशेन च समन्वितो न्यायाचार्यपदाङ्कितेन श्रीमदुदयनाचार्येण निबद्धो न्यायकुसुमाञ्जलिरित्यभिधया प्रथितो महानिबन्धः । तत्र च लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्व्याप्य- जात्यधिकरणत्वमात्मनि वर्तते न वेति संशये, भावकोट्या धर्मत्वाधर्मत्वरूपतादृशजात्यधिकरणत्वमा- त्मनि नैयायिकमतेन वर्तते, अभावकोट्या च चार्वाकमतेन गुरुत्वादिरूपतादृशजात्यधिकरणत्वम- नात्मगुण इति प्रथमविप्रतिपत्तिनिरसनार्थः प्रथमस्तवक आचार्यप्रवरेण जुगुम्फे । द्वितीये च अदृष्टादिसद्भावेऽपि वेदानाम्नाप्तोक्तत्वेन प्रामाण्यावधारणादाप्तो वेदकर्ता कश्चिदीश्वर इति न संभवति, अन्यथापि तेषां नित्यनिर्दोषतया स्वतःप्रामाण्यावधारणात्तद्विहितस्वर्गादिसाधनयागादौ प्रवृत्तिसंभ- वादित्याशयवान्मीमांसको द्वितीयः प्रतिवादी प्रत्यवतिष्ठते तन्मतखण्डनेनेश्वरसिद्धिः प्रसाधिता । तृतीये-भवतु वेदानां पौरुषेयत्वादाप्तोक्तत्वं तदभावावेदकप्रमाणसद्भावात्, क्षित्यादेः कर्तृजन्यत्वे च प्रत्यक्षबाधान्नेश्वरः कथमपि सिध्येदिति सौगतमतनिराकरणमकारि । सन्नपीश्वरो न प्रमाणम्, यतः प्रमाणपदं हि भावकरणकर्तृव्युत्पत्त्या प्रमातत् साधनतदाश्रयेषु प्रवर्तते, तथाचेश्वरः कर्ता स्यात्प्रमावांस्तत्करणेन्द्रियादिमांस्तत्समवायिकारणं च स्यान्न चायं तथेति विपर्ययानुमानादिति वादी दिगंबरश्चतुर्थश्चतुर्थे स्तवके दूषितः श्रीमदाचार्यपादैः । पञ्चमे च स्तबके नैयायिकैः क्षिति- वेदादेः कर्तृजन्यत्वेनेतरबाधादीश्वरकर्तृकत्वं साधनीयम्, स च हेतुः शरीरजन्यत्वाद्युपाधिग्रस्ततया न साधकः संभवतीति निरीश्वर सांख्यमतविप्रतिपत्तिखण्डनपुरस्सरं साधकयुक्तिगणैरीश्वरं साधयित्वा तन्मूलकमेव श्रुतिस्मृतिपुराणेतिहासादीनामथयावत्प्रामाण्यमुररीक्रियते . वैदिकधर्मप्रामाण्यवादिनि- र्मानवैस्तैः प्रधानतयेश्वरसिद्धिरेवास्य ग्रन्थस्य निर्मितौ आचार्यचरणानां प्रयोजनम् । एवं चेश्वरो वर्तते न वेति संशयबीजविप्रतिपत्तिनिरसनमुखेनेश्वरसिद्धेर्जागरूकत्वात्तदाज्ञापत्र (१) रूपश्रुतिस्मृतीति- हासपुराणान्यनुसृत्या तद्विहिताचरणसम्पन्नानां हृदि सुविमलां पुरुषार्थचतुष्टयलब्धिहेतुकां शेमुषीमुत्पा- द्यपत्रानास्थया तन्निषिद्धाचारवतां च स्वान्ते विपरीतां बुद्धिं प्रयच्छन्नीश्वरो जीवकर्मानुरूपाणि सुकृतदुष्कृतफलानि भोजयन्कर्मसापेक्षतया न वैषम्यनैर्घृण्यदोषदूषितो भवति, अत एवोक्तं भगवता व्यासेन वेदान्तब्रह्मसूत्रेषु 'वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति २-१-३४ इति । अस्मिंश्च सूत्रे तथाहि दर्शयति इतिवाक्यैकदेशेनैतद्विषये 'पुण्येन पुण्यं लोकं नयति पापेन पापम्' ( प्रश्नो० ३।७ ) 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' (बृह० ३।२।१३) 'कर्मवैचित्र्यात्सृष्टिवैचित्र्यम्' ( ६।४१ ) इत्यादिना कर्मनिमित्तं रचनावैविध्यमतो न परमात्मनि कश्चिद्दोष इति श्रुतिप्रामाण्यं स्फुटीचकार सूत्रकारः । कर्मानुगुणमतिप्रेरकोऽपि स एवेत्यत्रापि । ( १ ) अतएवोक्तं वाधूलस्मृतौ-श्रुतिस्मृती ममैवाज्ञे यस्तामुल्लङ्घ्य वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥ इति ।